पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय रामरूद्रीयसमन्विता । ५८३ नैरपेक्ष्येण समुदायशक्तिमात्रेण बुध्यते तद्रूढम् । यथा गोमण्डलादिपदम् । यत्र तु अ. प्रभा. थवा पदघटितत्वं पदनिष्टभेदप्रतियोगितावच्छेदकताशून्यत्वं एक नोभयमिति प्रतीतेः सर्वसिद्धत्वेन पद- स्वावच्छिन्ने पदसमुदायत्वरूपवाक्यत्वावच्छिन्न प्रतियोगिताकभेदत्य सर्वमतसिद्धत्वात् । एवंच वाक्यग- तसमुदायत्वस्य अपभ्रंशशब्दसमुदायत्वस्यापभ्रंशशब्दघाटित समुदायत्वस्य वा पदनिष्टभेदप्रतियोगितावच्छे- दकत्वेन अनवच्छेदकसमुदायरूपत्वाभावात् न तादृशसमुदायलमादायातिव्याप्तिः । नचेदं लक्षणं पाचका दिपदे असंभवप्रस्तं पाचकपदसमुदायत्वस्य पच्धात्वादिनिधभेदप्रतियोगितावच्छेदकावादिति वाटयम्। प्रकृ. ते पदशब्देन पदान्तरसममिव्याहारज्ञानामावप्रयुक्त शाब्दयोधसमर्थत्व रूपयदत्वस्थ विवक्षितत्वात् पाचकादि- पदस्य पदान्तरसमभिव्याहारज्ञानेनैव एकत्वा यः पाचकः पाचकजन्यं कर्मत्वमित्याकारकशाब्दवोधसमर्थ- तया लाशसमभिव्याहारज्ञानाभावे सति ताटशशाब्दासमर्थतया च तस्यैतादशपदाचा संभवः घटामत्यादि- वाक्यस्य नीलवटामित्यादिवाक्यस्य चा पदान्तरसमभिव्याहारज्ञानं विनापि तत्तद्वाक्यघटकपदानां आसत्या- दिज्ञानद्वारा शाब्दबोधसमर्थत्वार तेषां न निरुतपरत्वानुपपत्तिः । अपभ्रंशशब्दयासमर्थत्वेऽपि तस्य नि- रुक्तसमभिव्याहारज्ञानविरहप्रयु तत्वाभावात् निरुक्तसमभिव्याहारज्ञानसत्त्वेऽपि तादृशवाक्येन शाब्दाजनना. त् । अधवा प्रकृते पदनिष्ठभेदशब्देन पदत्वानुयोगितावच्छेदककभेदस्य विवक्षितत्वात् । एवंच पाचकपदे पदत्व सत्येन प्रतियोगिवृत्तित्वेन प्रतियोग्यवृत्तिधर्मस्यैव भेदानुयोगितावच्छेदकत्वेन पाचपदसमुदायत्वस्य ताद. शप्रतियोगितानवच्छेदकत्वानोक्तदोषः । नच शकत्वरूपपदत्यस्य पदव्यक्तिभेदेन भिवतया असंभवतादव स्थ्यभिति वाच्यम् । प्रकृते वाच्यतासंबन्धेन पदपदवत्त्वस्य सकलपदानुगतपदत्वस्य विवक्षि- तत्वात् । तथाच तादृशपदनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावशक्ततावच्छेदकत्वाभावोभयविशिष्ट समुदायत्वं यौगिकत्वमिति फलितम् । एवंच न कोऽपि दोष इति प्रतिभाति । यौगिकमुदाहरति ॥ यथा पाचका दिपदमिति ॥ यत्र अवयवशक्तिनैरपेक्ष्येणेति ॥ यत्र यादृशपदे । घटकत्वं सप्तम्यर्थः तस्यावय - वेऽन्वयः । अवयवशतिनैरपेक्ष्येण अवयवशक्ति विनेत्यर्थः । अवयवशत्यभावेऽवीति यावत् ॥ समुदाय शक्तिमात्रेणेति ॥ मात्रपदेन अवयवशक्त्यप्रयोज्यत्यं लभ्यते ॥ वुध्यत इति ॥ अर्थ इत्यादिः । अनुभूयत इत्यर्थः । इदंच प्रमाणोपन्यासाय नतु तस्य लक्षणघटकता व्यर्थत्वात् । तथाच पदाघटित शक्त. तावच्छेदकसमुदायत्वववं रूढलमिति लक्षणं फलितम् । अत्र योगहडपदे अतिव्याप्तिवारणाय पदाघटि- तत्वं समुदायत्वविशेषणं । अपभ्रंशशब्दसमुदाये अतिव्याप्तिवारणाय शक्ततावच्छेदकत्वं समुदायत्वविशे. षणमिति । अन्येतु य लावयवशक्तिनरपेक्ष्येणेति यादृशपदघटकावयवशक्त्यप्रसिद्धिप्रयुक्ततज्ज्ञानजन्यस्मरणा- भावेऽधीत्यर्थः । समुदायशक्तिमात्रेणेति निरुतशक्तिज्ञानजन्यस्मरणमात्रेणेत्यर्थः । मानपदात् तादृशस्मरणान्य- जन्यत्वव्यवच्छेदः तृतीयार्थो जन्यत्वं तस्य वोधे अन्वयः।बुध्यत इति । अर्थ इत्यादिः । शाब्दबोधविषयतावा- न् भवतीत्यर्थः । तथाच रूट्यर्थतावच्छेदकधर्मावच्छिन्न विषयताशालिशाब्दनिष्टकार्यतानिरूपितम्मृतिरूपव्यापा- रसंबन्धावच्छिन्नज्ञाननिष्ठकारणतानिरूपित विषयतासंबन्धावच्छिन्नपदनिष्टावच्छेदकतावच्छेदकं रूढयर्थताव- च्छेदकधर्मान्यधर्मावच्छिन्नविषयताशालिशाब्दनिष्टकार्यतानिरूपितस्मृतिरूपव्यापार संबन्धावच्छिन्नज्ञाननिष्ठ -- कारणतानिरूपितविषयतासंबन्धावच्छिन्नावच्छेद हताश्रयपदाघटितं च यत्समुदायत्वं तद्वत्त्वं रुडत्यमिति फलि- तम् । एतलक्षणघटकदकानां प्रयोजनं पूर्वोक्तदिशावधेयमित्याहुः। रूढपदमुदाहरति ॥ यथा गवादिपद- मिति ॥ केचित्तु यथा गोपदमण्डलादिपदमिति मूलपाठभ्रमेण मण्डलादीत्यत्र बहुपुस्तकेषु मण्डपादीति पाठः स प्रामादिक इत्याहुः तदसत् मण्डपपदेन रूड्या वित्तानबोधनेऽपि मण्डं पातीति व्युत्पत्त्या मण्डपानकर्तुरपि बोधनात् मण्डपपदस्य रुढपदोदाहरणत्वं न संभवतीत्याशयेन मण्डलादीति पाठः । समर्थितः तथात्वे रूढया देशविशेषवाचकमण्डलादिपदस्य मण्डं लातीति व्युत्पत्त्या मण्डादानकर्तृ- वाचकत्वेन यौगिकरूढतया मण्डलपदस्यापि रूढपदोदाहरणत्वासंभवात् । तस्मात्केघुचित्पुस्तकेषु मण्डपादीति पाठः केचित्पुस्तकेषु मङ्लादीति केषुचि वादीहि पाठः । पाठवयमध्ये आद्यपाठङ्क-