पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। भेद इत्यर्थः । समाहारद्वन्द्वे तु यदि समाहारोऽप्यनुभूयत इत्युच्यते तदाहिनकुलमित्या- प्रभा- आश्रयाभेद इति । एकव्यक्ति समवेतत्वामित्यर्थः ॥ इत्यर्थ इति ।। प्रयोक्ततात्पर्यविषयार्थ इत्यर्थः । तथाच प्रकृतवाक्यघटकाभेदशब्दस्य एकव्यक्तिसमवेतत्वे लक्षणेति भावः । अन्येतु पदार्थत्वं पदनिरूपि. तवृत्तिमत्त्वतदवच्छेदकत्वान्यतरवत्त्वम् । एवंच क्वचित्पक्षनरूपितवृत्तिमद्भेदात् कचिवादनिरूपितवृत्तिमत्त्वा- वच्छेदकभेदाश्च द्वन्द्व इति लब्धम् । प्रकृते नीलपदनिरूपितवृत्तिमत्त्वावच्छेदकनीलरूपघटपदशक्यतावच्छेद- कघटत्वयोर्भेदात् द्वन्द्वस्साधुः । अथवा भेदे द्वन्द्व इत्यत्र भेदशब्दः पदार्थतावच्छेदकभेदपर एव अन्यतर- परत्वकल्पनायां गौरवात् । नचैवं सति घटा इत्यादी पदार्थतावच्छेदकभेदाभावेन द्वन्द्वस्याप्रसत्या तदपवादकसरूपैकशेषो न स्यादिति वाच्यं इष्टापत्तेः बहुवचनान्तघटशब्देनैव बहुघटवोधसंभवात् । नच सकृदुच्चरितन्यायसत्त्वात् कथमेकघटशब्देन अनेकघटबोध इति वाच्यं सकृदर्थ गमयतीत्यत्र सकृच्छन्दस्य बोधविशेषणतया एकशाब्दबोधं जनयतीत्यर्थलाभात् एकपटशब्देन अनेकघटबोधेऽप्युक्तव्युत्पनि नाभा- वात् । नच तथापि सरूपैकशेषविधेः निर्विषयत्वापत्तिरिति वाच्यं नानार्थकहरयइत्यादौ तद्विधेसार्थक्य सं. | भवादित्याहुः । तन्न क्वचित्पदार्थभेदस्य कचित्पदार्थतावच्छेदकभेदस्य इन्द्रप्रयोजकतायां भेदे द्वन्द्व इस्पत्र भेदश- ब्दस्य पदार्थतावच्छेदकभेदपरतायां सर्वत्र प्राप्तमरूपैकशेषविधेः नानार्थकहरय इत्यादिमात्रपरतायां चातिगी. | रचात् ॥समाहारद्वन्द्वति॥ इदंच अहिनकुलमित्युत्तरवाक्येन साकाई समाहारद्वन्द्वत्वंच परस्परानन्वितार्थका नेकपदघटितैकवचनान्तसमासत्वरूपं । अप्यर्थकतुशब्दः इत्यादावित्युत्तरं योज्यः ॥ यदि समाहार इति॥इ. दन्तु समाहारयोधकसमासत्वं समाहारद्वन्द्वत्वमिति मतानुसारेणोक्तम् । वस्तुतस्तु अहिनकुलमित्यादौ अहि. वनकुलत्वाभ्यामेव अहिनकुलबोधस्य अनुभवसिद्धतया समाहारस्याननुभवसिद्धत्वामित्याशयेन यदीत्युकम् ॥ दिनकरीयम्. | वषटत्वयोः पदार्थतावच्छेदकयोमदात् द्वन्द्वः । अस्तु वा पदार्थतावच्छेदकभेद एव द्वन्द्वः । नचैवं घटा | इत्यादी द्वन्द्वस्याप्रस करवेन तदपवादकः सरूपैकशेषो न स्यादिति वाच्यम् । इष्टापत्तेः । तत्र घटपदोपस्थापि. | तेषु बहुत्वान्वयादेव बहुघटबोधसम्भवात् । सकृदुश्चरित इत्यादिव्युत्पत्तौ मानाभावात् । सरूपैकशेषविधेई. री इत्यादी सार्थकत्वात् । अस्तु वा सदित्यादिव्युत्पत्तिः । परन्तु सकृदित्यर्थपदार्थंकदेशे वृत्तौ विशेषणम् । | वस्तुतो बोधविशेषणमेव तदिति न दोष इत्याहुः ॥ समाहार इति । अहिनकुलमित्यादौ अहिनकुल- रामरुद्रीयम् . धुत्तानियामकत्वोपगमात् । नच तत्र सरूपाणामेकशेष इति सूत्रेण पदान्तरस्य लोपविधानात् इन्दु एव नास्ती. ति कृतं पदार्थभेदस्य द्वन्द्वसाधुतानियामकत्वोपगमेनेति वाच्यम् । सरूपैकशेषस्य दुन्दसमासापचादकत्वेन इन्दस्य साधुतास्थल एव सरूपैकशेषविधेः प्रवर्तनीयतया तत च पदार्थतावच्छेदकघटत्वस्य भेदाभावेन पदा- र्थयोर्घटव्यक्त्योभैंदादेव दुन्दुस्य साधुतामुपपाद्य तदपवादकसरूपैकशेषविधेः प्रवर्तनीयत्वादिति भावः । न चैवं नीलघट इति कर्मधारयस्थलेऽपि पदार्थतावच्छेदकभेदसत्त्वेन दुन्दुप्रवृत्त्या कर्मधारयोच्छेदापत्तिरिति वाच्यम् । समस्यमानपदार्थयोरभेदविवक्षायामेव कर्मधारयविधानादिशेषेण सामान्यबाधादभेदविवक्षा. भाव एव दुन्दुसमासविधेरभ्युपगमादिति ध्येयम् ॥ सकदुश्चरित इति ॥ एकवारोचरितपदादे-- कस्यैवार्थस्य बोधेन घटपदादेकदा नानाघटबोधासम्भवादित्याशङ्का यामिदमुकम् । न चैवं सरूपाणा- मिति सूत्रवैयर्थ्यम् । एकघटपदेनैव नानाघटोपस्थितिसम्भवेन पदान्तरं कल्पयित्वा तमलोपविधानस्या- मुचितत्वादिति ॥ एकशेषविधेरिति ॥ हरिपदे सूर्यत्वसिंहत्यादिपदार्थतावच्छेदकानो भेदेन इन्दुप्र- सक्स्या ततैय तदपवादकसरूपैकशेषविधेः सार्थकत्वादिति भावः । ननु सकृदुश्चरित इति व्युत्पत्त्य- नभ्युपगमे सैन्धवादिपदादेकदैव लवणाश्रयोबोधापत्तिः । न च तात्पर्यज्ञानस्य नियामकत्वानानुपपति- रिति वाच्यम् । तात्पर्यसत्त्वेऽप्येकदा लवणाश्वयोबोधाननुभवादिस्यत आह ॥ अस्तु वेति ॥ पदार्थैः कदेश इति । सतदर्थमित्यत्रार्थशब्दार्थः वृत्त्या पदबोध्यः । तदेकदेशवृत्तौ सदित्यर्धस्यैकत्वस्यान्वयः ।