पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ६२१ सेनेत्यादौ न शाब्दबोधः । नीलो घटो द्रव्यं पट इत्यादावासत्तिभ्रमाच्छाब्दबोधः । आस- त्तिभ्रमेण शाब्दभ्रमाभावेऽपि न क्षतिः । ननु यत्र छत्री कुण्डली वासस्वी देवदत्त इत्यायुक्तं प्रभा. वित्यर्थः । घटकत्वं सप्तम्यर्थः तस्यासत्तावन्वयः ॥आसत्तिपदार्थमाहेत्यादि ॥ आसत्तिस्वरूपनाहेल. र्थः । अत्र सन्निधानन्तु पदस्यासत्तिरुच्यते इति मूलादासत्तेः पदाव्यवधानरूपत्वं लब्धं तञ्च गिरि - कम तिमान् देवदत्तेनेति अनासन्नवास्येऽतिव्याप्तं गिरिपदभुक्तपदयोरव्यवधानसत्वात् अतो मूलमन्यथा व्याचष्टे ॥ यत्पदार्थनेति ॥ यत्पदार्थनिष्टविषयतानिरूपितय पदानिष्टविषयताशालिशाब्दवोध इत्यर्थः ।। अभिमत इति ॥ तात्पर्यविषय इत्यर्थः ॥ सयोरिति ॥ तादृशपदयोरित्यर्थः ॥ अव्यवधानेनेति ॥ अ- व्यवहितपूर्वस्वाव्यवहितोत्तरत्वान्यतरवत्वेनोपस्थितिरित्यर्थः । तथाच तात्पर्यविषयशाब्दबोधाविषयतत्तदर्थी. पस्थिति निरूपितज्ञाननिष्टकारणतानिरूतिविष यतासंबन्धावच्छिनावच्छेदकताश्रयानिटनिरुक्ताव्यवधानसत्त्वं तच्छाब्दबोधौपयिकासत्तिरिति फलितम् ॥ तनेति ॥ एतादृशासत्तिज्ञानस्थ शाब्दबोध हेतुत्वस्वीकारणेत्यर्थः ।। न शाब्दबोध हति ॥ अभ्रान्तस्येत्यादिः । तथाच गिरि कमिति बाक्थात् अभ्रान्तस्य शाब्दबोधानुदये. न गिरिपदभुक्तपदयोरव्यवधानस्य निरुक्तावच्छेदकताश्रयनिष्ठत्वाभावान्नातिव्याप्तिरिति भावः । आसत्तिघटक- शान्दवोधे तात्पर्यविषयत्वनिवेशप्रयोजनमाह ॥ तात्पर्येति ॥ यत इत्यादिः ॥ नीलो घट इत्यादि अत इत्यादिः नीलपदार्थघटपदार्थयोरन्वयबोधतात्पर्येणोचरितनीलोपटोद्रव्यपरतिवाक्य इत्यर्थः ॥ आ. सत्तिनमादिति ॥ नीलपदघटपदयोरित्यादिः । आसत्तिभ्रमादेवेत्यर्थः नीलपदघटपदयोः तात्पर्यघटि- तासत्त्यभावादिति भावः ॥ शादरोध इति ॥ अभेदसंबन्धेन नीलप्रकारकयटविशेष्यकशाब्दबोध इत्य- र्थः । ननु उक्तस्थले नीलपदघटपदाभ्यां जायमान शाब्दबोधस्य भ्रगत्वापत्तिः नीलरघटपदयोः असत्ति- ज्ञानस्य भ्रमत्वात् आसत्तिभ्रमस्य शाब्दभ्रमहेतुत्वादित्याराको आसत्तिभ्रमस्य शादभ्रमहेतुत्वनिराकरणेन परिहरति ॥ आसत्तिभ्रमेणेति ॥ शाब्दभ्रमाभावेऽपीति | आसत्तिभ्रमजन्यशाब्दस्य भ्रमत्वाभावेऽ. पीत्यर्थः । आसत्तित्रमस्य शाब्दभ्रमजनकत्वानजीकारेऽाति यावत् ॥ न क्षतिरिति ॥ सर्वत्र आसत्ति- दिनकरीयम् . द्रव्यं पट इत्यत्र नीलपदार्थपटपदार्थयोयत्रान्वयो वक्तुस्तात्पर्यविषयो न तु नीलपदार्थबटपदार्थयोस्तत्र नी- लपघटपदयोरासत्तिन स्यात् । तत्तदर्थान्वयस्य तात्पर्यावषयत्वाभावात् । अत्रेष्ठापत्तिमाह ॥ नीलो घट इत्यादिना ॥ तर्हि तत्र नीलो घट इति कथं शाब्दबोध इत्यत आह ॥ भ्रमाच्छाब्दबोध इति ॥ तथा च भ्रमाच्छाब्दबोधमानं न तु तत्रासत्तिरिति भावः । ननु तत्र यद्यासत्तिभ्रमस्तदा शाब्दबावोऽपि भ्रमात्म- कः स्यात् । न चेष्टापत्तिः । घटे नीलस्य सत्त्वेन विषयवाधाभावादासत्तिभ्रमाच्छाब्दभ्रमानहीकारे चासत्ति. भ्रमाच्छाब्दभ्रम इति प्राचीनगाथाविरोध इत्यत आह ॥ आसात्तिभ्रमेणेति ॥ न अतिरिति ।। आस- रामरुन्द्रीयम् . व्युत्पत्त्या तादृशासत्तिविशिष्टपदजन्योपस्थितिरित्यर्थः । यथाश्रुते अव्यवधानज्ञानस्वानपेक्षत्वादिति पूर्वमू- लविरोधाप तेरित्थंच पदद्वयोपस्थित्योरव्यवधानमेवासत्तिः । सा च स्वरूपसत्येव शाब्दवोधकारणा । नातः पूर्वमूलविरोधः । अत एवासत्तियोग्यतेति मूलकारिकायां आसत्तेः समासानन्तर्गतत्वेन निर्देशोऽपि साधु साच्छते । तस्याः स्वरूपसत्या एवं शाब्दवीधकारणत्यात् । न चैवमप्यासत्तिभ्रमाच्छाब्दबोध इत्यग्रिममूल- विरोधः आसत्तिज्ञानस्य शाब्दबोधे कारणत्वादिति मन्तव्यम् । आसत्तिनमादित्यस्य भ्रमनिर्वाहासत्तरि- त्यर्थकत्वादु का सत्तेः तात्पर्यनिश्चयघटितत्वेन नीलघट पदार्थयोरन्वये वक्तः तात्पर्यविरहेण तात्पर्यभ्रमेणैव तत्रासत्तेनिर्वाह्यत्वादिति ध्येयम् ॥ भ्रमादिति । भ्रमनिर्गह्मासत्तिरियर्थः । ययोः पदयोः परस्परान्वय. घोषजनकत्वेन वक्तुस्तात्पर्य विषयत्वनिश्चयस्तयोरव्यवधानस्यैव आसत्तितया तादृशतात्पर्यविषयकनिश्चय- स्य श्रमरूपत्वादित्यवधेयम् । एवशासत्तिभ्रमाच्छाब्दभ्रमामावेऽपीत्यग्रिममूलेऽपि भ्रमप्रयोज्यासत्तेः शाब्दभ्र- माभावेऽपीत्यर्थो वर्णनीयः। नातः पूर्वोक्तमूलप्रन्थसन्दर्भविरोधः ॥ प्रमात्मक इति । प्रमया आत्मा स्वरूपं य.