पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ६२३ तत्रोत्तरपदस्मरणेन पूर्वपदस्मरणस्य नाशादव्यवधानेन तत्तत्पदस्मरणाभाव इति चेन्न । प्र. त्येकपदानुभवजन्यसंस्कारैश्चरमं तावत्पदविषयकस्मरणस्याव्यवधानेनोत्पत्तः । नानासन्नि- करेकप्रत्यक्षस्येव नानासंस्कारैरेकस्मरणोत्पत्तेरपि सम्भवात् । तावत्पदसंस्कारसहितचरमव- प्रभा. यावत् ॥ इत्याद्युक्तमिति ॥ इत्याद्यने कविशेषणवाचकपद्घटितवाक्यं प्रयुक्तमित्यर्थः ॥ तत्रेति ॥ तादृश- शाब्दबोधान्यवहितप्राक्क्षण इत्यर्थः । एतस्य तत्तत्पदस्मरणाभाव इत्यनेनान्वयः ।। उत्तरपदस्मरणेनेति ॥ इनिप्रत्ययान्तकुण्डलपदस्मरणेनेत्यर्थः ॥ पूर्वपदेति ॥ मतुवन्तच्छत्रपदस्मरणस्थेत्यर्थः ॥ नाशादिति ।। योग्यविभुविशेषगुणानां खोत्तरवृत्तिगुणनाश्यत्वनियमादिति भावः ॥ अव्यवधानेनेति ॥ निरुक्तासत्तिम- त्वप्रकारेणेत्यर्थः ॥ तत्तत्पदस्मरणाभाव इति ॥ न तस्य हेतुत्वसंभव इति शेषः । निरुक्तासत्तिमत्पद- विषयकज्ञानं न तिष्ठतीत्यर्थः ॥ प्रत्येकपदानुभवजन्येति ॥ तत्तत्पदविषयकमलेकपदानुभवजन्यतत्त- त्पदाविषयक प्रत्येक संस्काररित्यर्थः । चरममिमि । प्रत्येक संस्कारविषयसर्वपदानां उद्बोधकसमवधानानन्त- रमित्यर्थः ॥ तावद्विषयकेति ॥ उद्बुद्धसंस्कारविषयीभूतानि यावन्ति पदानि तावत्पदविषयकैकस्मरण- स्येत्यर्थः ॥ अव्यवधाननोत्पत्तरिति । न तस्य हेतुत्वानुपपत्तिरिति शेषः । एकक्षणावच्छेदेन उत्पत्ती बाधकाभावादित्यर्थः । नानासंस्कारैः तत्तत्संस्कारविषययावद्विषय कैकस्मरणोत्पत्तिं दृष्टान्तमुखेन इढयति ।। नानासन्निकरिति ॥ इच्छाबिशिष्टानुमितिसामग्यभावविशिष्टनानासनिकरित्यर्थः । अन्यथा घटत्वा- धनुमित्तिर्जा यतामिति इच्छाविशिष्टघटत्वादिव्याप्यतब्यक्तित्ववान यांमतिपरामर्शकाले घटादिचक्षुस्सं योगस- स्वेऽपि घटत्वादिप्रत्यक्षानुदयादसात्यापत्तेः ॥ एकप्रत्यक्षस्येवेति । घटत्वादिप्रकारेण प्रत्यक्षं प्रति घ. टचक्षुस्संयोगस्य पटत्वादिप्रकारकप्रत्यक्षं प्रति पटचक्षुसंयोगत्त्य च हेतुनया एकैकसन्निकर्षसत्त्वे एकैकप्र- त्यक्षोत्पत्तेः युगपदनेकसग्निकर्षसत्त्वे घटत्वादिप्रकारेण घटपटाद्यनेकविषयकैकप्रत्यक्षोत्पतेरिरेत्यर्थः । नानासं. स्कारैरिति ॥ तत्तत्पदविषयकानेकसंस्काररित्यर्थः । एकस्मरणोत्पत्तरपीति ॥ तावत्पदविषयकैक- स्मरणोत्पत्तेरपीत्यर्थः । अपिशब्दादेकैकपदसंस्कारजन्य कैकपदस्मरणोत्पत्तेसमुच्चयः ॥ संभवादिति ॥ अबाधितत्वादित्यर्थः । ननु एकद! तावत्पदोदोधक सत्त्वे मानाभावेन नानासंस्काराणामनु हुद्धत्वात् कथं नाना- पदविषयकैकस्मरणमत आह ॥ तावत्पदेति ॥ संस्कारसहितेति ॥ समवायघटितसामानाधिकरण्यसं. दिनकरीयम्. पदोपस्थितिः शाब्दबोधे कारणमित्ययुक्तम् । अनेकपदघटितवाक्यस्थलेऽव्यवधानेन पदोपस्थित्यसम्भवादि- त्याशङ्कते ॥ नन्विति ।। अव्यवधानेनोत्पत्तरिति ॥ अभेदेऽप्य व्यवधानसम्भवादिति भावः । ननु त द्विशेध्यकतत्प्रकारकस्मृति प्रति तद्विशेष्यकतत्प्रकारकसंस्कारत्वेन जनकत्वात् कथं प्रत्येकपदसंस्कारै नापद. विशेष्यकस्मरणं भिन्नविषयकवादत आह ॥ नानासन्निकरिति ॥ सम्भवादिति ॥ तथाच यथा रामरुद्रीयम् . तत्सम्भवादिति ॥ पदद्वयजन्योपस्थितिरूपयोव्यवहितत्वे याब्दवोधाव्यवहितप्राक्क्षणे एकोपस्थि. तिव्यक्तिनाशस्यावश्यकतया उपस्थितिरूपायाः शाब्दबोधात् प्रागासत्त्या एव दुर्घटत्वादिति भावः । आहु- रित्यनेन नव्यमतेऽत्वरसः सूचितः । तद्वाजं तु एवं सति पदजन्यपदार्थोपस्थितेः कारणत्व एव पर्यवसा. नादासत्तेः शाब्दबोधकारणतायास्सर्वसिद्धाया विलयप्रसङ्ग इति । न च मौनिश्लोकादी पदाभावात् कथ- मासत्तिरिति वाच्यम् । पदाभावेऽप्यानुमानिकपदज्ञानस्यावश्यकत्वात् । अन्यथा पदज्ञानरूपकारणाभावेन मौनिश्लोकादी शारदबोधस्यैवानुपपत्तेः । एवञ्च ययोः पदयोरन्वयबोधजनकत्वे मौनिनस्तात्पर्यमुपगम्यते तयोरव्यवधानेनानुमानिकज्ञानं वर्तत एवेति न प्रन्थकृन्मते शाब्दबोधानुपपत्तिरिति विभावनीयम् ॥ अभेद इति ॥ तत्तत्पदस्मरणव्यक्तीनां परस्परं अभेद इत्यर्थः । तथा च तत्तत्पदविषयकसमूहालम्बनमेकमेव स्मरणं भवति । तत्र समूहालम्बनपदार्थस्मृतेस्तत्तच्छाब्दबोध इति भावः ॥ तद्विशेष्यकेत्यादि ॥ तत्तद्विशेष्यका