पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ५८९ सा च शक्यसम्बन्धः । तथाहि । प्रवाहरूपशक्यार्थसम्बन्धस्य तीरे गृहीतत्वात् ती- रस्य स्मरणम् । ततः शाब्दबोधः। परन्तु यद्यन्वयानुपपत्तिलक्षणाबीजं स्यात् तदा य- ष्टी प्रवेशये त्यत्र लक्षणा न स्यात् । यष्टिषु प्रवेशान्वयस्यानुपपत्तरभावात् । तेन तत्प्र- वेशे भोजनतात्पर्यानुपपत्त्या यष्टिधरेषु लक्षणा । एवं क केभ्यो दधि रक्ष्यतामित्यादौ काक- पदस्य दध्युपघात के लक्षणा । सर्वतो दधिरक्षायास्तात्पर्यविषयत्वात् । एवं छत्रिणो गच्छ- प्रभा. ति ॥ निरुचप्रमाणसिद्धलक्षणा चेत्यर्थः । अवधारणार्थकचशब्दः शक्यसंवन्ध इत्युत्तरं योज्यः । एवंच लक्षणा शक्यसंवन्ध एव न पदार्थान्तरमित्यर्थः फलितः । सा लक्षणा द्विविधा जहत्स्वार्था अजहत्स्वार्था चेति तत्राद्यामुदाहृतस्थले उपपादयति ॥ तथाहीत्यादिना ॥प्रवाहरूपेति ॥ उदाहृतवाक्यघटकगङ्गापदशक्या- र्थस्यानुपपत्तिप्रतिसन्धानानन्तरं पुनस्स्मृतगापदनिरूपितस्येत्यादिः ॥ तीर इति ॥ तीरत्वावच्छिन्न इत्यर्थः ॥ तीरस्य स्मरणमिति ॥ तीरत्वविशिष्टविषयकस्मरणमित्यर्थः ॥ ततः तादृशस्मरणात् ॥ शाब्दबोध इति॥ तीरत्वविशिष्टशाब्दबोध इत्यर्थः । अन्वयानुषपत्तेर्लक्षणाबीजत्यं निराकरोति ॥ परंत्विति ॥ यष्टीः प्र. वेशयेत्यत्रेति । यष्टिधरबोधतात्पर्येण प्रयुक्ततादृशवाक्य घटकयष्टिपदस्येत्यर्थः ॥ लक्षणा न स्वादिति ।। यष्टिधरे लक्षणा न स्यादित्यर्थः । तत्र हेतुमाह ॥ यष्टिविति ॥ दण्डेष्वित्यर्थः ॥ प्रवेशान्वयेति ॥ गृ. प्राप्यन्वयानुपपत्तेरभावादित्यर्थः । तेनेति ॥ तात्पर्यानुपपत्ते: लक्षणाबीजत्वस्वीकारेणेत्यर्थः ।। प्रधेश- स्थेति ॥ यष्टीनां गृहप्रवेशस्येत्यर्थः । भोजन तात्पर्यविषयत्वाभावादिति शेषः । भोक्तणां प्रवेशत्यैव ता- त्पर्यविषयत्वादिति भावः ॥ भोजनतापयति || भोजन तात्पर्य विषयत्वानुपपत्तिप्रतिसन्धानेनेत्यर्थः ॥ लक्षणेति ॥ आवश्यकीति शेषः । इदमवधेयं यष्टी प्रवेशयेत्यत्र गृहमियध्याहार्य प्रवेशयेत्यस्य ण्यन्त- धातुत्वात् गतिबुद्धिप्रत्यय सानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ इति सूत्रेण कर्म संज्ञाविधानात् गत्तिबु- द्धिप्रत्यवसासार्थशब्दकर्माकर्मकाणां धातूनां योग आणे कर्ता अभ्यन्ते यः कर्ता सणौ यन्ते कर्मसंज्ञः स्यादि- ति सूत्रार्थः । यष्टयः गृहं प्रविशन्ति ताः प्रेरयेत्यर्थबोधतात्पर्येणेव यष्टी: गृहं प्रवेशयेति प्रयोगात् यष्टिए- दार्थस्य कर्मसंज्ञायां कर्मणि द्वितीयेति सूत्रेण यष्टिपदोत्तरं द्वितीया । अत्र संयोगजनक व्यापारकर्तृत्वनिर्वाह- कव्यापारः ण्यन्तधात्वर्थः तखटकसंयोगे द्वितीयान्तगृहपदार्थगृहवृत्तित्वस्यान्वयः तादृशधात्वर्थघटककर्तृत्वे द्वितीयान्तयष्टिपदार्थवृत्तित्वस्यान्धयः । अत एव साक्षाद्धात्वर्थतावच्छेदकफलशालित्वात् यष्टिपदार्थत्य मु- ख्यकर्मत्वं लोट्यदार्थः कृतिः तथाच गृहवृत्तिसंयोगजनकव्यापारानुकूलयष्टिपदार्थवृत्तिकर्तृत्वनिर्वाहानुकूल- व्यापारानुकूलकृतिमांस्त्वमिति शाब्दबोधलाभ इति । अजहत्स्वार्थलक्षणामुदाहरति ॥ एवमिति ॥ इ- त्यादौ काकपदस्यति । इत्यादिवाक्य घटककाकपदस्येत्यर्थः ॥ दध्युपधातक इति ॥ दधिनाशक- स्वावच्छिन्न इत्यर्थः ॥ लक्षणेति ॥ अजहत्स्वार्थलक्षणेत्यर्थः । काकपदस्य लक्षणायां वीजमाह || सर्वत इति ॥ दध्युपघातकेभ्यस्सर्वेभ्य इत्यर्थः ॥ दधिरक्षाया इति ॥ दधिनिष्ठनाशाप्रतियोगिताया इत्यर्थः । तात्पर्यविषयत्वादिति ॥ तथाच तादृशतात्पर्यानुपपत्त्या लक्षणास्वीकार इति भावः । अत्र काकपदार्थ- स्य भीत्रार्थानां भयहेतुरिति सूत्रेण अपादानसंज्ञा भीत्यर्थकंधातूनां बाणार्थकधातूनां च योगे भयहेतुः अ. पादानसंज्ञः स्यादिति सूत्रार्थात् प्रकृते दधिनाशभीति हेतुत्वात् काकादेरपादानत्वं अपादाने पश्चमीति सूले. ण काकपदोत्तरं पञ्चमी च । काकेभ्य इत्यत्र पञ्चम्याः जन्य त्वमर्थ व्यापारो नाशानुत्पत्तिश्च धात्वर्थः एकपदा- र्थयोरपि व्युत्पत्तिवैचित्र्यात विशेषणविशेष्यभायेनान्वयः । परन्तु काख्यातस्थले व्यापार अनुकूलतासंबन्धेन अनुत्पत्तेः कर्माख्यातस्थले अनुत्पत्तौ प्रयोज्यतासंबन्धेन व्यापारस्यान्वय इति शेषः । तथाच दध्युपघातक. जन्यनाशोत्पत्तिप्रतियोगिकत्वकर्तृकव्यापारप्रयोज्याभावाधिकरणं दधीति शाब्दबोधो भवतीति बोध्यम् । दिनकरीयम्। स्वरसादाह ॥ तात्पर्यानुपपचिति ॥ सा च लक्षणा च । द्वितीयां प्रदर्शयति ॥ एवं काकेभ्य इ.