पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीयसमन्विता । ६४९ पूर्वमनुभवस्मरणभेदागुद्धेद्वैविध्य मुक्तं तत्रानुभवप्रकारा दर्शिताः स्मरणं तु सुगमतया न दार्शतं तत्र हि पूर्वानुभवः कारणम् । क्षेत्र केचित् अनुभवत्वेन न कारणत्वं किन्तु ज्ञान- त्वेनैव अन्यथा स्मरणोत्तरं स्मरणं न स्यात् समानप्रकारकम्मरणेन पूर्वसंस्कारस्य विनष्ट- त्वात् । मन्मते तु तेनैव स्मरणेन संस्कारान्तरद्वारा स्मरणान्तरं जन्यत इत्याहुस्तन्न । यत्र स- मूहालम्बनोत्तरं घटपटादीनां क्रमेण स्मरणमजनिष्ट सकलविषयकम्मरणं तु नाभूत तत्र फ- लस्य संस्कारनाशकत्वाभावात् कालस्य रोगस्य वा चरमफलस्य का संस्कारनाशकत्वं वाच्यं त- थाच न ऋमिकस्मरणानुपपत्तिः। नच पुनः पुनः स्मरणात् दृढतरसंस्कारानुपपत्तिरिति वाच्यं झटित्यवोधकसमवधानस्य दाढयपदार्थत्वात् । नच विनिगमलावि हादेव ज्ञानत्वेनापि जन- कत्वं स्यादिति वाच्यं विशेषधर्मेण व्यभिचारानाने सामान्यधर्मेणान्यथासिद्धत्वात् । कथमन्य- था दण्डस्य भ्रमिद्वारा द्रव्यत्वेन रूपेण न कारणत्यम् । नचान्रालि कस्मशानां संस्कारना- शकत्यसंशया द्वयभिचारसंशय इति वाच्यं अनन्त संस्कारत नाशकल्पनापेक्ष वा चरमस्मरणस्यैव लाघवात् संस्कारनाशकत्वकल्पनेन व्याभिचारसंशयःभावात् ।। इति स्मृतिप्रक्रिया ॥ इदानीं साक्षात्कारे सुखादीनां करणं मन उच्यते । अयोगपद्यात् ज्ञानानां तस्याणुत्वमिहोच्यते ॥ ८ ॥ दिनकरीयम्. सुगमतयेति ॥ सुगमस्य स्वयमप्यूहितुं शक्यतया दुरूह एनादौ युधियां जिज्ञासोदयादिति भा- वः । तथा चाबसरसङ्गलानुभवानन्तरं स्मरणनिरूपणमिति भावः ॥ तत्र हि स्मरणे हि ॥ स्मरणं न स्यादिति ॥ अनुभवस्य नष्टत्वादिति भावः । ननु अनुभवस्य व्यासारद्वारा कारणत्वं तच्च कार्याव्यवहित- पूर्वक्षावृत्तिस्वस्वब्यापारान्यतरकत्वं तच्चानुभवनःशेऽपि तज्जन्य संस्कारस्य सत्त्वानिराबाधमत आहे ॥ स. मानप्रकारकेति ॥ नटत्वादिति ॥ तथा च तादृशमपि कारणत्वम मुभवे न सम्भवतीति भावः ॥ ते- नैव संस्कारनाशकेन समान प्रकार कस्मरणेनैव ॥ संस्कारान्तरद्वारेति । म्मरणस्य तृतीयक्षणे नाशेन स्वरूपतो हेतुत्वा सम्भवादिति भावः ॥ फलस्य प्रत्येक विषयकक्रमिकस्मरणरूपरंय ॥ संस्कारनाशक- स्वाभावादिति में समान प्रकारकत्वाभावादिति भावः ॥ कालस्य रोगस्य वेति ॥ अन्यथा उक्तस- मूहालम्बन संस्कारस्यानाशनसङ्गादिति भावः । नचेष्टा पत्तिः जन्यभावनेन दिनाशिव नियमात् । ननु का- लादेः कालत्वादिना नाश करवे संस्कारमात्रस्य क्षणिकत्वापत्तिस्तकत्वेन तथात्वे गौरवमत आहे ॥च- रमफलस्य चेति ॥ चरमफले बैजात्यं कल्पयित्वा तेन रूपेण नाशकत्र याच्यामिति भावः ॥ न कमिः केति ॥ न स्मरणोत्तरस्मरणमित्यर्थः । दायपदार्थत्वादिति ॥ तथा च पुनःपुनः स्मरणान्न दृढतरसं- स्कारोत्पत्तिः किं तु विद्यमानसंस्कारस्यैव पुनःपुनः स्मरणेन झटित्युद्बोधकसमवधानं जायते उद्बुद्धाय तस्मात् स्मरणान्तरमिति भावः ।। व्यभिचारसंशय इति ॥ अनुभवत्वेन हेतुत्वे व्यभिचारशंशय इत्य- र्थः । तथा च न विशेषधर्मेण व्यभिचारज्ञानमिति भावः ॥ व्यभिचारसंशयाभावादिति ॥ सकृदनु- भूतस्थले संस्कारनाशकचरमस्मृतेस्त दानीमभावेन संस्कारनाशाभावादनुभवत्वेन हेतुत्वेऽपि न व्यभिचारस- न्देह इति भावः । यद्यप्यनन्तसंस्कारतन्नाशकल्पनागौरवस्य फलमुखत्वेनादोषत्वं अन्यथा विशिष्टज्ञानक- ल्पनागौरवभियानुमिति प्रति विशिष्टज्ञानरलेन हेतुताबिलय प्रसङ्गात् तथापि ज्ञानत्वेन हेतुत्वे उपेक्षात्मकतत्त- स्मृतिव्यक्तिभेदस्य कारणतावच्छेदककोटिनिवेशेन गौरवमनुभवत्वेन स्मृति हेतुत्वे तु तत्तत्स्मृतिव्यक्तिभेदा- निवेशे लाघवमिति लाघवज्ञानरूपोत्तेजकसत्त्वात् व्यभिचारशक्शाकिश्चित्करीत्यत्र तात्पर्यम् । इति स्मरणनि- 82