पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः इति ॥ अमूर्तेषु न वर्तन्त इत्यर्थः । लक्षणं तु तावदन्यान्यत्वम् । एवमप्रेऽपि ॥ अमूर्तगुणा इ. प्रमा -~- निष्क्रियशब्दस्य गगनादाचतिव्याप्ति वारणाय कर्मवदवृत्तिपदार्थविभाजकोपाधिमत्त्वपरतया साधर्म्यनिरूपणे विश्वनाथनेव स्वीकृतत्वात् इदानी समवायेन तादृशोपाधिमत्त्वस्य लक्षणत्वमात्रेण सामान्यादावतिव्याप्त्य- प्रसक्तेः तादृशोपाधौ कर्मावृत्तित्वविशेषणेनैव कर्मण्यतिव्याप्त्यप्रसक्तेश्च गुणघटितलक्षणस्येव कर्मघटितलक्ष- णस्यापि निर्दुष्टत्व संभवात् निष्क्रिय इति शब्दस्यापि लक्षणपरत्व एव विश्वनाथस्य निर्भरः । स्वरूपकथनं न तु ल. क्षणमिति प्रतिपादनं तु यथाश्रुतमनुसृत्य न तन्त्र निर्भर इति प्रतिभाति । केचित्तु गगनादावतिव्याप्तरिति आ. दिना कालादिपरिग्रहः यथाश्रुते चैतत् सामान्यवत्त्वे कर्मान्यत्वे च सति कर्मवदवृत्तिपदार्थविभाजकोपाधिम- स्वे आतेव्याप्तेरभावादित्याहुः । तदसत् तादृशोपाधिमत्त्वस्य समवायेन लक्षणत्वस्वीकारेणैव सामान्यादाव- तिव्याप्त्यप्रसक्तः पृथक् सामान्य वत्त्व विशेषणदानवैयर्थ्यात् तादृशोपाधौ कर्मावृत्तित्वविशेषणेनैव कर्मण्यति- च्याप्तिवारणे लक्षणे कर्मान्यत्वविशेषणस्यापि विशेषणविशेष्य भाव विनिगमनाविरहप्रयुक्तदोषसम्पादकस्य व्यर्थत्वाच्च ।। मूले द्रयो गुरुत्वमिति ॥ द्रवत्वं गुरुत्वामित्यर्थः । मुक्कावळ्या वेगपदेन स्थितस्थापकोऽ. प्युपलक्षणीय इति पाठः मूलस्थवेगपदं स्थितस्थापकपदोपलक्षकमित्यर्थः। केचित्तु इदमुपलक्षणं वेगाश्चेत्यत्र चकारेण अनुक्त समुच्चायकेन गुरुत्वस्यापि सङ्ग्रह इत्याहुः तद सत् द्रवत्वस्नेहवेगाश्च मता मूर्तगुणा अमी इति मूलपाठ इत्याशयेन तादृशमूले गुरुत्ववाचकपदाभावात् न्यूनतापरिहाराय चशब्देन गुरुत्वस्य सङ्ग्रहो वाच्यः मूलस्य शब्दघटितत्वे चशब्देन स्थितस्थापकगुरुत्वयोः परिग्रह इति व्याख्यामकृत्वा वेगपदेन स्थित्तस्थापकोड. प्युपलक्षणीय इति विश्वनाथव्याख्यायाः नि/जत्वापत्तेः चशब्देन तस्यापि प्रहणसंभवात् । तस्मात् द्रवो गु- रुत्वक स्नेहो वेगो मूर्तगुणा अमी इति मूलपाठसत्त्व एव तादृशव्याख्या सङ्गच्छत इति तादृशमूले गुरुत्ववा- चकपदसत्वात् चशब्दाभावाच इदमुपलक्षणमित्यादि केषांचिद्याख्यानमप्रामाणिकमेवेति । मूर्तगुणा अमी इति यथाश्रुतमूलात् निरुक्तगुणान्यतमत्वावच्छिन्नस्य मूर्तब्यक्तिवृत्तित्वविशिष्टगुणवं लक्षणमित्यर्थों लभ्यते तच न संभवति सङ्खयादावतिव्याप्तेः । यदि मूतत्वव्याप्यतावच्छेद कपरिमाणावृत्तिगुणवृत्तिजातिमत्त्वरूपं मूर्तगुणत्वं लक्षणं अतो नोक्तातिव्याप्तिरिति विचिन्त्यते तदा गौरवं अतो व्याकुरुते ॥ मुकावळ्यां अमूर्तेषु न वर्तन्त इति ॥ तथाच मूर्तगुगा इति मूलस्य सावधारणतया अमूर्तावृत्तिगुणत्वं शब्दत एव लभ्यत इति भावः । अमूर्तावृत्तिगुणत्वं च मूतत्वाभावसमानाधिकरणपरिमाणान्यतरावृत्तिगुणवृत्तिजातिमत्त्वं स्वसमानाधिकरणपरिमाणान्यतरवृत्तित्वसंबन्धेन मूर्तत्वाभावविशिष्टान्य गुणवृत्तिजातिमत्त्वं वा तेन घटा- दिवृत्त्येकत्वादो नातिव्याप्तिः । गुणविभाजकरूपत्वादिजातिमादाय संस्कारविभाजकवेगत्वास्थितस्थापकत्व जातिमादाय च सर्वत्र लक्षणसमन्वयो बोध्यः । जाताववृत्तित्वान्तविशेषणेन आत्मविशेषगुणानां शब्दस्य सङ्ख्यादीनां च व्युदासः । गुणवृत्तित्वविशेषणेन कर्मणो व्यस्य च व्युदासः । समवायेन तादृशधर्मस्य लक्षणत्वलाभाय जातिग्रहणम् । एवं उत्तरलक्षणेऽपि बोध्यम् । मूले एतेऽमूर्नगुणा इत्यनेन अकारप्रश्लेषात् शब्दात्मविशेषगुणान्यतमत्वावच्छिन्नस्यामूर्तवृत्तित्वविशिष्टगुणत्वं लक्षणमिति लभ्यते तच्च न संभवति गगनादिगतैकत्वादी अतिव्याप्तेः । यदि मूर्तत्वाभावव्याप्यतावच्छेदकमहत्त्वावृत्तिजातिमत्त्वरूपममूर्तवृत्ति- दिनकरीयम् . भावात् । वेगेन स्थितस्थापकोऽप्युपलक्षणीय इति पाटः । वेगपदस्य भावनान्यसंस्कारपरत्वादिति भावः । इदमुपलक्षणं वेगाश्चेत्यत्र चकारेग्णानुक्तसमुच्चा य केन गुरुत्वस्यापि संग्रहात् । ननु मूर्तगुणत्वं मूर्तवृत्तिगुणत्वं तच्च सङ्ख्यादावतिव्याप्तमत आह ॥ अमूर्तेष्विति ॥ तथा चामूर्तावृत्तिगुणत्वं प्रदर्शितगुणानां साधर्म्यः मित्यर्थः । नचैतदपि मूर्तमात्रवृत्तिसङ्ख्यायामतिव्याप्तमिति वाच्यं अमूर्तगुणवृत्ति संस्कारवान्यगुणत्वव्याप्य. जातिशून्यगुणत्वस्य मूर्तत्वव्याप्यतावच्छेदकगुणवृत्तिजातिमत्त्वस्य वा विवक्षितत्वात् । अत्र चाद्ये शून्यान्ते न सङ्ख्यादेवुद्धयादेश्च व्युदासः वेगस्थितस्थापकोपसंग्रहाय संस्कारवान्यति । द्वितीयेऽवच्छेदकान्तेन सहया- स्वात्तित्वान्तेन कर्मत्वादेर्युदासः । मूले एतेऽमूर्तगुणा इत्यत्राकारप्रश्लेषों बोध्यः । ननु धर्मेत्यादि-