पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । तलक्षणेत्युच्यते । यथा द्विरेफादिपदे रेफद्वयस्य सम्बन्धो भ्रमरपदे ज्ञायते भ्रमरपदस्य च प्रभा. णेति ॥ लक्षितलक्षणापदार्थ इत्यर्थः । इत्युच्यत इति । इति व्यवाहियत इत्यर्थः । तथाच द्विरेफ- मानयेत्यादौ द्विरेफपदेन लक्षणया भ्रमरपदानुपस्थितेः भ्रमरपदेन शक्तया भ्रमरस्थानुपास्थितेश्च उ. कयोगार्थासंभवेन लक्षितपदवाच्यत्वरूपवृत्त्यन्तरऽपि तादृशपदस्य रूढेरेव वक्तव्यतया तदपेक्षया स्ववा. च्यरेफद्वयघटितपदवाच्यत्वरूपपरम्परासंबन्ध एव लक्षितलक्षणापदस्य रूढिस्वीकार उचितः वृत्त्यन्तराक- ल्पनलाघव सत्त्वादिति प्राचीनकदेशिभिननैयायिकानामाशयः । परम्परासंबन्धरूपलक्षणामुदाहरति ॥ यथे- ति ॥ द्विरेफादिपद इति ॥ द्विरेफमानयेत्यादिवाक्यघटकविरेफादिपद इत्यर्थः ॥ रेफद्वयस्यति । द्विरेफपदशक्यरेफद्वयस्येत्यर्थः ॥ संबन्ध इति ॥ घटितत्वसंबन्ध इत्यर्थः ॥ भ्रमरपद इति ॥ भ्रमर- पदनिष्ठ इत्यर्थः ॥ शायत इति । अनुभूयत इत्यर्थः । इदंच प्रमाणोपन्यासाय न तु तस्यापि ल- क्षणापदार्थघटकता व्यर्थत्वात् । एवमुत्तस्त्रापि ॥ भ्रमरपदस्यति ।। द्विरेफपदयाच्यरेफद्वयघटितभ्रमरप. दिनकरीयम् दवाच्यत्वादिरूपा। न च द्वौ रैफौ यत्रेति व्युत्पत्त्या द्विरेफपदेन स्वशक्यरेफद्वयसम्बन्धित्रमरपदं लक्ष्यते। भ्रमरप- देन च शक्त्याभ्रमरः कलप्यते इत्येतावतैव सामञ्जस्येऽलं द्विरफपदस्य भ्रमरे परम्परासम्बन्धरूपलक्षणया । एवञ्च रामरुद्रीयम्. युगपत्तिद्वयविरोधेन शक्तिद्वयेनेव लक्षणाद्वयेनापि एकदैव पदार्थद्वयशाब्दबोधस्यानुपगमेनैकपदात्तीरती- रत्वयोर्बोधानुपपत्तिरिति प्रन्यकृतां तात्पर्यम् । मनायां घोषमत्स्यौ स्त इत्यादिप्रयोगस्य प्रामाण्योपगमे तु सजातीयवृत्तिद्वयेनैव युगपन्नार्थद्वयविषयकशाब्दबोध इत्यवधेयम् अत उक्तस्थले गङ्गापदादेक- दैव तीरप्रवाहयो|धेऽपि न क्षतिरिति मन्तव्यम् ॥ मूले परं स्वित्यादि ।। अत्रेदमवधेयम् । शक्य. तावच्छेदके शक्यस्वीकारे पृथिवीपदात कदाचिदष्टद्रव्यातिरिक्तद्रव्यत्वेन कदाचित् गन्धवत्वेन कदा. चित्पृथिवीत्वेन च शाब्दबोधापत्तिः । पृथिवी पृथिवीपदशक्येतिवदष्टद्रव्यातिरिक्तद्रव्यं गन्धवान्बा पृथि- वीपदशक्यमित्याकारकस्य शक्तिज्ञानस्य सम्भवात्तीरं गङ्गातीरं वा प्रवाहसंयोगवदिति लक्षणाग्रहेण श- तिमहस्य तुल्ययोगक्षेमत्वात् । तथाच लक्षणया यत्किाञ्चदेवधर्मावच्छिन्नविषयक एव शाब्दबोध इति यथा न नियमस्तथा शक्यार्थबोधेऽपि नियमो न स्यात् । शक्यतावच्छेद के शक्तिस्वीकारे तु पृथि. वीपदात् पृथिवीत्वेनैव शाब्दबोध इति नियम उपपद्यते । पृथिवीपदस्य पृथिवीत्वपृथिव्योरेव शकत. या शतया शक्यार्थ खैव शाब्दबोधे भानमिति नियमेन च तदुपपादनसम्भवातू । लक्षणया लक्ष्यस्यापि शा- ब्दबोधे भानोपगमेन लक्षणया कदाचित् तीरत्वेन कदाचित् गङ्गातीरत्वेन शाब्दबोधो भवत्येव । इदमत्र पु. नश्चिन्त्यम् । धर्मितावच्छेदके शक्यतावच्छेदकत्वावगाहिशक्तिज्ञानमेव शाब्दबोधहेतुरुोयते । शक्यताव- च्छेदकंच सर्वत्र लध्वन्यूनानतिरिकवृत्तिरेव धर्मः सम्भवति लघौ गुरौ स्वरूपखंबन्धरूपावच्छेदकत्वास्वीकारा- त् । अत एव पृथिवी पृथिवीपदशक्येति शक्तिज्ञानमेव प्रमा शक्तः पृथिवीत्यावच्छिन्नत्वात् । नतु जलायष्ट- द्व्यातिरिक्तद्रव्यं तथेत्यादिशक्तिज्ञानं तेषां गुरुत्वेन शक्यतानवच्छेदकत्वात् । शक्यसंबन्धरूपप्रवाहसंयोग- स्य तु स्वरूपसंवन्धरूपावच्छेदकत्वे मानाभावः । तीरं प्रवाह सम्बन्धवदितिवद्गातारं भूखण्डं प्रवाहसंयो. गीति प्रतीतेः सर्वजनानुभवसिद्धत्वात् । पृथिवी पृथिवीपदशक्येति बोधस्यैव प्रमात्वं नत्वष्टद्रव्यातिरिक्तद्र व्यं तथेत्यादिशक्तिज्ञानस्य तथात्वमित्यस्य सर्वसम्मतत्वात् शकिप्रतीतीनां स्वरूपसम्बन्धरूपावच्छे. दकत्वावगाहित्यसिद्धया शक्ते: तथाविधावच्छेदकत्वं प्रामाणिकमेव घटो नास्तीत्यादिप्रतीतौ घटत्वस्येव प्र- तियोगितावच्छेदकत्वम् । इत्थंच शक्यतावच्छेदके शक्तिविरहेऽपि पृथिवीपदात् शक्तिप्रमया पृथिवीत्वप्र-- कारकशाब्दबोधः । शक्तिभ्रमेण तु गन्धवत्त्वादिनापि शाब्दबोध इति । अत एव भ्रान्तस्य गन्धवत्त्वाव- च्छेदेनापि शक्तिज्ञानसम्भवादिति परैरपरिशीलितः पन्थाः ॥ कल्प्यत इति ॥ इत्यर्थः । अवयवशक्त्या द्विरेफपदाड्रमरपदस्य स्मरणं भवति । तेनच स्मरणात्मकपदज्ञानेन उपस्थाप्यत