पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरूद्रीयसमन्विता। ५७९ प्रभा. दिपदात्केवलगोत्वादिप्रकारकशाब्दबोधस्याननुभवात् त्रिवेकैव शक्तिः एतल्लाभाथैव जात्याकृतिव्यक्तयः प- दार्थ इत्येकवचनम् । नच गवादिपदात् सास्नादिमत्त्वाद्यविषयकशाब्दबोधस्याननुभवेऽपि पदानां सास्ना- दिमत्त्वादौ पृथगेव शक्तिर्वाच्या सामानाधिकरण्यरूपपरम्परासंबन्धेनाकृतिविशेषस्य शक्यतावच्छेदकताच- च्छेदकत्वकल्पनापेक्षया लाघवादिति वाच्यम् । परम्परासंबन्धस्य शक्यतावच्छेदकत्वकल्पनापेक्षया अनिरि. क्तशक्तिकल्पनाया: गवादिपदानां नानार्थकत्वकल्पनासम्पादकत्वेनातिरिक्तशक्तिकल्पनाया एव गुरुत्वादिति प्राञ्चः । नव्यास्तु गवादिपदादाकृतिविशेषानुपस्थितावपि केवलगोत्वादिप्रकारेण शाब्दबोधस्यानुभवसिद्धत- दिनकरीयम् . कृतिव्यक्तयः पदार्थ इत्येकवर नमिति सम्प्रदायः । नच्यास्तु संस्थानानुपस्थितावपि गोत्वादिना गवा. धन्वयबोधाजातिविशिष्टव्यक्तावेच शक्तिः । संस्थाने च पृथगेव शक्तिः । व्युत्पत्तिवैचित्र्याच संस्थान व्यक्त्योरेकपदार्थयोरपि परस्परमन्वयबोधः । सौत्रं पदार्थ इत्येकवचनं तु जातिव्यक्तयोरेकशक्तिलाभायै-- वेत्याहुः । तच्छन्दस्व वक्तृवुद्धिविषयतावच्छेदकीभूतघटत्वाद्य वच्छिन्ने शक्तिः । अथ घटत्वादीनां शक्य तावच्छेदकले शक्यतावच्छेद कभेदाच्छक्तिभेदापत्तिः । न च शक्यतावच्छेद कमेदेऽपि शक्यतावच्छेदक- तावच्छेदकस्य वुद्धिविषयतावच्छेदकत्वस्य ऐक्यान शक्तिभेद इति वाच्यम् । तस्य शक्यतावच्छेदकताबच्छे. दकत्वे शाब्दबोधे तद्भानापत्तेरिति चेन ।बुद्धिविषयतावच्छेदकत्वस्यो५लक्षणतया शक्यतावच्छेदकताव- च्छेदकत्वात् ! उपलक्षणस्य च शाब्दबोधे भानानङ्गीकारात् । घटत्वादेश्च शक्यतावच्छेदकत्वं विशेषणवेने. व । अतस्तस्य शाब्दबोधे भानम् । विशेषणत्वं च तत्तत्पदजन्यबोधविषयत्वेन शक्तिविषयत्वम् । उप- लक्षणत्वं च तत्तपदजन्यथोपविषयत्वेन शक्यविषयत्वमिति । एवमिदम्मदादिष्वपि । तत्रापीदमेतदोः प्र. रामदीयम् . ति ॥ एकवचनार्थकत्वस्य पदार्थत्वं पदशक्तिरूपेऽन्वय एवं सूत्रकर्तुः तात्पयादिति भावः । जातिविशि. एव्य कावेत्य नन्तरं एकति पूरणीयम् । अन्यथा आकृतावपि पृथक्शक्तिस्वीकारादेवकारासङ्गतिरिति ध्येयम् । नन्वेकपदार्थयोः परस्परं नान्वयबोधः । अन्यथा हरिपदार्थयोरबसूर्य योरपि परस्परमन्वयप्रसङ्गात् । नचाभेदान्वये योग्यतैय नास्ति भेदान्वये चाकाकाविरहः नामार्थयाभदनान्वयस्याव्युत्पन्नत्वादिति वाच्यम् । तथा सत्या कृतेरपि व्यक्तावाश्रयतयान्वयानुपपत्तेः । तस्मानामद्वयोरस्थापितार्थ योरेव भेदान्वये निराका- इत्यस्योपगन्तव्यत्वादित्यत आह ॥ व्युत्पत्तीति । तथा चैकपदार्थयोः परस्परमन्वयेऽन्यत्राकाहाविरहेऽपि एव कारार्थानामिवाकृतिव्यक्त्योरपि अन्वये अकाला कप्यते अनुभवानुरोधादिति भावः । नन्वे. वमपि सूत्रे एकवचनानुपपत्तिः त्रिषु शक्तरेक्याभावादित्यत आह । सौत्रमिति ॥ आहुरित्यस्वरसो. द्भावनम् । तद्बीजन्तु पदार्थतावच्छेदके शक्तिसत्त्वे एकत्व स्व । बाधितत्वेनैकवचनार्थान्वयानुपपत्तिरेवे. ति ध्येयम् । प्रसझात्तदादिशब्दानां शक्यतावच्छेदकानाह ॥ तच्छन्दस्यति ॥ वका तच्छब्दोचारका त- दीयज्ञानविषयतायामवच्छेदकं घटत्वादि तदवच्छिन्न तदुचरिततत्पदस्य शक्तिरित्यर्थः । यथा लाध. वागुद्धिस्थ इत्येव वक्तुमुचितं तथापि सोऽस्तीत्यादौ अनुभवसिद्धस्य घटत्वेन घटबोधस्योपपत्तये गौ. खमप्यङ्गीकृतमिति ध्येयम् ॥ शक्तिभेदापत्तिरिति ॥ शक्तिभेदे तदादीनामपि नानार्थत्वापत्तिरिति भावः । नचेष्टापत्तिः तथा सति सकृदुचरित इति न्यायेन तावित्यादाकदा घटपटयो/धानुपपत्तेः । नानार्थप्रकरणे तदादीनां कोशे अनुक्तेथेति भावः ॥ तद्भानापत्तरिति ॥ पवादिपदजन्यशाब्दबोधे लोमलामूलत्वादेस्तथाविधस्य भानदर्शनादिति भावः । प्रकृते च सोऽस्तीत्यादी घटोऽस्तीत्येव बोधोऽ. नुभवसिद्धः न तु बुद्धिविषयतावच्छेदकावच्छिन्नोऽस्तीत्याकारक इति नेष्टापत्तिसम्भव इति मन्तव्यम् ॥ उपलक्षणतयेति ॥ तत्पद्जन्यशाब्दबोधविषयत्वेन भगवदिच्छायामविषयत्वे सति तत्पदशक्यतावच्छेद. कत्वानुगमकत्वमुपलक्षणतया तत्पद्र शक्यतावच्छेदकत्वम् । वस्तुतस्तु शाब्दबोधविषयतावच्छेदका ये ध. मस्तित्तदवच्छिन्नाः तत्पदजन्यबोधविषया भवन्वित्याकारकभगवदिच्छायां बोधविषयतावच्छेदकत्वस्य तत्प-