पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: क्रमप्राप्तं मनो निरूपयितुमाह ।। साक्षात्कार इति। एतेन मनसि प्रमाणं दर्शितम् ! तथा हि सुखसाक्षात्कारः सकरणक: जन्यसाक्षात्कारत्वात् चाक्षुषसाक्षात्कारवदित्यनुमानेन मनसः कर- णत्वसिद्धिः । नचैवं दुःखादिसाक्षात्काराणामपि करणान्तराणि स्युरिति वाच्यं लाघवादकस्यैव सकलसाक्षात्कारकरणतया सिद्धेः । एवं सुखादीनामसमवायिकारणसंयोगाश्रयतया मनसः सिद्धिर्बोद्धव्या । तत्र मनसोऽणुत्वे प्रमाणमाह ॥ अयोगपद्यादिति ॥ ज्ञानानां चाक्षुष- रासनादीनामयोगपद्यमेककालोत्पत्तिर्नास्तीत्यनुभवसिद्धम् । तत्र नानेन्द्रियाणां सत्यपि वि. षयसन्निधाने यत्सम्बन्धादेकेनेन्द्रियेण ज्ञानं जन्यते यदसम्बन्धाञ्च परैर्ज्ञानं नोत्पाद्यते तन्मनसो विभुत्वे चासन्निधानं न सम्भवतीति न विभु मनः । नच तदानीमदृष्टविशेषो. द्वोधकविलम्बादेव तज्ज्ञानविलम्ब इति वाच्यं तथा सति चक्षुरादीनामप्य कल्पनापत्तेः । न च दीर्घशष्कुलीभक्षणादौ नानावधानभाजां च कथमेकदानेकेन्द्रियजन्यज्ञानमिति वाच्यं म- नसोऽतिलाघवात् झटिति नानेन्द्रियसम्बन्धान्नानाशानोत्पत्तेः उत्पलशतपत्रभेदादिव यौग- पद्यप्रत्ययस्य भ्रान्तत्वान् । नच मनसः सङ्कोचविकाशशालित्वादुभयोपपत्तिरिति वाच्यं ना- नावयवतन्नाशादिकल्पने गौरवालाघवानिरवयवस्याणुरूपस्यैव मनसः कल्पन दिति सङ्के-- पः ॥ इति द्रव्यपदार्थों व्याख्यातः ॥ ८५।। दिनकरीयम् . रूपणम् ॥ जन्यसाक्षात्कारत्वादिति ॥ईश्वरीय साक्षात्कारे व्यभिचारवारणाय जन्येति । नन्वतिलाघवा- त्वगिन्द्रियस्य प्राणस्य वा करणत्वमस्त्वत आह ॥ एवमिति ।। असमवायिकारणसंयोगाश्रयतये- ति ॥ भावकार्यस्य सासमवाय कारणकत्वनियमादिति भावः ।। तन्मनसो विभुत्वे चेति ॥ तदसन्नि- धानं मनसो विभुत्वे न सम्भवतीत्यर्थः ॥ तथा सतीति ॥ दृष्ट सामग्रीसत्त्वेऽप्यदृष्टावलम्बात्कार्यविलम्बा- ङ्गीकार इत्यर्थः ।। चक्षुरादीनाम पीति ॥ चाचपतद्विरहयोर दृष्टतद्विरहाभ्यामुपपत्तेरिति भावः ॥ भ्रान्त- त्वादिति ॥ अव्यवहित कालोत्पत्तिकत्वस्य दोषत्वादिति भावः ॥ उभयोपपत्तिरिति ॥ मनसः सङ्को- चे एकेन्द्रियमानसम्बन्धादेकमेव ज्ञानं विकाशे तु नानेन्द्रियैर्मन सस्सम्बन्धायुगपन्नानाज्ञानानामुपपत्तिरित्ति भावः । यद्यपि नानेन्द्रियैर्मनःसन्निकर्षकाले चाक्षुषाद्युत्पत्तिकाले रासनाद्यनुत्पादस्य रासनादिकं प्रति चा- क्षुषसामग्या: प्रतिवन्धकत्वेनैवोपपत्तेमनसो विभुत्वेऽपि बाधकामावस्तथापि तथा प्रतिबन्धकत्वे गौरवामि- त्यभिप्रायः। नच त्वङ्म नोयोगस्य ज्ञान मानहेतुत्वाचाक्षुषसामग्रीकाले स्पार्शनसामच्या नियमतः सत्त्वात् स्पार्शनापक्तिमनसोऽणुत्वपक्षेऽपि दुर्वारैवेति वाच्यं अनन्य गत्या पार्शनं प्रति चाक्षुषादिसामग्रयाः प्रतिव- न्धकत्वस्वीकारादेवमपि रासनादिप्रत्यक्ष चाक्षुषादिसामग्रीप्रतिबन्धकत्वाकल्पन प्रयुक्तलाघवस्याणुत्वपक्षे नि- प्रत्यूहत्वात् । यद्वा ज्ञानसामान्य प्रति त्वङ्मनःसंयोगस्याहेतुत्वामित्यभिप्रायः । अत एव तदसम्बन्धात्व- गादिभिः परैज्ञानं नोत्पाद्यत इत्युक्तं प्राक् । यथा च त्वङ्मनोयोगस्य ज्ञान सामान्य प्रत्यजनकत्वेऽपि सुषु- प्तौ ज्ञानानुत्पादनिर्वाहस्तथोपपादितमधस्तात् । एवं मनसो विभुत्वे आत्ममनःसंयोगानुपपत्तिरात्ममनसोः कर्माभावेन कर्मजन्यसंयोगस्य विभुत्ववादिमतेऽसम्भवादजन्यसंयोगे मानाभावात् यदपि भौतिका एव प. रमाणवो मनांसि अनन्तधर्मिणामतिरिक्तायाश्च जातेः कल्पनामपेक्ष्य क्लप्तानामेव धर्मिणां तादूप्येण हेतु- त्वस्य युक्तत्वात् नियमस्त्वदृष्टोपप्रहादिति नव्यरुक्तं तदपि न यत्संयोगव्यतिरेकात् सुषुप्तिकाले कार्यानुत्पा. दस्तस्य मनसोऽवश्यमशीकरणीयत्वात् । नच कालविशेषस्य प्रतिबन्धकत्वादेव सुषुप्तिकाले कार्यानुत्पाद इति वाध्यं अनन्तानां कालविशेषाणां प्रतिबन्धकत्वे गौरवात् । नचोदासीनमनःसंयोगस्य सुषुप्तिप्राकाले सत्त्वादा- पत्तिस्तदवस्थैवेत्यदृष्टविशेषाकृष्टं मन एव ज्ञानादिहेतुत्वेन वक्तव्यं तदपेक्षया चादृष्टविशेषाकृष्टभौतिकपरमाणू-