पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्ड: चात् 11 द्वन्द्वे तु प्रभा. नविषयकाध जनकत्वरूपसमानार्थकत्वानिवेशे तु राजसंबन्धे लक्षणाया अनावश्यकतया राजसंबन्धि- लक्षणथैव समानविषयकोषजनकल्वरूपसमानार्थकत्व निर्वाहात् व्युत्पत्ती समासातिरिक्तत्वविशेषणस्या - नावश्यकतया लाघवं अभेदसंवन्धेन राजसंवन्धिप्रकारका पुरुषाविशेष्यकशाब्दबंधोपपत्तिश्चति ध्येयम् । अन्येतु राजपुरुष इत्यादि समासघटकराजएदस्य शक्यार्थरान एव स्वत्वादिसंबन्धेन पुरुषे अन्वयसं- भवात् न तत्पुरुष लक्षणा न चैवं सति नामार्थयोरिति व्युत्पत्तिविरोध इति वाच्यम् तादृशव्युत्पत्ती समासातिरिक्तस्वस्य विशेषणीयत्वात् । नच तथापि राजा पुरुष इति वाक्यादपि तादृशशाब्दबोधा- पत्तिरिति वाच्यम् तादृशशाब्दबोधे राजपदाव्यवहिसोत्तरपुरुषपदत्वरूपानुपूर्वीप्रकारकज्ञानस्य हेतुत्वस्वी- कारण राजा पुरुष इत्यादौ तादृश कारणामावेन स्वत्वादिसंसर्गकवोधापत्त्यभावात् । अन्यथा संवन्धि- नि लक्षणास्वीकरे दशैते राजमातङ्गाः तस्यैवामी तुरङ्गमाः इत्यत्र तच्छब्देन पदार्थ कदेशत्वेन राज्ञः परामर्शो न स्यादित्याहुः तन्न तच्छन्दस्य बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नशक्ततया स- ति तात्पर्ये पदार्थ कदेशराज्ञोऽपि तच्छब्देन परामर्श बाधकाभावात् पदार्थः पदार्थेनान्वेतीति व्यु: त्पत्तिसङ्कोच मानाभावात् निरुत्तस्थले बबादिसंसर्गकवोधे निरुक्तानुपूर्वीज्ञानस्य हेतुत्वकल्पनायां गौ- अनुभवसिद्धाभदसंबन्धनराज संघन्धिप्रकारकबोधापलापायत्तश्चेति दिक धवखदिराचित्यादाविति ॥ धवखदिरावित्यायभिन्नेतरतरद्वन्द्वे वित्यर्थ: । परस्परानन्दितार्थ- दिनकरीयम् . रत्वं च प्रत्येक नाद्देश्यतावच्छेदकम् । सुपामुद्देश्यतावच्छेदकच्याप्यसङ्ख्याबोधकत्वस्याकाशावित्यादिवाक्ये प्रामाण्यापत्तिभिया क्लातत्वेन धबद्वयस्य खदिरद्वयस्य वा बोधापत्तेः । परन्तु खदिरपदस्य धवखदिरसाहित्याध. रामरुद्रीयम् . भावप्रतियोगितावच्छेदकरवे को दोष इति वक्तव्यं अभावान्तरकल्पने गौरवमिति चेत् समनियताभावानामैक्ये. न तादृशाभावस्य राजस्वत्वाभावरूपत्वाभ्युपगमेनाभावान्तराकल्पनात् । न च स्वत्वादिसम्बन्धावच्छिन्नप्रति- योगिताकल्पने गौरवमिति वाच्यम् । स्वत्वादिषु विभक्तीनां शक्ति कल्पनं विभक्तिजन्यस्वरवाशुपस्थितीनां शाब्बोधहेतुताकल्प तादृशोपस्थितीनां भिन्नविषयक प्रत्यक्षादिप्रतिबन्धकतावच्छेदककोटौं प्रवेशं चापेक्ष्य तादृशप्रतियोगिताब्यक्तिकल्पनस्यैव लघुत्वादिति विभक्तेः सङ्ख्याभिन्नार्थकतैव न स्यादिति । किञ्च राज. सम्बम्धिनि राजपदस्य स्वारासे कलक्षणाग्रहदशायां तादृशलाक्षाणिकराजपदघटितराजपुरुष इति कर्मधारयाद्रा. जसम्बन्ध्यभिन्नः पुरुष इत्यादिबोधस्य सर्वानुमततया तादृशानुपूर्वाज्ञानस्य द्विविधशाब्दवोधहेतुताकल्पने गौरवम् । आप च राजसम्बन्ध्याभिन्नः पुरुषः प्रमेय इत्यादिविशिष्टवैशिष्ट्यावाप्रित्यक्षं प्रति तादृशानुपू- वीज्ञानघटितशाब्दसामन्याः प्रतिबन्धकत्वकल्पने गौरवम् । मन्मते च बाधाभावादिघरितशाब्दसामग्रीका- ले विशेष्यतावच्छेदकप्रकारकनिर्णयघटित प्रत्यक्ष सामय्या एवासत्त्वेन प्रत्यक्षापत्त्ययोगात्तदकल्पनात् । न च त्वयापि स्वत्वसम्बन्धेन राजाभाववान् पुरुषः प्रमेय इति तादृशप्रत्यक्ष प्रति पृथक् तादृशशाब्दसाम- याः प्रतिबन्धकवं कल्पनीयमिति साम्यगिति वाच्यम् । राजकीयभिन्नसम्बन्ध प्रमेय इति प्रत्यक्ष प्रत्यपि स्वत्वस्य संसर्गतावादिना तादृशशाब्दसामग्र्याः प्रतिवन्ध कत्वस्य कल्पनीयतया पूर्वोक्त प्रतिबन्धकत्वकल्प . नस्य तन्मतऽधिकत्वादित्यलं विस्तरेण ॥ मूले द्वन्द्वे न लक्षणेत्युक्तं तन्न सङ्गच्छते । अहिनकुलमित्यादी समाहारद्वन्द्वे उत्तरपदत्य अहिनकुलसमुदाये लक्षणायाः स्वतःसिद्धत्वादसो द्वन्द्वपदमितरेतरद्वन्द्वपरमित्याह ।। इतरेतरेति ॥ मूल विभक्त्यर्थद्वित्वप्रकारेणेत्यत्र विभक्त्यर्थः कर्मत्वं तस्मिन् प्रकारतया धवखदिरी बु. ध्येते इत्यों बोध्यः ॥ सुपामिति ॥ आकाशाविति वाश्यस्य प्रामाण्याभ्युपगमेनैतनिर्वाहः । विभक्त्य- र्थद्वित्वादेरुद्देश्यतावच्छेदकव्याप्तिविशिष्टसङ्ख्यायाः स्वात्मकपर्याप्त्याख्यस्वरूपसंबन्धेनैव स्वप्रकृत्यर्थे अन्व- यो नियत इत्युपेयम् । अन्यथा घटाकाशगतद्वित्वस्य केवलपर्याप्त्याख्यसम्बन्धेन समवायेन चाकाशेऽपि स- स्वेन ताशप्रयोगस्य प्रामाण्यापत्तेः । तथाचाकाशत्वव्याप्यद्वित्वाप्रसिद्धयाकाशस्य तादृशपर्याप्तिसम्ब -