पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्ड: - कथमिति वाच्यम् । तत्र नीलपदस्य नीलत्वे घटपदस्य घटत्वे लक्षणा । अभेद इत्यस्य चाश्नया- प्रभा. थवा वास्तवभेदो यत्रेति यादशपदद्वयनिरूपितयत्तिमतोः परस्परभेद इत्यर्थः । प्रामाणिक इति शेषः । तत्र दुन्दु इति तादृशपदयोरेव द्वन्द्वसमास इत्यर्थः । तादृशपदद्वयघटितसमान एव द्वन्द्वसमास इत्य- र्थः । भेदस्य वास्तवत्वकथनं अज्ञातस्यैव तस्य द्वन्द्वप्रयोजकत्वसूचनाय । तथाच चार्थे द्वन्द्व इति सूत्रं तस्य समुच्चयान्वाचयेतरेतरसमाहाराश्चत्वारश्चार्थाः अत्र समुच्चयान्वाचययोरविलम्बेन पदार्थद्वयोपस्थापकत्वयु- गपत्समभिव्याहतक्रियान्वयित्वबोधोभयतात्पर्येण उच्चरितत्यरूपसामर्थ्याभावात् समासासंभवेन इतरेत- रसमाहारयोनिहक्तसामर्थ्यवत्वात् समाससंभवेन च समुश्चयान्वाचयातिरिक्तचार्थे द्वन्द्वसमास इत्यर्थः स्वी- कार्यः । तत्र चार्थस्य भेदव्याप्यत्वात् भेदे सति द्वन्द्व इत्याशयेन वास्तवभेदो यत्रेत्यनेन भेदस्यैव द्वन्द्व- प्रवृत्तिनियामकत्वमुक्तमिति न पूर्वोक्तसाहित्याबोधप्रयुक्तद्वन्द्वानुपपत्तिशकते ध्येयम् ॥ नील घटयोरभेद् इ. स्यादाविति ॥ आदिना शरीरेन्द्रियविषया इत्यादिपरिप्रहः । इत्यादिवाक्यघटकनीलपदघटपदयोरित्यर्थः ।। कथमिति ॥ कथं द्वन्द्वावयवत्वामित्यर्थः । तादृशपदयघटितद्वन्द्वः कथामिति यावत् । द्वन्द्वप्रयोजकप्रक तवाक्यघटकपदद्यनिरूपितवृत्त्याश्रयान्यतरनिष्ठतादृशान्यतरप्रतियोगिकभेदस्याभावादिति भावः । यद्यपि नीलघटयोरित्यादौ कथमित्येव शङ्का कर्तुमुचिता तथापि नीलघटयोः द्वन्द्वप्रयोजकनिरुक्तभेदासत्त्वाफुटीकरणा- य अभेदपदघटनेति ध्येयम् ॥ तत्रेति ॥ नीलघटयोरिति समास इत्यर्थः । सप्तम्यर्थी घटकत्वं तस्य नी- लपदे घटपदे चान्वयः ॥ वृत्तिरिति ॥ लक्षणेत्यर्थः । तथाच तयोर्भेदसत्वात् न द्वन्द्वानुपपात्तीरीति भावः । ननु तर्हि तत्र कथमभेदान्वय इत्यत आह ॥ अभद इत्यस्येति ॥ अभेद इति वाक्यस्येत्यर्थः ।। दिनकरीयम्. स्वारः । समुनयान्वाचयेतरेतरयोगसमाहारभेदात् । तत्र समुच्चयान्वाचययोः सामर्थ्यामावान समासः । इत- रेतरसमाहारयोः सामर्थ्य सत्वात्तत्र समासः । तत्र चार्थस्य भेदव्याप्यत्वात् भेदे द्वन्द्व इत्याशयः । इत्यादा- वित्यादिपदेन प्रमाणप्रमेयेत्यादिसूत्रपरिग्रहः ॥ कथमिति ॥ यदि समासघटकपदार्थयोर्यत्र भेदस्तव द्वन्द्वस्तदा नीलघटयो दाभावात् कथं द्वन्द्वः । एवं प्रमाणप्रमेयेत्यादिसूने आत्मशरीरोन्द्रियार्थबुद्धिमनःप्रव. त्तिदोषप्रेत्वभावफलदुःखापवर्गास्तु प्रमेयमिति सूत्रोपात्तद्वादशावधप्रमेयान्तर्गतमनोबुद्धन्द्रियाणां प्रमाणवेन प्रमाणप्रमेय योर्भेदाभावात् कथं द्वन्द्व इत्यर्थः ॥ लक्षणेति ॥ तथाच तयोभदसत्वात् द्वन्द्व इति भावः । नवभेद इत्य सङ्गतं नीलत्वघटत्वयोरभेदाभावादत्त आह् ॥ अभेद इत्यस्येति ॥ केचित्तु पदार्थस्वं पदज- न्यप्रतीतिविषयत्वम् । तथाच क्वचित पदार्थभेदात् चित् पदार्थतावच्छेदकभेदात् द्वन्द्वः । प्रकृते च नील- रामरुदीयम्. धारणत्वादिति भावः ॥ समुच्चयेति ॥ घटं पटं चानयेत्यत्र चार्थः समुच्चयः । तत्र च घटफ्टयोः समास. निष्टानयनक्रियान्वयितृत्वेन सापेक्षत्वान्न समासः । एवं भिक्षामट गां चानयेत्यत्र बार्थोऽन्वाचयः । अत्रापि भिक्षागवोः समासनिष्टक्रियासापेक्षत्वदिवासामदेिव न समासः किंतु रामश्च लक्ष्मणश्च रामलक्ष्मणौ अ. हिश्च नकुलश्च अहिनकुलमिति इतरेतर समाहारयोरेव यत्र चार्थत्वं तत्रैव समास इति भावः । परन्तु यत्र पदार्थयोर्भेदस्तत्रैव चकारः प्रयुज्यत इति समुच्चयान्वाचयतरेतरसमाहारेघु चार्थो भेद एव । तस्मिन् भेदे समस्यमानपदार्थयोवस्तुतो वर्तमाने सति द्वन्द्वसमासो भवतीति चार्थे द्वन्द्व इति सूत्रार्थः ॥ प्रमाणप्रमेये. त्यादीति ॥ प्रमाणस्य प्रमेयाभिन्नत्वेन तत्र द्वन्दो न स्यादिति भावः । तथाच नीलघटयोरित्यत्र नलिव-- घटत्वयोर्यथा नीलघटपदयोर्लक्षणा तथा प्रमाणप्रमेयेत्यादिसूत्रेऽपि प्रमाणत्वादौ प्रमाणादिपदस्य लक्षणा अभेदपदस्याश्रयाभेद इव पदार्थपदस्थापि पदार्थतावच्छेदके लक्षणेत्यभिप्रायः॥ पदजन्येति ॥ विशेषण- विशेष्यविधया पदार्थतावच्छेदकस्य च पदार्थस्य च पदजन्यप्रतीतेविषयत्वेन पदार्थतावच्छेदकयोः पदार्थ योवा भेदे दुन्दुस्साधुः । नीलघटयोरित्यादौ पदार्थतावच्छेदकभेदादेव दुन्दुस्य साधुता । नचैवं पदार्थयोर्भेदः कथं दुन्दुस्थ साधुतानियामक इति वाच्यम् । घटश्च घटश्च घटावित्यत्र द्वन्द्वोपपत्तये पदार्थभेदस्य दुन्दुमा