पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. विशेष्य कः शाब्दबोधो निराबाधो भवतीति भावः । नचैवं सति राज पुरुष इति वाक्यस्य कर्मधा- रयत्वापत्तिः अभेदे कर्मधारण इत्यनुशासनेन अभेदविषयकशाब्दयोधस्थले कर्मधारयविधानादिति वाच्यम् समानार्थकप दद्वयघटितविग्रहबोध्य लमासस्यैव कर्मधारयत्वस्वीकारातू राज्ञः पुरुष इति विग्रह- वाक्यघटकपदचोरन्वयानुपपत्त्यभावात राजपदस्य राजसंवन्धिनि लक्षणाया असंभवेन एकार्थकत्वाभावा- त् राजपुरुष इत्यस्य कर्मधारयत्वापत्तेरभावात् । नचैवं सति अभेदे कर्मधारय इत्यनुशासनाविरोध इति वाच्यम् पदे तुल्याधिकरणे विज्ञेयः कर्मधारय इत्यनुशासनेन पदे तुल्याधिकरणे एकधार्मिनि- ट्वृत्तिनिरूपके पदे सति तादृशपदद्वयसमासः कर्मधारय इति विज्ञेय इत्यर्थकेन एकधर्मिनिष्ठवृत्तिनि- रूपकपदद्वयघटितविग्रहयोध्यसमासत्वं कर्मधारयत्वमिति लाभात् अभेदे कर्मधारय इत्यस्याप्रेतदर्थकत्व- लाभाच अनुशासनविरोधाभावात् । नच राजपुरुष इत्यत्र राजपदस्य राजसंबन्धिनि लक्षणास्वीकार राज्ञः पुरुष इत्यस्य विग्रहत्वानुपपत्तिः समाससमानार्थकसमासारम्भकवाक्यस्यैव विग्रहत्वेन सगासजन्य- शाब्दबोधसमान प्रकारकबोधजनकत्वरूपसमानार्थकत्वाभावादिति वाच्यम् । विग्रलक्षणे लाघवेन समा- सजन्यशाब्दवधिसमानविषयकशाबोधजनसत्वरूएसमानार्थकत्वस्यैव निवेशात् ननु समान प्रकारकत्व-- स्यापि गौरवात् । एवञ्च तादृशविग्रहस्य तादृशशाब्दयोषजनकत्वरूपसमानार्थकत्वसत्त्वान्न विप्रहत्यानुप. पत्तिः । एतेन व्याससमासयोः समान प्रकार कवोधजनकत्वरूप समानार्थकत्यरक्षणाय समासघटकराजपद- स्य राजसंवन्ध एवं लक्षणा बाच्चेति मिश्रानुयाचिमतमतास्तं तथा सति राजपदार्थराजसंवन्धस्य पु- रुष भेदसंबन्धेनान्वयस्य वक्तव्य तया नामायोरिति व्युत्पत्तिविरोधापत्तेः । नच नामार्थयोरिति व्यु- त्पत्ती निपातातिरिकत्ववत् समासातिरिक्तत्वविशेषणस्यापि दानात् न व्युत्पत्तिविरोध इति वाच्यम् । विग्रहलक्षणे समानप्रकारकवोधजनकत्वरूपसमानार्थकत्वं निश्न तल्लभाय समासघटकराजपदस्य रा- जसंबन्धिवे लक्षणां वकृत्य राजपदलक्ष्यार्थराजसंबन्धस्य पुत्र भेदसंबन्धनान्वये नामार्थयोरिति व्युत्पत्तिभङ्गायत्त्या तत्सरिहाराय व्युत्पत्ती समासातिरिक्तविशेषणदानस्य प्रक्षाळनाद्धीति न्यायकवळि- तत्वेनायुक्तत्वात् अनुभवसिद्धराजसंवन्धिप्रकारकपुरुषविशेष्य कशाब्दयोधापलापापत्तेश्च विग्रहलक्षणे समा- दिनकरीयम्. न्वयबोधस्वीकारात् । अन्यथा दर्शते राजमातशास्तस्यैवामी तुरङ्गमा इत्यादौ तच्छन्देन राज्ञः प- रामर्शी न स्यात् । तस्यैकदेशत्वादित्याहुः ॥ द्वन्द्वे तु इतरेतरद्वन्द्वे तु । धवखदिरावित्यत्र धवत्वं खदि- रामरुद्रीयम्. कशाब्दबोधं प्रति राजपदाव्यहितोत्तरपुरुषपदावरूपानुपूर्वाज्ञानस्य कारणत्वादित्यर्थः । तथाच अत एव रा- जपुरुष इत्यादौ तादृशंशाब्दबोधवारणसम्भवेन नोक्तापत्तेरवकाश इति भावः ॥ परामशी न स्यादिति॥ तत्पदेन पूर्व वाक्यस्थपदार्थस्यैव परामर्शों न तु तादृशपदार्थतावच्छेदकस्यापीति नियमः । अन्यथात्र शुक्लो घटोऽस्ति स न द्रव्यमिति स्वारसिकप्रयोगापत्तेः । तथाच राजपदस्य राजसम्बन्ध्यर्थकत्ये तत्पदेन राज्ञः परामर्श न स्यादिति भावः । आहुरित्यस्वरसोद्भावनम् । तद्धीजं तु एवं सति राज्ञः पुरुष इत्यादावपि स्व. स्वसंसर्गकबोधस्वीकार एवोचितः । अतिप्रसङ्गस्य षष्ट्यन्तराजपदसमभिव्याहारज्ञानस्य तादृशशाब्दबोधनि- यामकत्वोपगमेनैव वारणसम्भवात् । न चैवं व्याससमासवास्यज्ञानयोः परस्परजन्यत्वे व्यभिचारेण कारण- तैवानुपपन्नेति वाच्यम् । तत्तदानुपूर्वाज्ञानाव्यवाहितोत्तरत्वस्यापि कार्यतावच्छेदककोटौ निवेशनीयतया व्य- भिचाराप्रसके । अन्यथा त्वन्मतेऽपि राजस्वत्वं पुरुष इत्यतः तादृशशाब्दबोधवारणाय षष्ठयन्तराजपद. समभिव्याहारज्ञानस्य राजस्वत्व प्रकारकशाब्दबोधहेतुतायाः कल्पनीयतया पर्यायपदान्तरघटितवाक्यादपि तादृशशाब्दबोधोत्पत्त्या व्यभिवारस्य दुर्वारत्वात् । यदि च पुरुषो न राज्ञ इत्यादी आनयतया स्वत्वावभाव एव नज़ा बोधनीयः वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितानवच्छेदकतया स्वत्वादिसंबन्धन राजाधभाव- स्य ना बोधयितुमशक्यत्वादिति स्वत्वादेविभक्त्यर्थत्वमावश्यकामित्युच्यते तदा वृत्यनियामकसम्बन्धस्या-