पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रायसमन्विता। शक्तं पदम् । तच्चतुर्विधम् । कचिद्यौगिकं कचिद्रूढं क्वचिद्योगरूढं कचिद्यौगिकरूढम् । त- थाहि । यत्रावयवार्थ एव बुध्यते तद्यौगिकम् । यथा पाचकादिपदम् । यत्रावयवशक्ति- प्रभा. पदानामिव वाक्यस्यापि शक्तिमशीकुर्वन्ति तन्मतं निराकर्तुमाह || शक्तं पदामिति ॥ पदमेव शक्तमित्यर्थः । एवं कारेण वाक्यशक्तत्व व्यवच्छेदः । युक्किं तु गमीरायां नयां घोष इत्या- दिग्रन्थेन स्वयमेव वक्ष्यति ॥ क्वचिदिति ॥ किञ्चित्पदमित्यर्थः । एवमग्रेऽपि । सौगिकादिपदा. नां क्रमेण लक्षणमाह || यत्रेति ।। यादृशपद इत्यर्थः । षटकत्वं सप्तम्यर्थः तस्य त्वय३ अन्वयः । तथा च बादशपदघटकावयवप्रतिपाद्यार्थ एवेत्यर्थः ॥ बुध्यत इति ॥ प्रमितित्रि पयतावान् भवतीत्यर्थः । इदं दिनकरीयम्. राजेल्यादौ न मत्पदात् कर्बोध इत्यास्तां विस्तरः ॥ इति शक्तिग्रन्थः ॥ शतं पदं विभजते । शक्तं पदमिति ॥ क्वचिदिति ॥ किञ्चिदित्यर्थः । एवमऽपि । मण्डलादीत्यत्र बहुपुस्तकेयु रामरुद्रीयम्. उच्चारणं चैतादृशार्थवाचकत्वेनाभिमतस्यामच्छब्दस्यैवेति ध्येयम् । उचारणे स्वतन्त्रत्वं चान्याचारणानधीनत्वं । अन्योचारणाननुवादकत्वमिति यावत् ॥ न कबधि इति ॥ पद्यस्थारमच्छब्दस्य उच्चारण कर्तृत्वेऽपि क- वे परकीयोचारणानुवादकत्वात्तदुचरिताम्म च्छन्दान्न कर्बोध इति भावः । एवंच युष्मदस्मच्छब्दशक्य. तावच्छेदकघरकतत्तत्कालो रितेत्यत्रोचारणमपि स्वतन्त्रमेव ग्राह्यम् । तेन गर्न भजे क्षणं मूढेत्यादौ सम्बोधनप्र- थमान्तमूढपदोत्तर-मयात्वं निहतोऽत्रैवेतिवाक्यजन्यबोधाश्रयत्वेनेच्छाविषयत्वेऽपि सुरथस्य न मेवामहार्पणो. तयुष्मत्पदाच्छाब्दबोध इति मन्तव्यम् । पदं विभजत इति । यद्यपि शर्फ पदमिति न पदविभागरूयं किंतु पदलक्षणमेव । तथाच विभजते शक्कामेत्यनुपपन्नमेव । तथापि इतिशब्दस्याद्यार्थकतबा पदविभागस्य पदसामान्यलक्षणाभिधानानन्तरत्वनियमेन च नानुपपत्तिरिति ध्येयम् । नचैवमपि केवल यौगिक पाचका. दिपदमेव । तच्च न किञ्चिदर्थे शकम् । तस्य वारसत्वादिति यौगिकस्य सामान्य लक्षणानाक्रान्ततरा तद्विभागोऽ. सुपपन्न एवेति वाच्यं पचधातूत्तराकप्रत्ययस्यैव पाचकपदरूपतया तस्य कर्तरि शक्ततया पदरचेन तद्विभागे बाधकाभावादिति भावः । एकस्यैव पदस्य एकस्मिन्नर्थे यौमिकत्वं अन्यस्मिन्नर्थे रूढत्वं न सम्भवति । उच्चारणभेदेन पदभेदादिति सकृदुश्चरितन्यायाच्चेत्याशयेन क्वचिदित्यस्य किञ्चिदर्थकतामाह ॥ क्वचिदिती ति ॥ यत्तु ननु मूले मण्डपादिशब्दानां रूडमध्ये परिगणनमनुपपन्नम् । मण्डं पिबति रक्षतीति वा मण्डपामि- ति व्युत्पत्या तेषां मण्डपानकर्तृत्वाद्यर्थकत्वस्य सम्भवेन योमिकरूढमध्य एक अन्तर्भावः स्थादित्या. है मण्डलादीत्यतीत्यवतार्य तथाच गृहविशेषवाचक मण्डलपदमेव नतु मण्डपपदम् तच न कापि यौगिकमिति न तस्य रूडमध्ये परिगणनानुपपत्तिरिति भाव इति व्या चक्रुः । तन्न चारुतरं यौ- गिक रूढस्यापि यौगिकत्वरूढत्वयोरर्थविशेषे सम्भवेन मण्डपपदस्य गृहविशेषे रुढतया रूडमध्ये परि. गणनसम्भवात् । अत एव मूले यत्रावयवार्थ एव बुध्यते तद्योगिकमित्येव यौगिकलक्षणमुक्तम् । यत्रावयच- शक्तिनिरपेक्षया समुदायशक्त्या गृह्यते तद्रूढमित्येव रूडलक्षणमुक्तम् । तत्र यौगिक लक्षणे योगरूढे यौगिक स्ववारणाय एधकारः । न चैवमपि यौगिकरूढत्योद्भिदादिगदस्योदेवनफ द्यर्थे भौगिकर स्यादिति वा- च्यम् ३४ापत्तः । ६.उलक्षणेऽपि योगरूडे दुतावारणायव निरपेक्षयेत्यन्तम् । यौगिकरूढस्य उद्धिच्छ- ब्दस्यापि यागविशेषरूपार्थे रूडत्वमिटमेव ! गृह्यत इत्यस्यार्थों बुध्यत इत्यर्थः । एवञ्च मण्डपपदस्य गृहरूपार्थे ढिस्वसम्भवेन न रूढमध्ये परिगणनानुपपत्तिरिति मन्तव्यम् । नच यत्रेत्यस्य यादृशानुपूर्व्य- वच्छिन्नेत्यर्थकतया यौगिकरूढस्थले एकानुपूर्व्यवच्छिन्नत्यैव स्थलविशेष अवयवार्थमात्रस्य क्वचित्समु. दायार्थमात्रस्य बोधकत्वेन न तत्र रूढत्वानुपपत्तिरिति वाच्यम् । प्रयासगौरवात् । यौगिकरूढस्य यो. गिकत्वे रूढत्वे च इष्टापत्तौ क्षति विरहात् । बौगिकरूढभिन्नयोरपि केवलयौगिककेवलरूढयोरपि सत्त्वेन विभागव्याघाताभावात् । एकादशेऽहनि पित्रा क्वचित् पाचकादिपदस्य सङ्केतितत्वसम्भवात् तेषामपि यो.