पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. युक्ताध्ययनप्राप्त्या तदितराध्ययनाप्राप्त्या च तदतिरिक्ताध्ययननिषेधलाभात् शूद्रान्तरस्याध्ययनलेशस्याप्य. प्राप्तत्वेन अध्ययनसामान्यनिषेधलाभात् न काप्यनुपपत्तिरिति दिक् । ननु शक्तेरिव शक्य संवन्धरूपलक्षणाया अपि कृप्ततया निषादस्थपत्यधिकरणे लाक्षणिकपदघटिततत्पुरुषादिपक्षनिरासपूर्वकर्मधारयव्यवस्थापने बी. जाभावः । नच एतादृशश्रुतिवाक्यजन्यशाब्दबोधे लक्ष गाज्ञानस्य हेतुत्वकल्पनाधिक्यमेव तब्यवस्थापनबीज- मिति वाच्य निषादसंबन्ध्यभिन्नस्थपतिबोधतात्पर्यगोचार विषादस्थपतिरिति लौकिकतत्पुरुषवाक्यजन्य - शाब्दयोधे लक्षणाज्ञानस्य हेतुत्वावश्यकतया वैदिकवाक्यजन्यतादृशशाब्दबोधे अधिकस्याकल्पनादिति चेन्न शक्तिज्ञानं विना शक्यसंबन्धरूपलक्षणाज्ञानस्वासंभवेन शाक्तिज्ञानम्य तादृशवैदिकवाक्यजन्यशाब्दबोधात् पू- मुभयमतसिद्धत्वेऽपि तव लक्षणाज्ञानकल्पनाया अप्यावश्यकस्वेन तत्प्रयुक्तगौरवस्य दुर्वारत्वादिति दिक् ॥ उपकुम्भं अर्धपिप्पलीत्यादाविति ।। उपकुम्भमित्यायव्ययीभावे अपिप्पलीत्यादितत्पुरुषे चेत्यर्थः । अ. व्ययीभावत्वं च अव्ययीभाव इत्यधिकारविहि तत्वरूप तापुरुषस्वरूपञ्चोकमेव । उपकुम्भमित्यादी कुम्भस्य सभापभित्यस्वपदविग्रहः अव्ययीभाव समारास्य नित्यसमासत्वात् । नित्यसमासत्वमविग्रहत्वं स्वाघटकपदघटितविग्रहकत्वं वेति बोध्यम् । एवं अर्धपिप्पल त्यत्रापि पिपल्याः अधमिति विग्रह ऊह्यः ।। परपद इति ॥ कुम्भपदे पिप्पलीपदे चेत्यर्थः ।। संवन्धिनीति ।। कुम्भसंबन्धिान पिप्पलीसंबन्धिनि चे. त्यर्थः ॥ लक्षणेति ॥ निरूढलक्षणेत्यर्थः । पूर्वपदार्थ इति ॥ उपपदार्थविशेष्यकतयैवेत्यर्थः । चकारस्या- दिनकरीयम् . ज्ञानस्य हेतुत्वकल्पनमाधिकमिति वाच्यम् । निषादानां स्थपतिरिति व्युत्पत्त्या निषादसम्बन्थ्यभिन्नस्थपत्य- नुभवस्य लौकिकवाक्ये क्लप्तत्वात् तदनुरोधेन लक्षणाज्ञानहेतुत्वस्य सर्वसिद्धत्वेन वेदेऽथिकस्याकल्पनादिति चेन्न । शक्यसम्बन्धरूपलक्षणाज्ञानस्य शक्तिज्ञान विनासम्भवेन शक्तिज्ञानस्य तत्रोभयसिद्धतया भवन्मते वैदिकवाक्यजन्यशाब्दबोधात् पूर्व लक्षणाज्ञानव्यक्तिकल्पनागौरवस्य वञ्जलेपरवादिति ॥ उपकुम्भमपि. प्पलीत्वादाविति । अत्र कुम्भस्य समीपमित्यस्वपदविग्रहः । अव्ययीभावस्य नित्यसमासत्वात् पूर्वपदार्थप्रधानतयेति ।। कुम्भपदलक्षितस्य कुम्भसम्वन्धिन उपपदार्थसमीपेऽभेदान्वयात् कुम्भसम्ब- ध्यभिन्नसमीपमित्युपपदार्थविशेष्यकोऽन्वयबोध इत्यर्थः । केचित्तु उपपदार्थः सामीप्यं न तु सभीपं समापे उपपदलक्षणास्वीकारे तु पदद्वयलक्षणापेक्षया कुम्भपदस्यैव कुम्भसमीपे लक्षण! उपपदं तात्पर्य ग्राहक कुम्भ. रामरुद्रीयम्. षयकशाब्दबोधं प्रति हेतुतायाः क्लप्ततया तत एव वैदिकशाब्दस्याप्युपपत्त्या वेदस्थले कार्यकारणभावान्त. रकल्पनाविरहादिति समाधत्ते ॥ निषादानामिति ॥ लक्षणाज्ञानहेतुताया आधिक्यविरहेऽपि वेदजन्य- शाब्दबोधव्यक्तीनामव्यवहितपूर्वकालसंबन्धज्ञानव्यक्तीनामनन्तानां कल्पनाप्रयुक्तगौरखं वज्रलेपरूपमेव । न च तन्मतसिद्धशक्तिज्ञानव्यक्तिकल्पनास्थानीयलक्षण|ज्ञानऋल्पनमिति नाधिक्यामिति वाच्यम् । शक्यसम्ब- न्धरूपलक्षणाशाने विशेषणज्ञानविधया शक्तिज्ञानस्यावश्यकतया शक्तिज्ञानव्यक्तीना वेदजन्यशाब्दबोधात्पूर्वमु- भयवादिसिह त्वादिति समाधत्ते । शक्यसम्बन्धरूपेति ॥अस्वपदेति ॥ समस्यमानपद मानघटितविग्रह- कसमासस्य स्वपदविग्रहस्य समासस्य तादृशविग्रहवाक्यं स्वपदविग्रहवाक्यामित्युच्यते ! स एव नित्यसमास इति व्यवह्नियते । स्वपदमात्रघटितविग्रहवाक्यसिद्धयर्थमेव समासविधेः वैकल्पिकत्वस्याङ्गीकारादिति भावः ॥ उपपदार्थविशेष्यक इति ॥ नचैवं उपकुम्भादागत इत्यादौ विभक्त्यर्थापादानत्वादी सभीपादेरन्वयो न स्यात् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वनियमात् । उपपदाव्यवहितोत्तरकुम्भपदस्यैव विभक्तिप्रकृ. तित्वादिति वाच्यं । पदभेदेन व्युत्पत्तिभेदस्वीकारात् । पूर्वपदार्थप्रधानसमासस्थले तादृशसमस्तपदविभोर- ग्यवहितपूर्वापरभावस्यैव तादृशशाब्दबोधनियामकल्वोपगमेन उक्तव्युत्पत्तेस्तादृशस्थले सङ्कोचोपगमादिति भा. वः । कुम्भपदस्यैव कुम्भसमीपे लक्षणा उपपदं तात्पर्य ग्राहकम् एवञ्च प्रत्ययानामिति व्युत्पत्तेरपि न सको- चकल्पनमिति केचिदाहुः तन्मतमुपन्यस्यति ॥ केचित्त्विति । कुम्मसमीपमितीति ॥ वद्यपि कुम्भपद्- 78 s