पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । मिति वाच्यं सर्गादाबध्यापकाभावात् । नच प्रलय एव नास्ति कुतः सर्गादिरिति वाच्य- म् । प्रलयस्यागमेषु प्रतिपाद्यत्वात् । इत्थं च शुकवाक्येऽपीश्वरीयतात्पर्यज्ञानं कारणम् । विसंवादिशुकवाक्ये तु शिक्षयितुरेव तात्पर्यशानं कारणं वाच्यम् । अन्ये तु नानार्थादौ प्रभा. ते ॥ नचेति ॥ तत्रेति ॥ वेदवाक्याधीनशाब्दबोध इत्यर्थः ॥ सर्गादाविति ॥ सर्गस्यादिरिति व्युत्प. त्या सृष्टथव्यवहितप्राक्क्षणे जन्यद्रव्यसामान्याभावादिति भावः ॥ प्रळय एव नास्तीति ॥ कार्यद्रव्यानाधिक- रणकाल एवाप्रामाणिक इत्यर्थः ॥ कुतः सर्गादिरिति ॥ तादृशसृष्टयव्यवहितप्राक्क्षणसुतरामप्रामाणिक इत्यर्थः । सादृशक्षणविशेषसिद्धेः प्रळयसिद्धयधीनत्वादिति भावः ॥ प्रळयस्येति ॥ निरुतकालविशेषस्येत्य- थः ॥ आगमप्रतिपाद्यत्वादिति ॥ धाता यथापूर्वमकल्पयन्नाहो न रात्रिन नभो न भूमि सीत्तमो ज्योतिरभून चान्यदिखाद्यागमप्रतिपाद्यत्वादित्यर्थः । सर्गीय प्राथमिकपुरुषसमवेतवेदवाक्याधीनशाब्दबोधं प्रति तात्पर्यज्ञानस्य हेतुत्वावश्यकतया सर्गाव्यवहितप्राक्क्षणे पुरुषान्तराप्रसक्तया तादृशशाब्दतात्पर्यज्ञानविष. यतात्पर्याश्रयतया ईश्वरसिद्धिर्निराबाधेति भावः। वेदवाक्याधीनशाब्दकारणज्ञानविषयत्तात्पर्याश्रयतया ईश्वर- सिद्धिमाह ॥ इत्थश्चेति ॥शाब्दसामान्य प्रति तात्पर्यज्ञानत्वेन हेतुत्वसिद्धौ चेत्यर्थः ॥ शुकवाक्येऽपीति ॥ दिनकरीयम् . स्य कार्यद्रव्यानधिकरणकार्याधिकरणकालविशेषात्मकखण्डप्रलयस्य ॥ आगमेष्विति ॥ नाहो न रात्रिन नभो न भूमि सीतमो ज्योतिरभुन चान्यदित्याद्यागजित्यर्थः । शुक्रवाक्येऽपि ॥ संचादिशुकवाक्यजन्य- बोधेऽपि ॥ शिक्षयितुरेवेति ।। ईश्वरच्छाया विसंवादित्वाभावादिति भावः ॥ अन्ये त्विति ॥ कचि. दित्यस्य विवरणं ॥ नानार्थादाविति । गृहीतनानार्थवृत्तिकादावित्यर्थः। तेन गृहीतनानाथशक्तिकस्य गृहीत. रामरुद्रीयम् . भावः ॥ अध्यापकाभावादिति ॥ ईश्वरातिरिकाध्यापकाभावादित्यर्थः । तेनाध्यापकाभावे वेदात्मक- वाक्यज्ञानाभावेन शाब्दबोधस्यैवासम्भवेऽपि न क्षतिः । मूले महाप्रलयस्यागमप्रतिपाद्यत्वमुक्तम् । तचायु. तम् । महाप्रलयस्यागमेनाप्रतिपादितत्वात् । धाता यथापूर्वमकल्पयदित्यादिना आगमेन खण्डप्रलयस्यैव सूक्त त्वात् । अत एव महाप्रलये विवादोऽपि सङ्गच्छते आगमप्रतिपादितत्वे विवादासंभवादित्यतः प्रलयप- दस्य खण्डप्रलयपरतामाह ॥कार्यद्रव्येति । कार्याधिकरणेति ॥ अदृष्टादिरूपकार्याधिकरणेत्यर्थः । यद्यपि लाधवाव्याधिकरणत्वमेव वक्तुमुचितं तथापि प्रलये नित्यद्व्यत्तितायां प्रमाणान्तरविरहेण तथा नोकम् । न च नित्यद्रव्याणां सदातनत्वरूपनित्यत्वानुपपत्तिरेव तत्र मानमिति वाच्यम् । ध्वंसप्रागभावाप्रतियोगित्वस्यैव नित्य - तारूपत्वात् । अदृष्टस्य तु प्रलयवृत्तित्वं उत्तरसर्गानुपपत्त्या सिद्धमिति भावः। आगमे नभश्शब्दार्थोऽन्तरिक्षादि- लोक एव नभसो नित्यत्वात् । तम शब्दार्थोऽपि परिच्छिन्नतम एव । तेजोऽभावरूपतमसो नित्यत्वात् । इ. स्थञ्च शुकवाक्येऽपि ईश्वरीयतात्पर्यज्ञानं कारणामिति मूलमसम तम् । वाक्ये तात्पर्यज्ञानस्याहेतुत्वादित्यत. स्तदर्थमाह ॥ संवादीति ॥ प्रमाजनकेत्यर्थः । इदश्च वह्निना सिञ्चतीति शुकवाक्यजन्यशाब्दबोधे ई. श्वरीयतात्पर्यज्ञानं न हेतुः ईश्वरस्य विसंवादीच्छापत्तरित्यत्तस्तादृशवाक्यव्युदासार्थमुक्तम् । नच वक्तरिक च्छायास्तात्पर्यरूपत्वेन ईश्वरस्य शुकवाक्यवक्तृत्वाभावेन कथं ईश्वरेच्छायास्तात्पर्यरूपतति वाच्यम् । वा. क्यानुकूलप्रयत्नवत एव वक्तृत्वेन ईश्वरप्रयत्नस्य कार्य मात्रानुकूलत्वेन शुकवाक्यानुकूलत्वादिति भावः । शुकीयतात्पर्याभावेन अगत्या ईश्वरस्यैव वक्तृत्व स्वीकारादिति मन्तव्यम् । एवं शिक्षयितुः प्रयत्नस्य पर. म्परया शुकवाक्यानुकूलत्वेन शिक्षयितुरिच्छाया अपि तात्पर्यरूपता बोध्या । सर्वत्र नानार्थस्थले तात्पर्यज्ञा- नस्य हेतुत्वोपगमात् क्वचिदिस्यसङ्गतामत्यभिप्रायेणैव क्वचिदित्यस्यैव विवरण नानार्थादावितीत्याह ॥ कचि. दिति ॥ ननु नानार्थत्वं यदि नानार्थशक्तत्वं तदा नानार्थलाक्षणिकस्थले कदाचित्कस्यचिदर्थस्य बोधतात्पर्यनि- यमो न स्यात् । अतो नानार्थगृहीतवृत्तिकत्वमेव नानार्थत्वमित्याह ॥ गृहीतेति ॥ गृहीतपदंतु नानार्थ.