पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। वाहित्वेन रूपेण छत्र्यच्छविबोधात् । यदि चान्वयानुपपत्तिलक्षणाबीजं स्यात् तदा क- चित् गङ्गापदस्य तीरे कचित् घोषपदस्य मत्स्यादी लक्षणेति नियमो न स्यात् । इदं प्रभा. काभिमतमजहगीया लक्षणं छत्रिपदलक्षणायां उपपादयति । एकसार्थवाहित्वेनेति ॥ छत्रिपदलक्ष- णयेत्यादिः छत्र्यादिघटितसमूहत्वप्रकारेणेत्यर्थः ॥ छन्यच्छवियोधादिति ॥ छत्र्यादिविषयकशाब्दबो- धजननादित्यर्थः । तथाच शक्यसाधारणधर्मावच्छिन्नविषयकशाब्दजनकस्मृतिनिरूपितज्ञाननिष्ठकारणतानि. रूपितविषयतासंवन्धावच्छिन्नावच्छेदकतावलक्षणात्वस्यैव अजहत्स्वार्थर क्षणालक्षणत्वेन प्रकृते छवि पदलक्षणायां तादशलक्षणसत्त्वेन लक्षणसमन्वय इति भावः । ननु छत्रिपदस्य वाक्यतया शक्त्यभावेन कथं लक्षणेति चेदत्र प्राञ्चः वाक्यस्य लक्षणाविरहेऽपि स्वबोध्यसवन्धरूपलक्षणाचादिमतमाश्रिय छत्रिशब्द. स्य लक्षणाङ्गीकार इत्याहुः । अपरे तु छत्रशब्दस्य एकसार्थवाहित्ये लक्षणा मतुवः संबन्धी अर्थः। तथाचै कसा. र्थवन्तो गच्छन्तीति बोधः । अत्र एकसार्थवाहित्वं नैकसार्थगमनवत्त्वं निराकात्वेिन यान्ती- त्यस्य अनन्वयप्रसङ्गात् किंतु छच्यादिधटितसमूहत्वं । नचैवं सत्यजहत्स्वार्थत्वविरोध इति वाच्यम् । वाक्यलक्षणावादिमतानुसारेणैव अजहत्स्वार्थत्वोक्तरित्याहुः । अन्येतु मत्वर्थेन्प्रत्ययस्यैव छयादिघटि. तसमूहत्वावच्छिन्नलक्षणा- छत्रपदं तात्पर्य ग्राहक लक्षणाया अजहत्स्वार्थत्वाभिधानं वाक्यलक्षणावादि. मतानुसारेणैवेत्याहुः । अस्मद्गुरुचरणास्तु छत्रिशब्दस्य छत्रविशिष्टत्वावच्छिन्ने यौगिकत्वं राजत्वावच्छिन्ने रूढत्वमिति थोगरुढत्वानोक्तदोषप्रसक्तिरिति व्याचकः । ननु सर्वत्र तात्पर्यानुपपत्तेः लक्षणाबीजत्वे मानाभावः तादृशानुपपत्तिज्ञानत्वस्थ गुरुत्वात् किन्तु यत्रान्वयानुपपत्तिप्रतिसन्धानाभावः तत्रैवानायत्या तात्पर्यानुपप- त्तिप्रतिसन्धानस्य लक्षणाग्राहकत्वं । नच लक्षणाग्रहं प्रति क्वचित्तात्पर्यानुपपत्तिज्ञानम्य क्वचिदन्वयानुपपत्तिज्ञान. स्य हेतुत्वे कार्यकारणभावद्यापत्तिरिति वाच्यम् लक्ष्य तावच्छेदकघटितलक्षणा ज्ञानत्वस्य एतत्पदस्य एतदर्थ- प्रतीतीच्छयोचरितत्वमनुषप नमित्याकारकतात्पर्यानुपपत्तिज्ञाननिष्ठपदविशेषार्थविशेषघटिततात्पर्यानुपपत्तिज्ञा. नत्वस्य च भिन्नभिन्नतया परस्परव्यभिचारेण तत्तलक्षणा ज्ञानत्वावच्छिन्नं प्रति तत्ततात्पर्यानुपपत्तिज्ञानत्वेना. नन्तकार्यकारणभावस्यावश्यकत्वेन गङ्गायां घोष इत्यादौ तीरत्वावच्छिन्नलक्षणाग्रहं प्रति गङ्गापदशक्ये घोषा- धारत्वमनुपपन्नमित्याकारकान्वयानुपपत्तिज्ञानस्यैव हेतुत्वमुचितं लाघवात् न • त्वत्रापि निरुक्ततात्पर्यानुपप. त्तिज्ञानत्वेन हेतुत्वं गौरवात् इति सिंहगुहावलोकनन्यायेन प्राचामाशङ्कां परिहरति ॥ यदि चेति ॥ गङ्गा- = यां घोष इत्यादावित्यादिः । चोऽत्रधारणे स चान्वयानुपपत्तिरित्युत्तरं योज्यः ॥ अन्वयानुपपत्तिरिति । गङ्गापदशक्ये घोषपदशक्याधारत्वान्वयानुपपत्तिज्ञानमेवेत्यर्थः ॥ लक्षणाबीजं स्यादिति ॥ लक्षणाप्राहक दिनकरीयम् .. लक्षणा प्रत्ययाश्च सम्वन्धी । तथाचैकसार्थवन्तो गच्छन्तीत्यन्वयः । एकसार्थवाहित्वं चैकसार्थ एव न लेकसार्थगन्तृत्वम्। नैराकाक्ष्येण यान्तीत्यस्यानन्धयापत्तेः । नवाजहत्स्वार्थतोक्तिविरुद्धेति वाच्यम् । वाक्य- • लक्षणावादिमतेनैव तदभिधानादिति ॥ क्वचित् गङ्गापदस्य तीरे तात्पर्य ग्रहस्थले ॥ क्वचित् घोषपदस्य म. रामरुद्रीयम् . र्थान्तरान्वयस्य व्युत्पन्नतया नान्वयबोधानुपपत्तिः। ससम्बन्धिकं च पदं नियतसंबन्धाकाटोत्थापकमित्यव- धेयम् । एकसार्थवाहित्व इति ॥ एकसमुदायत्व इत्यर्थः । यधपि छत्रपदस्य छत्रिघटितसमुदाये लक्षणो. त-पगमेऽपि संभवति निर्वाहः तथापि संभवति प्रत्ययस्य सार्थक्ये तत्परित्यागस्यानुचितत्वादेवमभिहितमित्यव. धेयम् ॥ एकसार्थ एवेति ॥ एकसमुदायत्व एवेलर्थः ॥ नैराकांक्ष्येणेति ॥ उद्देश्यतावच्छेदकविधेययोरे- क्ये अभेदेनान्वयस्याव्युत्पन्नतया गमन कर्तृत्वविशिष्टे गमनकर्तृत्वस्याश्यतयान्वयबोधे आकाङ्क्षाविरहादिति ति- भावः। नचेति । छत्रपदस्य छविघटितसमुदायलक्षकत्वे तजन्यशाब्दबोधे छत्ररूपमुख्यार्थस्य मुख्यविशेष्य- दा तया भानाभावादिति ध्येयम् ॥ वाक्यलक्षणेति ॥ एतचापातत एव समाधानम् । वस्तुतः स्वजन्यबोधे 1.