पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डः आसत्तिरित्यादि ॥ आसत्तिज्ञानं योग्यताज्ञानमाकाङ्का ज्ञानं तात्पर्यज्ञानं च शाल- बोधे कारणम् । तत्रासन्तिपदार्थमाह || सन्निधानं त्विति ॥ यत्पदार्थेन यत्पदार्थस्यान्व- योऽपेक्षितस्तयोरव्यवधानेनोपस्थितिः शाब्दबोधे कारणम् । तेन गिरिऍक्तमग्निमान् देवद- प्रभा. यमाणकानशब्दस्य प्रत्येकमभिसंबन्धादासत्यादिज्ञानं लभ्यते । इष्यते कारणामिति मूलेन कारणशब्दस्य शाब्दबोधकारणपरत्वस्वीकारात् शाब्दकारणमिष्यत इत्यर्थलाभ इत्यभिप्रायेण प्रतीक धृत्वा फलितार्थमा- है । मुक्तावळ्यामासत्तियोग्यतेत्यादि ॥ कारणमिति ॥ फलितामिति शेषः । अत्र मुक्तावळयां बहुषु पुस्तकेपु आसत्तिर्योग्यतेत्यादिमूलपाटाभिप्रायेण आसत्तियोग्यतेत्यादिप्रतीकधारणं दृश्यते तच्च प्रा. मादिकं अन्यथा आसत्तियोग्यतेत्यादिमूलघटकासत्तिपदस्य समासाघटकनया तदर्थस्य समासघटकज्ञान पदार्थेन सहान्वयासंभवेन स्वरूप सत्याः तस्याः शाब्दहेतु वासंभवेन चामत्तीतिप्रतीकचारणपूर्वकं आस सिज्ञानमित्यर्थ इति व्याख्यानकरणमेव युक्तं नत्वासत्तियोग्यतेत्यादिप्रतीकधारणपूर्वकासत्तिज्ञानयोग्यताज्ञा- नमित्यादिव्यान्याकरणं योग्यतादिज्ञानस्य समासबलेनैव लाभेन स्वारसिकलक्षणया आससिपदार्थासात्ति- ज्ञानेन सह योग्यताज्ञानादेः तुल्यतया प्रतिपादने बीजाभावात् । तस्माद्विश्वनाथप चाननस्य आसत्तियांग्य- तेत्यादिसमस्तपाठ एवाभिमतः तस्य एतदभिप्रायकत्यखीकारादेव आसत्तियोग्यतेत्यादिप्रतीकधारणपूर्वक मासत्तिज्ञानमित्यादितुल्य प्रतिपादनसतेरिति प्रतिभाति ॥ तत्रेति ॥ शाब्दबोध कारणज्ञानविषयासत्त्यादि- दिनकरीयम् . मूलस्थमासतिपदमासत्तिज्ञानपरतया व्याचष्टे ॥ आसत्तिज्ञानमिति ॥ आसत्तियोग्यतति विसर्गशून्यपाठ. स्तु ऋजुरेव । ननु सन्निधानं तु पदस्या पत्तिरुच्यते इति मूलो कस्यासत्तिलक्षणस्य गिरि(क्तमित्यतातिव्या- प्तिः । तत्रापि गिरिपदभुक्तपदयोरव्यवधानसत्त्वादतो व्या चष्टे ॥ यत्पदार्थति । अपेक्षितः तात्पर्य विषयः ॥ तयोरिति ॥ तयोः पदयोरित्यर्थः । तादृशपदयोरव्यवधानमा शत्तिस्तदुपस्थितिः कारणमित्य- यः । तथा च गिरिपदार्थभुक्तपदार्थयोरन्वयो न तात्पर्यविषयोऽपि तु गिरिपदार्थाग्निमत्पदार्थयोरेवेति त. योरव्यवधानाभावा नातिव्यापिरिति भावः ॥ तेन एताशयत्तत्पदार्थ गर्भासत्तिनिर्वचनेन । ननु नीलो घटो रामरुद्रीयम् . विसर्गशून्येति ॥ आसत्तीत्यस्य निर्विभक्तिकत्वेन समासान्तर्गतत्वसम्भवेन आसत्त्यादितात्पर्यान्तानां द्वन्द्वसमासमाश्रित्य तेषां ज्ञानमिति षष्ठीतत्पुरुषाश्रयणेन आसत्यादिज्ञानलाभसम्भवादिति भावः । सन्निधा-- नं तु पदभ्येति मूलकारिकायां चोपपदसान्निध्य मासत्तिरिति यथाश्रुतार्थः प्रतीयते । तत्र चोपपदयोः यत्र न परस्परान्वयबोधजनकत्वं तत्र पदयोः सान्निध्यस्यासत्तित्वापत्तिरिति दोषस्य स्पष्टतया तस्यैव ग्रन्थकर्तुः स्वाभिमतासत्तेनिर्वचनवीजतां प्रदर्शयन्नाह ॥ नन्वित्यादि । वस्तुतः सन्निधानमित्यादि मूलं प्राचीना एवं परिष्कुर्वन्ति ययोः पदयोः परस्परमन्वयबोधजनकत्वे तात्पर्य तयोः पदयारव्यवधानमासत्तिः । तस्याः स्वरूपस. त्याः शाब्दबोधकारणत्वे गिरिऍक्तमित्यादौ गिरिपदाग्निमत्पदयोरव्यवधानभ्रमाच्छाब्दबोधस्य अनुभवसिद्धत• या तदपलापापत्तिः। तस्मात् भ्रमप्रमासाधारण तादृशपदयोरव्यवधानज्ञानमेव शाब्दबोधहेतुतयोपगन्तव्यमिति न्मतं निरूपयितुं मूलकुदुपन्यस्यति ॥ अन्वयप्रतियोगीत्यादि ॥ अन्वयश्शाब्दबोधविषयीभूतस्संसर्गः । तत्प्रतियोग्यनुयोगिपदे त्यस्य तत्प्रतियोग्यनुयोगियोधकप देत्यर्थः । मतमेतद्दूषयति ॥ वस्तुत इति !! अनपेक्षितत्वादिति ॥ शाब्दबोधानुपूर्वीनियमनाभावादित्यर्थः । तथा चोक्तासत्तिज्ञानस्य हेतुता व्य- भिचारेण वक्तुमशक्येति भावः । न चोक्तव्यतिरेकव्यभिचार एवासिद्ध इति वाच्यम् । पदयेनाप्यव्यव- भानेन पदार्थद्वयस्योपस्थितिज्ञाने पदाव्यवधानज्ञानं विनापि शाब्दबोधस्यानुभवसिद्धत्वादिति भावः । स्व- मतेनासतिं निर्वक्ति ॥ यत्पदार्थनेत्यादि ॥ तात्पर्यविषय इति ॥ तात्पर्यविषयत्वनिश्चय इत्यर्थः ॥ तादृशपदयोरिति ॥ तादृशपदज्ञानयोरित्यर्थः ॥ तदुपस्थितिरिति ॥ तेनोपस्थितिस्तदुपस्थितिरिति