पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । नामप्यतिरिक्तपदार्थत्वात् । तथाहि, मण्यादिसमवहितेन वह्निना दाहो न जन्यते, तच्छ्र- न्येन तु जन्यते, तत्र मण्यादिना वह्नौ दाहानुकूला शक्ति इयत्ते, उत्तेजकेन मण्यादापसारणेन च प्रभा. सादृश्यत्वयोरित्यर्थः । अतिरिक्त पदार्थत्वादिति ॥ अतिरिक्तत्वे सति पदार्थत्वादित्यर्थः । कुप्तपदार्थ- विभाजकधर्मान्यतमभिन्नत्वे मति पदार्थविभाजकधर्मत्वादिति यावत् । ननु शक्ती प्रमाणाभावेन तनिधशक्ति- स्वस्थ पदार्थविभाजकत्वं न संभवील्याशङ्का शक्तित्वस्य शक्तिसाधनपूर्वकपदार्थविभाजकत्वव्यवस्थापनेन परि- हरति । तथाहीत्यादिना । मण्यादिसमवहितेनति ॥ मणिमन्त्रौष यादिविशिष्टेनेत्यर्थः । अत्र वह। तद्रशिष्टयञ्च नैयायिकमते येन येन संबन्धन प्रतिबन्धकत्वं तेन तेन संबन्धेन बोध्यं । तेन कालिकसंबन्ध. मादाय न दोषः । दाहः पूर्वरूपपरावृत्तिः । न जन्यत इति ॥ तथा चान्वयन्यभिचारात् दाहं प्रति यः न पह्नित्वेन कारणत्वमिति भावः । ननु वढेर कारणत्वात्तेन न दाह इत्यत आह-तच्छून्येनेति ॥ मण्यादि- वैशिष्ट्यशुन्य नेत्यर्थः । तथाच वहे: कारणत्वात् वहित्वस्य कारणतावच्छेदकत्वाच्च वही अव्यभिचरितः कश्चन कारणतावच्छेदकधर्मस्वीकार्यः सैव शक्तिरिति भावः । ननु वह्नित्वेन कारणत्व इव शक्तिमत्वेन कारणत्वेऽपि अन्वयव्यभिचारस्तदवस्थ इत्यत आह-तत्रेति ॥ उक्तयुक्त्या शक्तिमत्त्वेन बहे; कारणत्वस्वीकारे वित्य- श्रः। वह्नौ दाहानुकूला शक्तिरिति ॥ वह्निनिटदाहजनकतावच्छेदकशक्तिरित्यर्थः । नाइयत इत्यस्य कलप्यत इत्यनेनान्वयः । तथा चैतन्मते कारणीभूताभावप्रतियोगित्वं न प्रतिबन्धकत्वं, दाहं प्रति मण्यायभावानामधि हेतुत्वापत्त्या गौरवात , किन्तु कारणतावच्छेदकविघटकत्वरूपमेवेति मण्यादिसमवधान काले वलिनिष्ठतादृश- शक्तेः नाशेन कारणतावच्छेदकविशिष्टकारणाभावान दाहापत्तिरिति भावः । ननु मण्यादेः तादृशशक्तिविघट कत्वरूपप्रतिबन्धकत्वस्वीकारे उत्तेजकविशिष्टमण्यादिसत्वे दाहो न स्यात् तादृशशक्तरभावादत आह- उन्तेजकेनेति ॥ ननु मण्यादेः न मणित्वादिना शक्तिनाशकत्वं, उत्तेजकसमवधाने वह्निनिष्टशक्तः अनाशेन अन्वयव्यभिचारात् । नाऽपि उत्तेजनकाभावविशिष्टमणिवादिना, तथासति विनिगमकाभावेन नाझ्यनाशक- भावयापत्तेः । न चेठापत्तिः, तथामति दाहं प्रति मण्याद्यभावविशिष्टवाहित्वेन हेतुत्वस्वीकारणव उक्तदोष- वारणे शक्तरेवासियापत्तः । मण्यादी शक्तिनाशकतावच्छेदिकां काञ्चन शक्ति परिकल्प्य तादृशशक्तिमत्त्वेनैव तेषां वह्निनिष्टदाहजनकतावच्छेदकशक्तिनाशकत्वरूपं प्रतिबन्धकत्वं वाच्यम् । एवञ्च उतेजनकसमधानकाल मण्यादिनितादृशशक्तेः नाशस्वीकारेण नाशकतावच्छेदकविशिष्टाभावेनैव वह्नौ तादृशशक्त्युत्पत्तिसम्भवे उत्ते- जनकस्य शक्त्युत्पादकत्वे मानाभाव इत्यत आह-मण्याद्यपसारणेन चेति || मण्याद्यभावेन चेत्यर्थः । दिनकरीयम् . रिक्तत्यर्थः । अतिरिक्तपदार्थतामेव व्यवस्थापयति । तथाहीत्यादिना ॥ मण्यादीत्यादिना मन्त्रौषध्यादि- परिग्रहः । समवहितेन--समीपवर्तिना । ननु वह्निरूपकारणाभावादेव न दाह इति न मण्यादेः प्रति- बन्धकत्वमतः समवहितेन वहिनेति । दाहो रूपान्तरोत्पत्तिः पूर्वरूपपरावृत्तिवी । मण्यायतिरिक्तस्य प्रतिबन्ध कत्वं खण्डयति । तच्छ्न्येनेति ॥ मणिसमवधानशून्येनेत्यर्थः । ननु वह्नौ यदि दाहानुकूला शक्तिस्तदा मण्यादिसत्त्वे कुतो न दाह इति चेत्तत्राह । तत्रेति ॥ पूर्वोक्तयुक्त्या शक्तिसिद्धावित्यर्थः । दाहानुकूलेति॥ अत्र चानुकूलत्वं कारणतदवच्छेदकसाधारणं तेन शक्तेः कारणतावच्छेदकत्वेऽपि न क्षतिः । नाश्यत इत्यस्य रामरुद्रीयम् . प्रागभावेऽग्यनन्तभावसंभवाचेति ध्येयम् । रूपपरावृत्तिति ॥ रूपनाशो वेत्यर्थः । लाघवमेवोत्तरकल्पानुस. रणे बीजम् । ननु मूले तच्छ्न्येन तु जन्यत इत्युक्तिय॑र्था तस्याः प्रतिबन्धकत्वासाधकत्वात् अतस्तस्या मण्यतिरिक्तप्रतिबन्धकताखण्डकत्वेन सार्थकतां व्यवस्थापयति । मण्याद्यतिरिक्तति ॥ गगना- दीनां प्रतिबन्धकत्वमित्यर्थः । तथा च गगनादीनां प्रतिवन्धकत्वे मणिशुन्य दशायामपि वहिना दाहो न स्यात्प्रतिबन्धकसत्त्वादतो मण्यादेरेव प्रतिबन्धकता वाच्येति मूलाभिप्राय इति भावः । पूर्वोक्तयुक्त्येति ॥ मण्यादिसमवधाने सतीत्यादिना स्वेन पूर्वमुक्तयुक्त्येत्यर्थः । कारणतावच्छेदकत्वेऽपीति ।। वह्नित्वेन वढे 1