पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय रामरुद्रीयसमन्विता । ६४७ मीमांसापरिशोधिततकरर्थावधारणमित्याहुः ॥ ८४ इति श्रीविश्वनाथपञ्चाननमट्टाचार्यविरचितायां सिद्धान्तमुक्तावल्यां शब्दखण्डं समाप्तम् ।। प्रभा. त्यर्थः । तथाच शाब्दसामान्ये तात्पर्यज्ञानस्य हेतुत्वे मानाभावेन संवादिशुकवाक्याधीनशाब्दबोधे तात्पर्य- ज्ञानस्य हेतुत्वाप्रसक्त्या तादृशज्ञानविषयतात्पर्याश्रयतया ईश्वरकल्पनभयुक्तमिति भावः । अत्र नानार्थकपद. घटितवाक्याधीनशाब्दसामान्येऽपि तात्पर्यज्ञानस्य हेतुत्वं न संभवति शुकस्य तदर्थप्रतीतीच्छाभावेन शुकोदी- रिततादृशवाश्याधीनशाब्दयोधे व्यभिचारात् । नचेश्वरीयतादृशेच्छयोश्चरितत्वरूपतात्पर्यप्रकारकशुकवाक्यवि- शेष्यकज्ञानस्य हेतुत्वे बाधकामावान व्यभिचार इति वाच्यम् । शुकवाक्यस्य ईश्वरेणानुचरितत्वादीश्वरीयतद- धप्रतीतीच्छाया व्यधिकरणत्वेन वाक्यानुकूलशुकनिष्ठकृतौ कारणत्वासंभवादीश्वरीयतदर्थप्रतीतीच्छाजन्यक- तिजन्य कण्ठताल्वाद्यभिधातजन्यस्वरूपतात्पर्य स्यापि शुकवाक्ये असिद्धत्वात् ईश्वरेच्छायाः कार्यमात्रकारण- स्वेन शुकसमवेतकृतेरीश्वरेच्छाजन्यत्वोपपादने च तत्र तादृशज्ञानजन्यत्वोपपादने व तत्र तादृशेच्छाजन्य- स्वनिवेशनस्य व्यर्थतया तद्धटितोचरितत्वज्ञानस्य शाब्दबोध हेतुत्वे मानाभावात् । अन्यथा शुकसमवेतक- ते: कालादिजन्यत्वस्यापि सत्त्वेन कालादिजन्यत्वघटितोचरितत्वस्यापि हेतुत्वापत्तेः । तस्माद्यन ता- स्पर्यज्ञानस्याहेतुत्वे बाधकमुपलभ्यते तत्रैव तात्पर्यज्ञानस्यानाय त्या हेतुत्वं न सर्वत्नोति शुकवाक्याधीनशाब्दबो- धेऽधीश्वरतात्पर्यज्ञानमप्रामाणिकमेवेति गोशोपाध्यायानां निगूढाभिप्राय इति प्रतिभाति । ननु शा- ब्दसामान्य तात्पर्य ज्ञानस्य हेतुत्वानङ्गीकारे कपिजलानालभेतेतिश्रुतिघटकबहुवचनेन नियमेन त्रि- स्वावच्छिन्नबोधो न स्यात् बहुवचनस्य त्रित्वत्वादिनानाधर्मावच्छिन्नशक्तत्वात् नानार्थकतया प्रकृते त्रित्वमा. प्रौपयिकनियामकाभावादत आह ॥ वेदे विति ।। कपिजलानालभेतेत्यादिवेदे वित्यर्थः । सप्तम्यर्थो घ. टकत्वं तस्य तर्कपदार्थेऽन्वयः अवधारणार्थकतुशब्दः तकरित्युत्तरं योज्यः ॥ अनादिमीमांसेति ॥ अ- नादीनां गौतमादीनां महर्षीणां मीमांसाः अबाधितत्वेन निर्णीताः तर्काः लाघवविपक्षेबाधकागृहीतत्वादिरू- पाः तैस्सह कृतपदैरेवेत्यर्थः ॥ अवधारणमिति !! उक्तश्रुतिघटकबहुवचनानिय मेन त्रित्वावच्छिन्नविषय. कशाब्दबोध इत्यर्थः । तथाच ब्रीहीनवहन्तीति श्रुति घटकबहुवचनस्य त्रित्वार्थकत्रीहिन याणमेवावहननप्रा. प्या तावन्मात्रस्य पुरोडाशचसाधकत्वाभावेन यागानुपयुक्तत्वरूपबाधक सत्त्वाला घवस्याकिञ्चित्करत्वेन त्रित्वा- पकत्वासंभवात् पुरोडाशाापयोगिनो यावन्तो नीहयः तावन्मात्रवृत्ति सङ्ख्यार्थकत्वेऽपि कपिजलपदोत्तरबहुवच. दिनकरीयम् . नानार्थलक्षणाकस्य गृहीतविभिन्नार्थशक्तिलक्षणाकस्य च सङ्गहः । आदिना एकार्थगृहीतलक्षणाकस्य सङ्ग हः । मीमांसा लाघवज्ञानात्मकस्तर्कः ॥ परिशोधितेति ॥ सहकृतेत्यर्थः । तर्कोऽनुमानम् । आहुरित्य. रामरुद्रीयम् . कहा:देपदस्यापि यदा एकस्मिन्नेवार्थे शक्तिग्रहः तदा शक्तिग्रहेणैव शाब्दबोधनियमसम्भवात् तात्पर्यज्ञा- नस्य शाब्दबोधनियामकत्वाभावादुपात्तम् । गृहीत नानार्थकलक्षणकल्पनावाधिक शक्तिलक्षणयोयोरिति भावः । विभिन्नार्थेति ॥ एकस्मिन्नर्थे गृहीतशतिकस्यान्यस्मिन्नर्थे गृहीतलक्षणाकस्येत्यर्थः । नन्वेवमादिप- दप्रामु किमित्यत आह ॥ आदिनेति ॥ नच शक्यसम्बन्धस्यैव लक्षणात्वेन लक्षणाज्ञाने शकिज्ञानमाव- श्यकमेव तथाच विभिन्नार्थगृहीतशक्तिलक्षणाकस्येत्यनेन पूर्वोतन गतार्थमिदमिति वाच्यम् । विभिन्नार्थे - व्यस्य बहुवचनान्ततया गृहीता विभिन्नार्थेषु शकिर्लक्षणा यस्येति विग्रहेण अनेकार्थेषु गृहीतशक्तिकस्य गृ. हीतलक्षणाकस्य पदस्यैव पूर्ववाक्यार्थत्वात् । मीमांसाशब्दार्थमाह ॥ लाघवज्ञानात्मकस्तर्क इति ॥ कपिजलानालभेते त्यत्र प्रथमोपस्थितिसंभवेन त्रित्वस्यैव बहुवचनार्थतानिश्चयः । ननु परिशोधितेत्यस्य सह- कृतार्थकत्वे लाघवतर्कसहकृततर्कान्तरं किमित्याकाङ्क्षायामाह ॥ तर्कोऽनुमानमिति ॥ अनुमानाकारश्च कपिलानिति बहुवचनार्थस्तित्वादिः बहुवचनवाच्यत्वादिस्येवंरूपम् । तत्र च लाघवज्ञानं खहकारि चतु. -