पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४८ कारिकावली [शब्दखण्डः -- प्रभा. नस्य लित्वार्थकत्वे बाधकाभावेन बाध काभावविशिष्टलाधवसत्त्वात्तज्ञानसहकृततत्पदज्ञानजन्यकपिछलत्रित्वा. युपस्थितिनियामकैरेव तित्वविषयकशाब्दबोधनिर्चाहे तत्रापि तात्पर्यज्ञानस्य हेतुत्वमप्रामाणिकमेवेति भावः । अत्र यादृशशाब्दबोधस्तात्पर्यज्ञानं विना नोत्पत्तुमर्हति तच्छाब्दव्यक्ति प्रति तत्तत्तात्पर्य व्यक्तर्विशिष्य कारणत्वस्य वक्तव्यतया गौरवम् । तन्मते ईदृशदोषं हृदि निधायाहुरित्युक्तमिति ध्येयम् । केचितु आहुरि- त्यस्वरसोद्भावनं तदीजन्तु गृहीतनानावृत्तिकपदज्ञानजन्यानुभवत्वापेक्षया लाघवेन पदजन्यानुभवत्व- स्यैव तात्पर्यजन्यतावच्छेदकत्वमुचितमित्यन्यत्रानुसन्धेय मित्याहुः त दसत् तत्तच्छाब्दव्यर्फि प्रति तत्तत्ता- स्पर्यज्ञानव्यक्तः कारणत्वस्यैव विशिष्य तन्मतसिद्धतया गृहीतनानावृत्तिकपदज्ञानजन्यशाब्दत्वस्य कार्यता- वच्छेदकत्वे सैन्धवः प्रमेयमित्यादौ दोषस्यैवोपस्थितत्वेन तादृशधर्मविष्ठकार्यतावच्छेदकत्वस्य तन्मतसि. द्धत्वभ्रमप्रयुकतादृशगौरवप्रदर्शनस्यायुक्तत्वात् पदज्ञानजन्यत्वस्याव्यावर्तकतया व्यर्थत्वेन केवलशाब्दत्व एव:- तात्पर्य ज्ञानजन्यतावच्छेदकत्वस्य प्राचामनुमतत्वात् पदज्ञानजन्यानुभवत्वनिष्टतात्पर्यज्ञानजन्यतावच्छेदकत्व - स्य तदनुगुणेशलाघवप्रदानस्यायुक्तत्वादिति दिक् ॥ इति मुक्तावलीप्रभाय शब्दपरिच्छेदः ॥ दिनकरीयम् . स्वरसोद्धावनम् । तद्वीजं तु गृहीत नानार्थवृत्तिकप दजन्यानुभवत्वापेक्षया लाघवेन पदजन्यानुभवत्वस्यैव तात्पर्यज्ञानजन्यतावच्छेदकत्वमुचितमित्यन्यत्राधिकमनुसन्धेयम् ॥ इति शाब्दपरिच्छेदः समाप्तः ॥ रामरुद्रीयम् . ष्ट्रवादीनामपि बहुवचनवाच्यत्वादिति । एवश्व वेदस्थले तात्पर्य ज्ञानेनार्थनिर्णय इति ।। अत्राधिकमिति ॥ . तात्पर्य संशयादिश्थले शाब्दबोधानुभवादपि शाब्दबोधमाने तात्पर्यज्ञानस्य हेतुत्वादिशिरवः ।। इति श्रीरामदभट्टाचार्यविरचिताया मुकावलीविवरणदिनकरीयव्याख्यायां शब्दताः समाप्तः । 14 .. 1. .