पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली (शब्द खण्डम - या विध्वेकशक्तिकल्पनाया असंभवेनानायत्या आकृतिविशेष शक्तिरवश्यं वाच्या । नचैवं सति हरिशब्दवा. च्ययमामिलादेरिव गवादिशब्दवाच्याऋतिविशेषगवादेरपि परपरान्वयबोधापत्तिरिति वाच्यम् सति तात्य एकपदशक्ययोरपि परस्परान्वयबोधस्य सर्वसम्मतत्वात् । अन्यया फलव्यापारयोः पृथक् धातु. निरूपितशत्यजीकर्तृ सिद्धान्तिपक्षे तयोरेकपदशक्यत्वेन परस्परान्वयत्राधानुपपत्तेः । तस्मादाकृतो भिन्नैव श. क्तिरित्याहुः । अयानुभवभदात्पक्षत यस्य युक्तत्वेऽपि फेवलव्यकाबेव. शरोसयुक्ति के वक्ष्यमाणतया वि- शिष्टशक्तिक पने प्रमाणाभाव इत्यस्वरसः कल्पद्वोऽपि बोद्धय इति दिन । वैयाकरणप्रभृतयः दिनकरीयम्, त्यक्षविषयेऽदसः परोक्षधुद्धिविषये शक्तिः । अत एव तेषां विभिन्नार्थकत्वम् । एवमेतत्तंदोरीप । इदमः प्रत्यक्षगतं समीप तरवति चैतदो रूपं अदमस्तु विप्रकृष्टं दादिति परोक्षे च विजानीयादित्यपि बदन्ति किम्पदस्य जिज्ञासाविषयत्वविशिष्ट शक्तिः सर्वपदस्य व्यापकत्वे । सर्वे घटा रूपवन्त इत्यादौ घटत्व व्यापक रू.स्वत्त्वमिति बोधात् । त्वम्पदस्य तत्काल नसम्बोध्य चत्रत्वादि शक्यतावच्छेदकम् । एवमहम्प दस्य तत्कालीनस्वतन्त्रोचारयितृचैत्रत्वादि । स्वातन्त्र्योतया च वाच्यस्त्वया मदचनातू स रामरूद्रीयम्. दजन्यवोधविषयत्वेनानिष पत्वं तम्योपलक्षविधया शक्यतावच्छेदकतावच्छेदकत्वं यद्यपि बोधविषयताव- च्छेदकत्वं विषयतारू विषय भेदेन मिनभवति तथापि वोधविषयतावच्छेदकताबरूपानुगतेकधर्मावच्छिन्न स्वादकत्वव्यपदेशः । एवमेवाविषयत्वस्थाने विषयत्वं निवेश्य विशेषणविच्या शक्यतावच्छेदकतावच्छे दकत्वं निर्वच्यम् । तच्च रोमलाङ्गलबादिकमवेति विभावनीयम् ॥ प्रत्यक्षबुद्धिचिपय इति ॥ ता- दृशबुद्धिविषयतावच्छेदकावच्छिन्न इत्यर्थः । बुद्धिश्च वक्तुरेव ग्राह्या । इत्थंच अपमित्यादिपदाटत्वा. दिना घटादिबोधनिर्वाहः । अयं घट इत्यादौ तु एतद्देशतत्कालवृत्तित्वादिकमेव वक्तु: प्रत्यक्षत्रिष-- यतावच्छेदकमतो नाभेदान्वयानुपपत्तिः । अत एवेति ॥ यतः प्रत्यक्षविष्ये इदमेसदो: परोक्षबु. द्धिविषये अदसः दाक्तिस्तत एवेत्यर्थः ॥ तेषामिदमेतददसाम् ॥ भिक्षार्थकत्वमिति ॥ इदमेतदोरेकोऽर्थः । तदन्यस्त्वदसोऽर्थः । अदसा योऽर्थः तदन्यस्तु इदमेतदोरिति रीत्या भिन्नार्थकत्वमित्यर्थः । एवमिति ॥ भिन्ना- र्थकत्वमित्यर्थः । एतत्तदारपीति ॥ एतदः प्रत्यक्षविषयार्थकत्वं तदन्यस्तु सामान्य तो बुद्धिविषयार्थक त्वमिति भावः । केषाभिन्मतमाह । इदम इति । प्रत्यक्षगलं प्रत्यक्षविश्यीभूनामेत्यर्थः । शक्यमिति शेषः । एवमुत्तरत्रापि ॥ समीपतरवृत्ति चति ॥ चकारण प्रत्यक्षातमिलस्य अनुकर्षः । रूपमित्यस्य स्वरूपमित्यर्थः ॥ विप्रकृष्टं तदिनि । प्रत्यक्षगतमित्यर्थः । परीक्षेचति ॥ सप्तम्या वाचकत्वमर्थः तथा चादसः परोक्षवाचकत्वं विजानीयादित्यर्थः पर्यवसितः ॥ जिज्ञासाविषयत्वविशिष्ट इति ॥ ज्ञातुमिच्छाविषयः किंशब्दार्थ इत्यर्थः । इच्छा उच्चारथितुरेव किशब्देन प्रत्याश्यते तथा च को घट इत्यादी घटी मदीय जिज्ञासाविषय इति शाब्दबोध इति भावः ॥ व्यापकत्व इति ।। उद्देश्यताव च्छेदकानरूपिते विधेयतावच्छेदकनिष्ठ इति शेषः । सर्च घटा इन्यास घटनिष्ठाभावप्रतियोगितानव- च्छेदकरूपवत्वमेव रूपे घटत्वच्यापकत्वमिति बोध्यम् । त्वम्पदस्येत्यपाठः । किंतु युष्मत्पदस्येत्येव पा. छ । अन्यथा युवामित्यादी शवमानपत्ते । लमित्यस्य स्वमा पदलाभावा यति ध्यप ॥ सम्बोध्यच. ऋत्वादिक सम्बाव्यत्वसमानाधिकरण यत्रत्वादि का प्रत्यक्षः । कर्मधारयातरभावप्रत्ययस्य एकपदार्थतावच्छे- दक समानाधिकरणापरपदाथतावच्छेदकबोध कत्यात्तत्कालीनसम्बोध्यत्वंच तत्कालोचरितसम्बोधनप्रथमान्तचै- त्रादिपदाव्यवहितोत्तरवाक्यजन्यशाब्दशोधाश्रयत्वेन वक्तुरिच्छाविषयत्वं चैल स्वया भुज्यतामित्यादी चे. त्रादिपदोत्तरप्रथमया चैत्रादिविशेषणत्वेन एतादृशमेव सम्बोध्यत्वं प्रतिपाद्यते तत्समानाधिकरणत्वोप. लक्षितचत्रत्वादिकमेव युष्मच्छब्दशक्यतावच्छेदकामिति भावः ॥ एवमस्मत्पदस्येति ॥ प्रागुक्तेन शक्यतावच्छेदकमित्यनेनान्वेति ॥ स्वतन्त्रेति ॥ स्वतन्त्रोचारणकर्तृत्वसमानाधिकरणथैवत्वादिकमित्यर्थः । - -