पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डः पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता ॥ ८३ ।। हार आवश्यकः । योग्यतां निर्वति ॥ पदार्थ इति । एकपदार्थेऽपरपदार्थसंबन्धो योग्य- तेत्यर्थः । तज्ज्ञानाभावाच्च वह्निना सिञ्चतीत्यादौ न शाब्दबोधः । नन्वेतस्या योग्यताया ज्ञानं शाब्दयोधात्प्राक् सर्वत्र न संभवति वाक्यार्थस्यापूर्वत्वादिति चेन्न । तत्तत्पदार्थस्मरणे सति प्रभा. लक्षादिना द्वारापस्थितिमात्रेण द्वारकर्मकपिधानानुकुलकृतिमानिति शाब्दबोधापत्तेः । यच्चो कं तादृशमा- ब्दबोधे द्वारपदोत्तराम्पदज्ञानस्य अपिपूर्वकलोडन्तपदज्ञानस्य वा हेतुत्वस्वीकारात् द्वारं पिधेहीति वाक्यमजान तः पुरुषस्य घटःकर्मत्वमानयनंकृतिरितिवाक्यमजानतः पुरुषस्य वा प्रत्यक्षादिना तत्तदर्थोपास्थितिवला- त् न तादृशशाब्दबोधापत्तिरिति तदप्य सत् द्वारादिपदानां द्वारकर्मत्वादौ शक्तिमजानतः पुरुषस्यापि द्वार पिधेहाति वाक्यज्ञानात् प्रत्यक्षादिना द्वारायुपस्थितिसहकृतात् तादृशशाब्दबोधापत्तेर्दुवारत्वादिति सर्वं चतु. रश्रम् ॥ योग्यतामिति ।। क्रमप्राप्तां योग्यतामित्यर्थः । निर्वतीति | निरूपायीत्यर्थः । पदार्थे तत्र तद्वत्तेति मूलेन स्वस्मिन् स्वाधिकरणत्वं योग्यतेति लभ्यते तच्चाप्रसिद्ध तज्ज्ञानं प्रकृतानुपयुक्त श्चेति अत्तस्त- दर्थ माह ॥ एकपदार्थति ॥ प्रकृतवाक्यघटकैकपदार्थ इत्यर्थः ॥ अपरपदार्थसंबन्ध इति ॥ प्रकृतवाक्य- घटकापरपदार्थस्य प्रयोक्तृतात्पर्यविषयसंवन्ध इत्यर्थः । निरुतयोग्यताज्ञानस्य हेतुत्वानीकारे बाधकमाह ।। तज्ज्ञानाभावाचेति ॥ वह्निना सिञ्चतीत्यादाविति ॥ तृतीयान्तवाह्निपदतिङन्तसिधातुभ्यामिति शेषः । सप्तम्यर्थी घटकरवं तस्याध्याइतपदद्वयेऽन्वयः । मिच्चातुभ्यामित्यत्र पञ्चम्यर्थः प्रयोज्यत्त्वं तस्य शाब्दबोधे अन्वयः ॥ न शाब्दोध इति ॥ न तात्पर्यविषयशाब्दबोध इत्यर्थः । तथाच निरुतयोग्यताज्ञा. नस्य हेतुत्वानीकारे वह्निना सिञ्चतीति वाक्यज्ञानात् वहिकरणकरोकानुकूलकृतिमानिति शाब्दबोधापत्तिः योग्यताज्ञानातिरिक्तसकलशाब्दसामग्रीसत्त्वादिति भावः एतस्या इति ॥ तत्तद्वाक्यघटकैकपदार्थीया- परपदार्थनिष्ठतात्पर्यविषयसंसर्गरूपाया इत्यर्थः ॥ शाब्दबोधात्प्रागिति ॥ तत्तच्छाब्दबोधाव्यवहितप्राका. लाबच्छेदेनेत्यर्थः । सर्वत्रेति । प्रकृतवाक्यजन्यशाब्दबोधाधिकरणेषु यावत्सु इत्यर्थः । न संभवतीति ॥ नोत्पत्तुमईतीत्यर्थः । तथाच एकस्मिन् निरुत्ताधिकरणे प्रत्यक्षादिरूपनिरु कयोग्यताप्राहकसामग्रीवशात ताश- शाब्दबोधात्पूर्व तादृशयोग्यतःज्ञानसंभवेऽपि यत्र न तादृशसामग्री तत्र शाब्दबोधात्पूर्व निरुक्तयोग्यताज्ञानाभा. वेन व्यतिरेकव्याभिचारात् तत्तद्वाक्यजन्यतत्तच्छाब्दबोधं प्रति निरुतयोग्यताज्ञानस्य हेतुत्वं न संभवतीति भा- वः । ननु तत्तद्वाक्यजन्याभिमतशाब्दयोधात पूर्व तत्तदधिकरणेषु प्रत्यक्षादिना निरुतयोग्यताज्ञानोत्पत्त्यनन्तर- मेवाभिमतशाब्दबोधः स्वीक्रियते कारणाभावे कार्यानुदयादित्याशङ्का बाधकप्रदर्शनेन परिहरति ॥वाक्या- दिनकरीयम्. तावच्छेदकत्वात् । तथाच द्वारामित्यादौ कथञ्चिदुपस्थितस्य पिंधानादेर्योधे वाधकाभावादा पाहारपक्ष ए. वोचित इति । मूले पदार्थे तत्र तद्वत्ता योग्यत्ता परिकीर्तितेत्यनेन तत्पदार्थे तत्पदार्थवत्त्वं योग्यतेत्युक्तम् । तच्चायुक्तमनुपयुक्तं च स्वम्मिन् स्वाधिकरणकत्वाभावात् तज्ज्ञानस्य शाब्दबोधे हेतुत्वाभावाचेत्यतः प्र. थमं तत्पदमेकपदार्थपरं द्वितीयं च तत्पदमपरपदार्थपरमित्यभिप्रायेण व्याचष्टे ॥ एकपदार्थ इति ॥ योग्यताज्ञानस्य शाब्दबोधहेतुत्वे मानमाह ॥ तज्ज्ञानाभावाञ्चेति ॥ अपूर्वत्वादिति ॥ सर्वत्र शाब्द- रामरुद्रीयम्. ति ॥ लाघवेन शाब्दबोधमानं प्रत्येब पदार्थोपस्थितित्वेनैव हेतुत्वावधारणात् । तथाच द्वारमित्यादौ पिधेहीत्यादिशब्दाध्याहारो नावश्यक इति भावः । इदमत्र चिन्त्यम् पिधान कुर्विति शब्दप्रयोगे द्वारमिति द्वितीयापि न साधुः । कर्तृकर्मणोः कृतीत्यनेन षष्ट्या द्वितीयावाधनात् । तथा च पुष्पेभ्य इत्यादा. विव द्वारमित्यत्रापि द्वितीयासाधुत्वोपपत्तये पिधेहीति पदाध्याहार आवश्यक एवेति ॥ तच्चायुक्तमिति ॥ अयुकत्वमेवोपपादयति ॥ स्वस्मिन्निति ॥ अनुपयुक्तत्वमुपपादयति ॥ तज्ज्ञानस्येति ॥ ननु वाक्यार्थज्ञा-