पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९८ कारिकावली [शब्दखण्डः तत्रैकदेशान्वयो न स्वीक्रियते तदा नदीपदस्य गभीरनदीतीरे लक्षणा गभीरपदं तात्पर्यग्राह- प्रभा. दिति ॥ सर्वानुमतत्वादित्यर्थः । तथाच पदार्थंकदेशेनापि अन्वयवोधस्य सर्वानुमततया तादृश. व्युत्पत्तौ मानाभाव इति भावः । ननु व्यभिचाराच्छरेशातितपत्र इत्यादिससम्बन्धि कस्थले तादृशव्युत्पत्त्या नङ्गीकारेऽपि ससम्बन्धिकातिरिक्तस्थले तादृशव्युत्पत्तिरावश्यकी अन्यथा ऋद्धस्य राजमातङ्गा इत्यादिवाक्य. स्यापि प्रामाण्यापत्तेः तत्र राजपदलक्ष्यैकदंशराज्ञि ऋद्धपदोत्तर धूप्रमाणषष्ठ्यर्थाभेदान्वयसंभवात् । एवंच गभीरायां नद्या घोष इत्यत्र नदीपदस्य ससम्बन्धिकत्वामानात तदर्थंकदेशनद्या सह गभीरपदार्थगाम्भी- यविशिष्टस्याभेदेनान्वयवोधासंभवात् पदलक्षणया न निर्वाह इत्याशहां सुसम्बन्धि कातिरिक्तस्थले तादृशनि- यमाङ्गीकारेऽपि प्रकारान्तरेण वारयति ॥ यदीति ॥ तत्रेति ॥ गभीरायां नद्यामिति वाक्य घटकगभी- रपदार्थगाम्भीर्यविशिष्ट इत्यर्थः ॥ एकदेशान्वय इति ॥ तादृशवाक्यघटकनदीपदाथै कदेशनद्या सहाभे. देनान्वय इत्यर्थः ॥ न स्वीक्रियत इति ॥ स्वीकर्तुं न शक्यत इत्यर्थः । इति विभाव्यत इति शेषः । तथाच एतादृशशाब्दबोधः स्वीकर्तुं न शक्यत इति यदि विभाव्यत इति योजना ॥ तदा नदीपदस्थे- ति ॥ ताशवाक्य घटकन दीपदस्येत्यर्थः || तात्पर्यग्राहकमिति ॥ तथाचताशस्थले तादृशनियमा- गीकारेऽपि बाधकाभावात् पदलक्षणयैवाभिमतशाब्दबोधसंभव इति भावः । यद्यपि गभीरायां नद्यामि त्यत्र विनिगमकाभावात् गभीरपदस्यैव तादृशार्थ लक्षणामङ्गीकृत्य नदीपदस्य तात्पर्य ग्राहकत्वस्वीकारेणा- प्यभिमतशाब्दबोधनिर्वाहः तथापि गभीरनद्यां घोष इति समासवाक्यघटकगभीरशब्दस्य तादृशार्थलक्षणायां नदीपदोत्तरश्रूयमाणसप्तम्यर्थाधेयत्वे गभीरपदलक्ष्यार्थान्वये प्रत्ययानामित्यादिनियमभङ्गापत्तेः गभीर - पदस्य सप्तमीप्रकृतिलाभावात् अतस्तरोत्तरपदलक्षणाया आवश्यकत्वात् सर्वत्राप्युत्तरपदलक्षणैव युक्त- त्यभिप्रायेण गभीरायां नद्यामित्यत्र नदीपदलक्षणाभिधानमिति ध्येयम् । मीमांसकैकदेशिनस्तु शक्यसंबन्धो न लक्षणा येन वाक्ये शक्त्यभावप्रयुक्त शक्यसंवन्धरूपलक्षणानुपपत्तिस्यात् किन्तु स्वबोध्य संबन्ध एव आनुपूर्वी विशेपावच्छिन्नवाश्याय विशिष्टार्थबोधकरवान स्वबोध्यत्वाप्रासद्धिः । एवंच गभीरा- भिन्ननाः गभीरायां नद्यामिति सप्तम्यन्तपदद्वय घटितसमुदाययोध्यत्वेन तत्संबन्धितीरे तादृशसमुदायस्य दिनकरयिम् . व्युत्पत्तिभेदात् प्रकृते तथा व्युत्पत्त्यकल्पनादिति भावः ॥ नदीपदस्येति ॥ न च विनिगमनाविरहेण गभीरपदस्य लक्षणा नदीपदं तात्पर्य प्राहकमित्यस्यापि वक्तुं शक्यत्वात् कथं नदीपदमात्रे लक्षणाभिधा- नामिति वाच्यम् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तरुत्तरपद एव लक्षणाया युक्तत्वात् । अत्र मीमांसकमतानुयायिनः । वाक्यलक्षणयैवोपपत्तौ गभीरपदस्य तात्पर्य ग्राहकत्वकल्पनमयु कम् । न च ना. क्ये शक्त्यभावाच्छक्यसम्बन्धरूपा लक्षणापि न सम्भवतीति वाच्यम् । स्ववोध्यसम्बन्धस्यैव लक्षणापदार्थ. त्वाद्शायां घोप इत्यादौ गङ्गापदबोध्यस्य प्रवाहस्य सम्बन्धस्तीरे इति तत्र लक्षणा गभीरायां नद्यामिति वाक्यस्य बोध्या गभीराभिन्ना नदी तत्सम्बन्धस्तीरे इति वाक्येऽपि लक्षणा । एवं समासात्मके चित्रगुरिति वाक्ये.. ऽपि चित्रगुपदस्यावयवशक्त्या चित्राभिन्ना गौः वोध्या स्वजन्यबोधविषयस्यैव स्ववोध्यत्वात् तत्सम्बन्धस्य रामरुद्रीयम्. दावपि तथा प्रयोग प्रसङ्गात् चैत्रपुत्रस्यापि कस्यचित् गुरुत्वाचैत्रसम्वन्धित्वाचेति ध्येयम् । ननु गुर्वादिपदस्य ससम्बन्धिकत्वेन तदर्थंकदेशे पदार्थान्तरान्वयसम्भवेऽपि नदीपदस्यातथात्वात् कथं तदेकदेशे गभीरपदा- र्थस्यान्वय इत्यत आह ॥ पदभेदेनेति ॥ व्युत्पत्तिभेदात् आकाङ्क्षाभेदात् ॥ प्रकृत इति ॥ एत. द्वाक्यस्थनदीपद इत्यर्थः ॥ उत्तरपद एवेति ॥ यद्यपि गभीरायां नद्या घोष इत्यस्यैव पूर्वमुदाहृतत्वेन त. त्र गभीरपदोत्तरमपि सप्तमी श्रूयत एवेति नेयमनुपपत्तिस्तथापि विशेषणविभक्त सर्वत्र निरर्थकत्वेन तस्याः सा. र्थकत्वोपगमस्यायुक्तत्वात् । घोषपदेन गभीरायामित्यस्यानासन्नत्वाच्छाब्दबोधानुपपत्तेश्च । गभीरायां घोष इ. त्यादौ सर्वधानुपपत्तेश्च न तोपगमसम्भव इति भावः ॥ गङ्गापद्जन्यबोधेति ।। गङ्गापदशक्यार्थस्मरणरूपे.