पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. तन्मतानुसारिन्यायप्रवर्तकानां गोशोपाध्यायानां सम्मतिमायाह-अत एवेति ॥ द्रव्यत्वाद्यभावत्वान्त- दिनकरीयम् . उत्तरोसराणामपाये, तदनन्तगभावादव्यवहितपूर्वाभावान । तथा च तत्वज्ञानेन मि याज्ञानस्य नाशः तेन दोषाणां नाशः तेन प्रवृत्तर नुत्पादः तेन जन्मानुपादस्तेन दुःखानुत्पाद इति पूर्वोक्त एवार्थः पर्यवसितः । एकविंशतिदुःखनाशस्तु स्वकारणसाध्यो, न तत्र तत्वज्ञानस्य प्रयोजकतति वदन्ति । नव्यास्तु योग्यविभुवि- शेषगुणनाशं प्रति स्वोत्तरवर्तिगुणानां कारणत्वात , म्वोत्तरात्पन्नगुणनैव दुःखध्वंसम्पमुक्तिसंभवेन न तत्र तत्त्वज्ञानापेक्षेति दुःखपदं दुःखसाधनदुरितपरतया व्याख्ययं दुरितम्य च योग्य गुणत्वाभावान स्वोत्तरवृत्ति गुणनाश्यतेति तन्नाशरूपमुक्तस्तत्त्वज्ञानसाध्यत्व मवेत्याहुः । तथा चतादशापवर्गस्याभावे, मंशयम्य गुण, साध्यतया इच्छाविषयरूपप्रयोजनम्य यथायथं द्रव्यादिषु, नत्तन्छास्त्र सिद्धार्थरूपस्य सिद्धान्तस्य द्रव्यादिषु, शब्दस्वरूपप्रतिज्ञायन्यतमरूपाणामवयवानां गुण, व्याप्यारोपेण व्याप कागेपम्य तर्कस्य गुण, निर्णयस्य गुण, तत्वबुभुत्सोः कथारूपवादस्य गुणे, विजिगीषुकथारूपजल्पस्य गुणे, स्वपक्षस्थापनाहीनकथारूपवितण्डायाः गुणे, अनुमितितत्कारणज्ञानान्यतरप्रतिबन्धकज्ञानविषयरूपाणां हेत्वाभासानां यथायथं द्रव्यादिषु, अभिप्रायान्तरेण रामन्द्रीयम. दिसूत्रपटिते जन्माभावे प्रवृत्त्यभावस्याप्रयोजकतया, मृत्रार्थानुपपत्तिश्चेत्याशङ्कानिरासायानन्तरपदस्याव्यवहित- पूर्वार्धकतामाह । अव्यवहितपूर्वाभावादिति ॥ वदन्तीत्यस्वरसोद्भावनं, तद्वाजं तु विशेष्याप्रयोजक- स्यापि विशेषणांशे प्रयोजकतामादाय विशिष्टप्रयोजकचोपगम धूमो वहिप्रयोजक इतिवहिमपर्वतप्रयो- जक इति व्यवहारापत्तिरेव । स्वोत्तरवर्तिगुणानामिति ॥ उत्पत्तिसम्बन्धेन स्वोत्तरवतिविशेषगुणाना- मित्यर्थः । तेन स्वस्यापि स्वोत्तरवर्तित्वेऽपि न ज्ञानादीनां क्षणिकत्वापत्तिः । न वा द्वितीयक्षणोत्पन्नघटादिसं. योगेनैवापेक्षाबुद्धेनाशापत्तो द्वित्वादीनां क्षणत्रयावस्थायित्वासंभवेन, स्वात्पत्तिद्वितीयक्षणोत्पन्ननिर्विकल्पकेन स्वतृतीयक्षण एवं द्वित्वप्रत्यक्षम्य वक्तव्यतया तदानी च द्वित्वाभावात्तत्प्रत्यक्षानुपपत्तिः । न च प्रत्यक्षे विषयस्य कारणत्वेऽपि द्वितीयक्षण द्वित्व सत्त्वात नृतीयक्षणे तत्प्रत्यक्षात्पत्ती किं बाधकमिति वाच्यम् । प्रत्यक्षे विषयस्य कार्यकालवृत्तितया कारणत्वात् , नाशोन्पत्तिक्षणे प्रतियोगिप्रत्यक्षस्यानुभवविरुद्धत्वात्। द्वित्वादीनां क्षणत्रयावस्थायि वे तु तृतीयक्षणे द्वित्वप्रत्यक्षे न काप्यनुपपत्तिः । न च विशेषगुणत्वेन कारणत्वेऽपि द्वित्वो- त्पत्तिक्षणात्पन्नज्ञानादिनाऽपेक्षाबुद्धिनाशे तृतीय क्षण द्विवनाशापत्त्या द्वित्वप्रत्यक्षानुपपत्तितावदवस्थ्यमिति वाच्यम् । द्वित्वाद्युत्पत्तिक्षण विशेषगुणात्पन्यनाकारान् । विशेषगुणं प्रत्युत्पत्तिक्षणावच्छिन्नद्वित्वकारणापेक्षा- बुद्धिव्यक्तः प्रतिबन्धकतामजीकृल्यैव द्वितीयक्षणे तदनाकारसम्भवादित ध्येयम् । न चवमपि सुषुप्तिप्राका- लोत्पन्न विशेषगुणानां नाशानुपपत्तिरिति वाच्यम् । तत्रागल्या स्वात्तरवर्तित्वविशित्रम्य स्वम्यव नाशकत्वाभ्युप. गमात् । सर्वत्र स्वोत्तरवृत्तित्वेन नाशकत्वे अपेक्षाबुद्धस्तृतीयक्षणे स्थायित्वानुपपत्तिरिति बोध्यम् । वस्तुतस्तु प्रकृते स्वीत्तरवर्तित्वं स्वध्वंसाधिकरणक्षणवृत्तित्वमेव । तथा च समवायेन नाशकत्वाभ्युपगमेऽपि प्रतिबन्धकत्वा- कल्पने क्षत्यभावेन लाघवादिति । दुरितपरतयेति ॥ तथा च पापवंस एव मुक्तिनं दुःखध्वंस इति नोक्ता- नुपपत्तिः । ननु पापस्याप्यात्मविशेषगुणत्वेन स्वात्तरात्पन्न गुणेनेव नन्नाशसम्भवात्कथं पाप वंसस्यापि तत्त्वज्ञान- साध्यतेत्याशङ्कामपनेतुं नाश्यतावच्छेदककोटी योग्यतां निवेश्य स्वोत्तरवर्तिगुणनाश्यतां वारयति- दुरितस्य चेति ॥ न च पापस्य स्व तिरवर्तिगुणनात्यत्वे इष्टापत्तिसम्भवेन नाझ्यतावच्छेदककोटी योग्यता- निवेशो व्यर्थ इति वाच्यम् । तथासति पापस्य प्रायश्चित्तनाश्यताबोधकश्रुतिविरोधापत्तरिति भावः । न चैवं पापस्य प्रायश्चित्तेनापि नाश्यतया कथं मुक्ति प्रति तत्त्वज्ञानत्वेन कारणता प्रायश्चित्तजन्यपापध्वंसे व्यभिचारा- दिति वाच्यम् । तादृशव्यभिचारवारणायैव स्वसमानाधिकरणदुरितासमानकालीनत्वरूपात्यन्तिकत्वस्य कार्यता- वच्छेदककोटो प्रवेशित्तत्वात्। न चैवं पापध्वंसे न तत्त्वज्ञानस्य प्रयोजकता किन्तु तद्विशषणीभूतस्वसमानाधि- करणारतासमानकालीनत्व एवेति प्राचीनमतादविशेष इति वाच्यम् । ध्वंसख्य तीनां परस्परभिन्नत्वेन प्रायश्चि- -