पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। प्रभा. त् । एवं शत्रवे वञ्चकायेत्यादावपि कुधासूयार्थानां यं प्रति कोपः इति सूत्रेण क्रोधाद्यर्थकधातूनां च योगे सति यं प्रति कोपः स सम्प्रदानसंज्ञस्स्यादित्यर्थकेग चतुर्थी वाच्या अर्थाभ्याहारपक्षे कुध्यतीत्यादिति- इन्तधातुयोगाभावेन चतुर्थी न स्यादिति भावः । उपसंहरति ॥ पदाध्याहार इति । तस्मादित्यादिः चतुर्थ्य- नुपपत्तिरूपदोषादित्यर्थः पदाध्याहारपक्ष एवावश्यं स्वीकार्य इत्यर्थः । अत्र मीमांसकैकदेशिमते उक्तस्थले चतु. य॑नुपपत्त्या अर्थाध्याहारासंभवेन पदाध्याहारस्यावश्यकतया सर्वत्र पदजन्यपदार्थोपस्थितेरेव हेतुत्वमावश्यकम्। नचैवं तादृशपदार्थोपस्थितित्वेन हेतुत्वे मानाभाव इति वाच्यं प्रत्यक्षादिना उपस्थितघटादरपि शाब्दयोधापत्तेः। नचेष्टापत्तिः अश्रुतपदस्य पुंसः चक्षुसंयोगादिना घटप्रत्यक्षाद्यनन्तरं जायमानघटादिविषयकालौकिकप्रत्य- क्षस्यापि शाब्दत्वापत्तेः शाब्दकारणपदार्थोपस्थितिसत्त्वात् । नच शाब्दबोधे पदज्ञानस्यापि हेतुत्वस्वीकारादु- कप्रत्यक्षस्यापि पदज्ञानजन्यत्वाभावान्न तदापत्तिरिति वाच्यम पदज्ञानस्य साक्षाद्धतुत्वे घटादिपदानां घटादौ अगृहीतशक्तिकस्यापि घटादिपदज्ञानावटादिविषयकशाब्दबोधापत्तेः अर्थस्मृतिद्वारा हेतुत्वेतु वृत्तिज्ञानसहकृतघ- टपदज्ञानजन्यघटोपस्थितितः घटशाब्दस्येव पटशाब्दस्याप्यापत्तिवारणाय तदर्थविषयकशाब्दं प्रति तादृशपद- ज्ञानजन्य तदर्थोपस्थितित्वेनैव हेतुन्वमावश्यकम्। एवंच प्रत्यक्षा देना घट सुपस्थितेः कार्यतावच्छेद कानाकान्त- तया अर्थाध्याहारपक्षो नियुक्तिक एव । नच तदर्थविषयकशाब्दं प्रति साक्षात्परम्परया वा तदान्वितार्थोपस्था पककिश्चित्पदनिरूपितसाकाङ्कवादिधर्मत्रयविशिष्टपदज्ञानत्वेन किश्चित्पदनिरूपितसाकाङ्कत्वादिधर्मत्रयविशिष्टप. दविषयकवृत्तिज्ञानसहकृतपदज्ञानजन्य साक्षात्परम्परयावातदन्वितार्थविषयकज्ञानत्वेन वा हेतु चस्वीकारा. देव उक्तदोषवारणात अर्थाध्याहारपक्षो युक्त एवेति वाच्यम् । तथापि घटाकर्मत्वमानयनंकृतिरित्यादि- वाक्याद्धटकर्मकानयनानुकूलकृतिमानिति शाब्दबोधापत्तिवारणाय वृत्तिज्ञानसहकृतद्वितीयान्तघटप दज्ञानज- न्यघटोपस्थितित्वेन तादृशलोडन्तापुर्वकनीचातुपदज्ञानजन्यानयनोपस्थितित्वेन वा हेतुतेत्यत्र विनिगमना. भावेन उभयरूपेण हेतुत्वस्यावश्यकत्वाद्गौरवं दुर्वारम् । किंच तादृशशाब्दं प्रति निरुक्तघटपदज्ञानजन्यघटो- पस्थितित्वेन हेतुत्वे घटाकर्मत्वमानयेति वाक्यात् तव मते तादृशशाब्दबोधापत्तिः । वृत्तिज्ञानसहकृत. लोडन्तापूर्वकनीधातुपदज्ञानजन्यानयमोपस्थितित्वेन हेतुत्वे घटमानयनंकृतिरिति वाक्यात निरुक्तशाब्दवो- धापत्तिः तादशज्ञानद्वयान्यतरत्वेन हेतुत्वे उक्तदोषाभावेऽपि निरूतद्वितीयान्स घटपदज्ञानजन्यकर्मत्वोप. स्थितिनिरुक्तलोट्पदज्ञानजन्यकृत्युपस्थित्योरन्यतरत्वेन हेतुत्वमादाय विनिगमनाविरहेण तेन तेन रूपेण द्वयो- हेतुत्वापत्त्या एकधर्मावच्छिन्नं प्रति कार्यकारणभावद्वयापत्तिः । यदिच स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वसंबन्धन निरुक्तघटपदज्ञानजन्य घटोपस्थितिविशिष्टनिरुक्तशाब्दं प्रति तादृशघटपदजन्य घटोपस्थित्यम्पादज्ञानजन्य. कर्मत्वोपस्थित्यन्यतरत्वेन हेतुत्वमङ्गीकृत्य एकधर्मावच्छिन्नं प्रति विनिगमनाविरहप्रयुककार्यकारणभावद्वया. पत्तिर्वार्यते । तुल्ययुक्त्या स्वाव्यवहितोसरक्षणोत्पत्तिकत्वसंबन्धेन निरुकाड्पूर्वकनीचातुपदज्ञानजन्यानय- नोपस्थितिविशिष्टनिरुक्तशाब्दं प्रत्यपि तादृशाङपूर्वकनीचातुपदज्ञानजन्योपस्थितितादृशलोट्पदज्ञानजन्य- कृत्युपस्थित्योरन्यतरस्वेन हेतुत्वस्य वक्तव्यतया एककार्यनिष्ठकार्यतावच्छेदकधर्मद्वयमादाय विनिगमनाविर- हप्रयुक्तकार्यकारणभावद्वयापत्तेः दुरित्वात् । तस्मादेतन्मते विनिगमनाविरहप्रयुक्त कार्यकारणभावद्वयापत्तिः कारणस्य कार्यतावच्छेदककोटिप्रवेशः प्रत्यक्षादिना जायमानपदार्थोपस्थितेः शाब्दबोध कारणत्वकल्पनं चेत्यति- गौरवम् । नैयायिकमते एकधर्मावच्छिन्नं प्रति विनिगमनाविरहेण द्वयोर्हेतुत्वाप्रसक्त्या एकशाब्दबोधे कार्यता- वच्छेदकद्वय!ङ्गीकारप्रयुक्त कार्यकारणभावद्वयाप्रसक्त्या कारणस्य कार्यतावच्छेदककोटिप्रवेशाप्रसक्त्या प्रत्यक्षा. दिना जायमानघटायुपस्थितेः शाब्दबोधहेतुत्वकल्पनाप्रसक्त्या चातिलाघवमित्येव सारमिति प्रतिभाति । केचित्तु अत्रेदं चिन्त्यं अस्त्वेवरीत्या क्वचित्पदाध्याहारः तावतापि तजन्योपस्थितित्वेन न शाब्दयोधहेतुत्वं लाघवेन पदार्थोपस्थितित्वस्यैव जनकतावच्छेदकत्वात् । तथाच द्वारभित्यादौ कथंचिदुपस्थितस्य पिधाना- देर्बोधे वाधकाभावात् अर्थाध्याहारपक्ष एव उचित इति तन्मतव्यवस्थापनमाहुः तदसत् । लाघवमात्रेण केवलपदार्थोपस्थितित्वस्य शाब्दजनकतावच्छेदकत्वस्वीकारे द्वारं पिधेहीति वाक्यमजानतः पुरुषस्यापि प्र.