पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८८ कारिकावली [शब्दखण्डः यथोद्भिदादिपदम् । तत्र हि ऊर्ध्वभेदनकर्ता तरुगुल्मादिर्बुध्यते यागविशेषोऽपीति ॥ ८ ॥ लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तितः । लक्षणा शक्यसंवन्ध इति ॥ गङ्गायां धोष इत्यादौ गङ्गापदस्य शक्यार्थे प्रवाहरूपे घो- षस्यान्वयानुपपत्तिस्तात्पर्यानुपपत्तिा यत्र प्रतिसन्धीयते तब लक्षणयैव तीरस्य बोधः । प्रभा. तावच्छेदकरूढयर्थतावच्छेदकासमानाधिकरणाधर्मावच्छिन्नसकपदघटितसमुदायत्ववत्वं । पङ्कजादिपदे अतिव्याप्तिवारणाय रूढ्यर्थतावच्छेदकासमानाधिकरणधर्मावच्छिन्नशक्तत्वं पदविशेषणं । यौगिकपाचका- दिपदे अतिव्याप्तिवारणाय रूढिनिरूपकतावच्छेदकत्वं समुदायत्व विशेषणं । रूढगवादिपदेऽतिव्याप्तिवार. णाय तादृशपदघटितत्वं समुदायस्वविशेषणम् । अन्येतु रूदिशक्यतावच्छेदकावच्छिन्नविषयताशालिशाब्द- निष्टकार्य तानिरूपितज्ञाननिष्ठकारणतानिरूपितविषयतासंबन्धावच्छिन्नावच्छेदकतावच्छेदकं रूढिशक्यतावच्छे. दकासमानाधिकरणधर्मावच्छिन्नविषयताशालिशाब्दनिष्ठ कार्यतानिरूपित ज्ञाननिष्ट कारणतानिरूपितविषयतासं- बन्धावच्छिन्नाचच्छेदकताश्रयपदघटितं च यत्समुदायत्वं तद्वत्वं यौगिकरूढावं लक्षणघटकपदप्रयो. जनं पूर्ववरोध्यमित्याहुः । यौगिकरूढमुदाहरति ॥ यथेति ॥ उद्भिदादीत्यादिना मण्डपादिपरिग्रहः । लक्षणमुपपादयति ॥ तत्रेति ॥ तादृशपदेनेत्यर्थः सर्वविभक्तिपु बलो विधानात् । अवयवशक्त्येति शेषः । अवयवशफिज्ञानजन्योर्बभेदनकर्तृत्वादिप्रकारकस्मृत्येत्यर्थः ॥ ऊर्ध्व मेदनकर्तेति ॥ तादृशकर्तृत्वविशिष्ट इत्यर्थः ॥ तरुगुल्मादिरिति ॥ आदिपदातं मण्डपानकर्तृत्वविक्षिपुरुषादेस्संग्रहः ।। बुध्यत इति । बोधविषयतावान् भवतीत्यर्थः ॥ यागधिशेषोऽपीति ! समुदायशक्तयेत्यादिः । उद्भिनामकयागविशे- घोऽपीत्यर्थः । अपिशब्द; उक्त समुचायकः बुध्यत इति पूर्वेणान्वयः । अत इति शेषः अतः कारणात् उद्भिदादिपदं यौगिकरूढमिति संवन्ध इति ॥ ८१॥ लक्षणा शक्य संबन्ध इति मूलस्य तात्पर्यानुषपत्त्या कल्प्यमानलक्षणा शक्यसंबन्धरूपेति योजनया आदौ लक्षणाबीजप्रदर्शनपरत्वमित्याशयेनादी लक्षणावीजमेव प्रदर्शयति ॥ गङ्गायामित्यादिना ॥ एतेन सति धार्मिणि धर्माश्चिन्तनीया इति न्यायेन लक्षणापसिद्धेः पूर्व शक्यसंवन्धरूपलक्षण प्रदर्शनमनुचितमित्याश- का निरस्ता । लक्षणाबाजवेनान्वयानुपपत्तेः । मूलाप्रतिपाद्यत्येऽपि अन्वयानुपपत्तेलक्षणाबीजत्वपक्षे दोषस्य स्वयं वक्ष्यमाणत्वा तत्पक्षमनुवदति ॥ अन्वयानुपपत्तिरिति ॥ यत्र प्रतिसन्धीयत इति ॥ यदा ज्ञायत इत्यर्थः ॥ तत्रेति ॥ तदैवेत्यर्थः । तात्पर्यानुपपत्तिप्रतिसन्धानाभावे प्रवाहवृत्तिोष इति भ्रमात्मक शाब्दबोधसंभवेन लक्षणाया व्यर्थत्वादिति भावः ॥ लक्षणयैवेति ॥ पुनस्स्मृतगङ्गापदनिरूपितलक्षणाज्ञा- नजन्यतीरत्वप्रकारकस्मृत्यर्थः ॥ तीरस्य वोध इति ॥ तारत्वावच्छिन्नविषयकबोध इत्यर्थः ॥ सा चे- दिनकरीयम्. लक्षणा द्विविधा जहरस्वार्थाऽजह स्वार्था च । तत्रायां प्रदर्शयति ॥ गङ्गायामिति ॥ वक्ष्यमाणा. रामरुद्रीयम्. तध्यणेति ॥ अर्थान्तरमविषयीकृत्येत्यर्थः । इदंच योगरूढण्यावृत्त्यर्थमुक्तम् ॥ मूले यागविशेषोऽ- पीति ॥ उद्भिदा यजेत पशुकाम इत्यादापित्यर्थः । उद्भिदस्तरुगुल्माया इत्यादौ तरुगुल्माद्या ऊर्चों दनकर्तार इति बोध इति भावः ॥ ८१ ॥ जहत्स्वार्थति ॥ जहस्त्रार्थ ययेति व्युत्पत्या शब्दार्थाविषयकलक्ष्यार्थविषयकशाब्दबोधजनिका गङ्गापदादेस्तारादौ लक्षणा । अत्र स्वपदं लक्षकत्वेनाभिमतपदपरं अर्थपदं शक्यार्थपरम् । एवमग्रेऽपि बोध्यम् । एवमेव न जहत्स्वार्थ ययेति व्युत्पत्त्या अजस्वार्था । छक्षिण इत्यादी छविघटितपथिकसमु. दायत्वेन छत्रिपदस्य योधननिका छत्रिघटितैकसमुदायत्वावच्छिन्ने लक्षणेत्यर्थः ॥आद्यामिति॥जहत्स्वार्थाभि- त्यर्थः ॥वक्ष्यमाणास्वरसादिति ॥अन्वयानुपपत्तेर्लक्षणावीजत्वे यष्टीः प्रवेशयेत्यादौ यष्टिपदस्य यष्टिधरे -