पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । । तस्वशक्यार्थशाब्दबोधं प्रति पदानां सामविधारणात् । वाक्ये तु शकेरभावाच्छक्य- सम्बन्धरूपा लक्षणापि नास्ति । यब तु गभीरायां नद्यां घोष इत्युक्तं तत्र नदीपदस्य नदीतीरे लक्षणा गभीरपदार्थस्य नद्या सहाभेदेनान्वयः। कचिदेकदेशान्वयस्थापि स्वीकृतत्वात् । यदि प्रभा. श्च पदान्तरज्ञानस्य हेतुत्वस्वीकारादत आह । शक्तिलक्षणान्यतरसंवन्धेनेति ॥ शक्तिज्ञानसहकृत- पदज्ञानजन्योपस्थितिविषयार्थलक्षणाज्ञामसहकृतपदज्ञानजन्योपस्थितिविषयार्थान्यतरानिष्टविषयतानिरूपितत. दर्थविषयताशालिशाब्दबोधं प्रतीत्यर्थः ।। पदानामिति । तदर्थशक्तपदज्ञानसामान्यस्येत्यर्थः । साम- •वधारणादिति ॥ निरुक्तपदज्ञानसामान्यस्य शाब्दबोधाव्याभिचारित्वेन अप्रामाण्य ज्ञानानास्कन्दित - कारणत्वनिश्चयसंभवादित्यर्थः । तथाच कुमतिः पशुः घटश्चेत्यत्र घटपदार्थघटस्य निरुक्तान्यतरनिष्ठवि- षयतानिरूपितविषय तानाश्रयत्वात् तादृशवाश्यघटकपश्चादिपदार्थस्य तादृशाविषयताश्रयत्वेऽपि तादृशार्थशक्त पदज्ञानरूपकारणाभावाश्च न तादृशवाक्यात् शाब्दबोधापत्तिः तच्छाब्दबोध इत्या शक्तिज्ञा- नसह्कृतेत्यादिनियम एवं पर्यवसानात् न ताशनियमभङ्गप्रसङ्गः गङ्गायां घोष इत्यत्र घोषपदार्थस्थ निरुतान्यतरनिष्टविषयतानिरूपितविषयताश्रयतया तीरवृत्तिर्घोष इत्यादिशाब्दबोधस्य कार्यतावच्छेदका- क्रान्तत्वेऽपि तत्र घोषशक्तपदज्ञानस्यापि सत्त्वात् न तादृशबोधानुपपत्तिश्चेति भावः। एतावता नैयायि. कमताभिमतपदलक्षणां व्यवस्थाप्य मीमांसकाभिमतवाक्यलक्षणां निराकरोति ॥ वाक्ये स्विति ॥ अव. धारणार्थकतुशब्दः शक्त्यभावादित्युत्तरं योज्यः ॥ शक्त यभावादिति ॥ शरत्यभावावेत्यर्थः । असम. स्तवाक्ये शकेः केनाप्यनभ्युपगमात् समस्तवाक्ये शत: वैयाकरणानुमतत्वेऽपि अग्रे दूषणीयत्वाच्च वाक्यमात्रे शकौ प्रमाणाभावादिति भावः ॥ शक्यसंवन्धरूपलक्षणापीति ॥ वाक्यशक्तेरप्रसिद्धया शक्यसंबन्धरूपलक्षणाप्यप्रसिद्धत्यर्थः । ननु तर्हि गभीरायां नद्यां घोष इत्यादौ नदीपदलक्ष्यार्थनदी- तीरैकदेशनद्या गभीरपदार्थान्वयासंभवात् कथं शाब्दबोध इत्यत आह ॥ यत्र विति ॥ यादृशमि- त्यर्थः । सर्वविभक्तिपु त्रलो विधानात् । अयर्थकतु शब्दः नदीपदस्येत्युतरं योज्यः ॥ इत्युक्तमिति ॥ इति वाक्यं प्रयुक्तमित्यर्थः ॥ तन नदीपदस्येति ॥ तादृशवाक्यघटकनदीपदस्यापीत्यर्थः ॥ गभीरपदार्थ- स्येति ॥ गाम्भीर्यविशिष्टयेत्यर्थः ॥ नद्या सहेति ॥ नदीपदार्थकदेशनद्या सहेत्यर्थः । ननु तर्हि पदार्थः पदार्थेन अन्वेति न पदार्थंकदेशेनेति ध्युत्पत्तिभर इत्यत आह ॥ क्वचिदिति ॥ शरैइशातित- पत्र इत्यादावित्यर्थः ॥ एकदेशान्वयस्येति ॥ शातितपदाथैकदेशशातनतृतीयार्थशरकरणत्वयोः अ. न्वयबोधस्येत्यर्थः । अथवा शातितपत्र इत्यत्र उत्तरपदस्यैव शातितपत्रविशिष्टयक्षलाक्षणिकतया पूर्वपद- स्य तात्पर्यग्राहकत्वेन पत्रपदाथै कदेशशातनतृतीयार्थशरकरणत्वयोरन्वयबोधस्येत्यर्थः ॥ स्वीकृतत्वा. दिनकरीयम्. बलाक्षणिकस्थले शाब्दबोधस्यानुभवसिद्धतया लाक्षणिकास्याप्यानुभावकत्वमिति नव्या: । ननु शक्यसं. बन्धो न लक्षणा तथा सति वाक्यस्य शक्यातासेद्धद्या तत्र लक्षणा न स्यादिति मीमांसकाक्षेपमिष्टापत्त्या निराकुरुते ॥ वाक्ये विति ॥ ननु गभीरायां नद्यां घोष इत्यादौ नदीपदस्य नदीतीरे लक्षणास्वीकारे गभीरपदार्थस्यैकदेशान्वयापत्त्या पदलक्षणाया असम्भवेन वाक्यलक्षणावश्यकीत्यत आह ॥ यत्र गभीरे. ति ॥ कचिदिति ॥ चैत्रस्य गुरुकुलमित्यादावित्यर्थः ॥ स्वीकृतत्वादिति ॥ पदभेदेन रामद्रीयम् . निरर्थकतया कुमतौ पशुत्वस्य बाधितत्वेन पशुपदस्यापि पशुसदृशे लाक्षणिकतया कुमतिः परित्यत्र कस्या- पि शक्तपदस्याभावात् तत्र शाब्दबोधो न स्यादिति तत्र शाब्दबोधोपपत्तये लाक्षाणिकपदेऽप्यानुभाविकी शक्ति. रवश्यमशीकरणीयेति भावः ॥ गुरुकुलमित्यादि ॥ कुलमिति सम्पातायातम् । चैतस्य गुरुरित्यत्रापि गु- रुत्व एव चैत्रनिरूपितत्वस्यान्वयात् । नचं गुरादेव चैत्रसम्बन्धोऽन्वीयतामिति वाच्यम् । तथासति चैत्रपुत्रा-