पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९४ कारिकावली [शब्दखण्डः केऽपि शक्तिर्न स्यात् तत्प्रकारकशक्यार्थस्मरणं प्रति तत्पदस्य सामर्थ्यमित्यस्य सुवच- त्वादिति विभावनीयम् । यत्र तु शक्यार्थस्य परम्परासम्बन्धरूपा लक्षणा सा लक्षि- प्रभा- ब्दबोधविषयत्वे घटादेरपि विषयत्वापत्तिरिति वाच्यम् प्रकृते अपदार्थत्वस्य पदजन्यप्रतीत्यविषयत्वरूपत्व. स्वीकारेण लक्षणया गङ्गा पद जन्यस्मृत्यादी तीरत्वस्यापि विषयत्वेन तस्यापदार्थत्वाभावात् । यद्वा वृत्ति- शून्यत्वं तत् तीरत्वस्यापि अवच्छेदकत्तासंबन्धन वृत्तिमत्त्वात् । एवंच घटादेः गङ्गापदजन्य योधाविषयत्वात् स्वरूपावच्छेदकत्वान्यतरसंबन्धेन गङ्गापदनिरूपितवृत्तिगत्त्वाभावाच निरुक्तापदार्थत्वात् न तस्य शाब्दवोध. विषयत्वापत्तिरिति । नन्वेवं सति घटादिपदानां घटत्वादिविशिष्टे शक्तिस्वीकारो निरर्थक घटत्वादेरपि घटपदजन्यप्रतीतिविषयत्वात् अवच्छेदकतासंवन्धेन घटपदनिलपितशक्तिमत्वाच्च तस्यापि घटादिपदार्थ- स्वेन तादृशशाब्दबोधविषयत्वसंभवादित्याक्षेपमिष्टापत्त्या परिहरति ।। परंत्विति ॥ ॥ एवं क्रमेणेति ॥ तीरत्वादौ पृथग्लक्षणाभावेऽपि अवच्छेदकतासंबन्धेन लक्ष्यनिष्ठ लक्षणासत्त्वात् यथा स्मृत्यादिविषयत्वो- पपत्तिः तद्रीलेत्यर्थः । शक्तिर्न स्यादिति ॥ शक्तिर्माभूदित्यर्थः । तत्र हेतुमाह || तत्प्रकार केति ॥ श- क्यतावच्छेदकघटत्वादिप्रकारकस्मरणं शाब्दबोधं प्रति चेत्यर्थः । तत्पदस्थति ॥ शक्तघटादिपदस्ये. त्यर्थः ॥ सामर्थ्यमिति ॥ शक्तिज्ञानद्वारा स्मृ यादिप्रयोजकत्वमित्यर्थः । इत्यस्येति ॥ एतादृशयुक्तिह- पप्रमाणस्यापीयर्थः ॥ सुवचत्वादिति ॥ उक्तप्रायत्वादित्यर्थः ॥ इति विभावनीयमिति ॥ इति निपुणतरमालोचनीय मित्यर्थः । तथाच गङ्गादिपदानां तीरादिरूपव्यक्तिमान्ने लक्षणैव उक्तयुक्त्या घटादिपदानां घटादिव्यक्ति घान्न एव शक्तिरपि सिध्यतीति भावः । लक्षितेन लक्ष्यते ज्ञायते अनेनेति व्यु- स्पत्त्या लक्षितपदवाच्यत्वं लक्षितलक्षणापदार्थः । साच न शक्तिर्न वा लक्षणेति तस्याः वृत्यन्त- रत्वमावश्यकामिति प्राचीन कदेशिमतं निराकर्तु लक्षणायामन्तीवमाह ॥ यत्र त्विति ॥ यादृशपद इत्य. र्थः । सप्तम्यर्थो निरूपितत्वं तस्य प्राथमिकलक्षणायामन्वयः अवधारणार्थकतुशब्दः सेत्युत्तरं योज्यः ।। लक्षणेति ॥ या लक्षणेयर्थः । सेति ॥ तादृशपद इत्यादिः । तादृशलक्षणैवेत्यर्थः ॥ लक्षितलक्ष- दिनकरयिम् . पदानुपस्थाप्यस्यापि लक्ष्यतावच्छेदकस्य शाब्दे भान सुकरम्। अतिप्रसङ्गस्य तद्धर्मविशिष्टेत्यादिनैव वारणादि- ति भावः । इदमुपलक्षणं गङ्गापदशक्यप्रवाहसम्बन्धस्य तीरत्वे बाधादित्यपि द्रष्टव्यम् । लक्षितलक्षणाया आधिः वार्थायामन्तर्भावमाह ।। यत्र त्विति परम्परासम्बन्धरूपेति ॥ स्ववाच्यरेफद्वयघटितपं. रामरुद्रीयम्. तत्राप्यजहत्त्वार्थलक्षणोपपादनामिति तस्यामप्यमहत्त्वार्थत्वसम्भवादिति ध्येयम् । न च केवलसमुदायत्वेन यत्र छत्रपदस्य लक्षणा तत्रैवाजहत्स्वार्थत्वविरोधो न चेत्यादिना पूर्वमाशकित इति न पूर्वोत्तरप्रन्थविरोध इ. ति वाच्यम् । एवमपि यत्र छत्रिघटितसमुदायत्वेन छत्रदपस्य लक्षणा तत्रैवाजहत्स्वार्थत्वोपपत्तेरिति समाधा. नस्यैव कार्यत्वाद्वाक्यलक्षणावादिमताभिप्रायेणाजहत्स्वार्थत्वोपपादन स्यानौचित्यात् । अत एव ग्रन्थकृतैव य- त्र तीरत्वेन गङ्गापदस्य लक्षणा तत्रैव गङ्गापदस्य जहत्स्वार्थलक्षणायाः सर्वसम्मतत्वादिति वश्यते । तत्र हि सर्वपदमहिम्ना गङ्गातीरत्वेन लक्षणायामपि जहत्त्वार्थत्वस्य केषरश्चिदनुमतत्वं लक्ष्यते । तच शक्यार्थस्य पदार्थान्तरण साकं यत्रान्वयबोधस्तत्रैवाजहत्स्वार्थत्वमिति मताभिप्रायेणैव घटत इति मन्तव्यम् ॥ अति- प्रसङ्गस्येति ॥ वृत्या पदजन्योपस्थित्यविषयस्यापि शाब्दबोधे भानोपगमे घटादिपदात् पटादिविषयकशा. ब्दबोधप्रसङ्गस्येत्यर्थः । तथाच यद्धर्मावच्छिन्नविशेष्यकशक्यसम्बन्धग्रहः तद्धर्मावच्छिन्नविशेष्यक- मेव पदार्थस्मरणं शाब्दबोध इति नियमोपगमेनैव घटादिपदान पटादिविषयकशाब्दबोधापत्तिरिति भावः ॥ प्रवाहसम्बन्धस्येति ॥ तथा च शक्यसम्बन्धरूपलक्षणाया लभ्यतावच्छेदके तीरत्वेऽभावादपि ल. श्यतावच्छेदके न लक्षणेति भावः । यद्यपि तीरत्वेऽपि संयुक्तसमवायरूपशक्यसम्बन्धोऽस्त्येव तथापि क्यमाशय