पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। ६१९ आसत्तियोग्यताकाहातात्पर्यज्ञानमिष्यते ।। ८२ ।। कारणं सन्निधानं तु पदस्थासतिरुच्यते । प्रभा. समीपमिति बोध इत्याहुः तन्न द्वितीयपदार्थानन्वितपदार्थशाब्दयोधस्याप्रामाणिकत्वात् । नचैवं सति चित्रगुरि- त्यादावपि शाब्दबोधानुपपत्तिः गोपदस्यैव चित्रगोस्वाभिलक्षकत्वेन तस्यैकपदार्थत्वादिति वाच्यं इष्टाप. तेः । चित्रपदार्थस्य गोस्वामिलक्षकगोपदार्थकदेशगव्यन्वयपक्षेऽपि चिनाभिन्ना या गौः तत्स्वामीति बोधस्यैव स्वीकार्यतया तस्य निर्धर्मितावच्छेदककरलेन पदद्वयस्य सार्थकत्वपक्षेऽप्यप्रामाणिकत्वेन तन्मात्रात् शाब्दयो- धाभावस्य सर्वानुमतत्वात् एकवचनादिरूपपदान्तरज्ञानाधीनार्थोपस्थितिकाल एव चित्रगुरित्यादिवाक्यात शाब्दबोधस्य सर्वानुमतत्वात् । नचैत्र सति उपकुम्भामित्यत्रापि एकवचनज्ञानाधीनकत्वोपस्थितिकाल एव शाब्दबोधः स्वीकियतामिति वाच्यं एकवचनानुपस्थितिकाले तद्वाक्यादनुभवसिद्धशाब्दबोधस्यापलापापत्ते. दुरित्वादिति । अत्र राजपुरुष इत्यादिसमास सामान्यस्य राजपुरुषादिरूपविशिष्टार्थे शक्त्यैव विशिष्टार्थबोधसं. भवे समासस्थलीयशाब्दबोधे लक्षणाज्ञानस्थापि न हेतुत्वं गौरवात् । नचैवं राजादिपदानां शक्तिमजान- तोऽपि पुंसः राजपुरुष इति समासः राजसंवन्धिपुरुषशक्त इति शक्तिज्ञानसंभवेन तस्य तादृशवाक्यात शा- ब्दबोधापत्तिरिति वाच्यम् समासशक्त : व्यवहारादिना ग्रहीतुमशक्यतया व्याकरणेनैव सा ग्राह्या व्याकरण तु अवयवशक्तिबोधनद्वारैव समुदायशक्तिबोधकमिति समासशक्तिग्रहे अवयवशक्तिग्रहस्यापि हेतुतया स- मासघटकराजादिपदानां शक्तिम जानतः पुरुषस्य सभासम्यापि शक्तिग्रहासंभवेन उक्तदोषासंभवात् तस्मात् समास सामान्यस्य शक्तित्वीकारेणैवाभिमतशाब्दबोधनिर्वाहे पद लक्षणा नाजीकार्येति वैयाकरणमतं दूषयति ॥ इत्थं चेति ॥ समासस्य लक्षणानिराकरणप्रकारेणैवेत्यर्थः ॥ समास इति ॥ सभाससामान्य इत्यर्थः ।। न क्वापि शक्तिरिति ॥ कुलचिदपि शक्तिर्नास्तीत्यर्थः । कुत्रचिदित्यनेन समासत्वावच्छेदेन शक्यभा- वलाभः । तथाच समासत्वावच्छेदेन यथा लक्षणाभावः तथा शक्त्यभाचीऽपि सिद्ध इति समुदितवाक्या- र्थः । तत्र हेतुमाह ॥ पदशक्तयैवेति ॥ कृप्तसमासघटकावयवानरूपितशक्तिलक्षणाभ्यामेवेत्यर्थः ॥ नि. हादिति ॥ अभिमत शाब्दबोधसंभवादित्यर्थः । तथाच समासशक्तिवादिमतेऽपि समासघटकपदानां श. तेः तत्संबन्धरूपलक्षणायाश्च कुप्ततया उभयमतसिद्धशक्ति लक्षणाभ्यामेवाभिमतशाब्दबोधनिर्वाहे समाससा- मान्येऽपि अतिरिक्त शक्ति का कार्या प्रमाणाभावात् अनन्यलभ्यस्यैव शब्दार्थत्वादिति भावः । ननु एताव- ता शाब्दसामान्यं प्रति वृत्तिज्ञानसहकृतपदज्ञान जन्य पदार्थस्मृतिद्वारा पदज्ञानसामान्यस्य हेतुत्वामित्याया- तं तदनुपपन्नं गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यादौ वह्निना सिञ्चतीत्यादौ घटः कर्मत्वं आनयनं कृत्तिः इत्या. दौ च तादृशव्यापारद्वारा पदज्ञानसत्त्वेऽप्यभिमतशाब्दबोधानुदयात् अतः आसत्तिज्ञानादेः सहकारिकार- णत्वमङ्गीकृत्य व्यभिचारं वारयति ॥ मूले आसत्तीति ॥ आसत्तियोग्यताकाङ्केत्यादिमूलेन द्वन्द्वोत्तरं श्रू. दिनकरीयम्. आसत्तिर्योग्यताकाङ्केति मूलादासत्तेः स्वरूपसत्या एव कारणत्वं लभ्यते न तु योग्यताज्ञानादिवदासत्तिज्ञान- स्य । ज्ञानपदस्य समासघटकत्वेन समासाघटकासतिपदार्थेनानन्वयात् । स्वरूपसत्याश्च आसत्तेः कारणत्वं न सम्भवति गिरि कमित्यादौ गिरिपदाग्निमत्पदयोरव्यवधानभ्रमेण शाब्दबोधोदयेन व्यभिचारादतो रामदीयम् . त्यादौ तत्पुरुषे पूर्वपदस्य लक्षणैव पूर्व प्रतिपादिता न तु तत्पुरुषे शक्तिनिराकृता । अर्धपिप्पलीति तत्पु. रुषेऽपि न पूर्वपदेऽपि लक्षणा किन्तूतरपद एवेति इदानी अभिधानान्न पौनरुक्त यशावकाशः । अग्रे च तत्र तत्र समासेषु समासघटकपदानां शक्या लक्षणया वा तत्तद्विशिष्टवोधोपपत्तौ न वापि समासे शक्तिः कल्प्यते गौरवादिति समासमात्रे शक्तिरेकदैव निराकरिष्यत इति नानुपपत्तिः । त- थापि तत्पुरुषे पूर्वपदलक्षणाभिधानं समासे शक्तिनिरासायेति तदुक्त्यैव क्वचित्तत्पुरुषे उत्तरपदलक्षणयैः व निर्वाहेण तत्रापि न शक्तिकल्पनमिति लाभसम्भवात् पौनरुक्त यशङ्कावकाशः कथञ्चिदुपपादनीयः ।।