पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । तथाविधं अपाकजम् । तथैकत्वमपि बोध्यम् । । संयोगश्चति ॥ कर्मजन्यत्वं यद्यपि न प्रभा. वाच्यामिति भावः । अपाकजमिति ॥ सांसिद्धिबद्रवत्वमित्यर्थः । निरुक्तमूलेन एकत्वस्याप्रतिपादनात् न्यूनता. परिहारायाह ॥ तथैकत्वमपीति ॥ यथा निरुक्त गुणानां लक्ष्यत्वं तथैकत्वमपि लक्ष्यतया स्वीकार्यमित्यर्थः । तथा च तादृशगुणान्यतमत्वावच्छिन्नस्य कारणगुणजन्यत्वं लक्षणमिति भावः । अत्र कारणगुणजन्यत्वं च समवायटि- तसामानाधिकरण्यसंबन्धावच्छिन्न कारणतानिरूपितकार्यस्त्वं । नन्चेदं लक्षणं नित्यरूपादौ कर्मजवेगे व अव्याप्तमि ति वाच्यम् तादृश कार्यतासमानाधिकरणपाकजन्यतावच्छेदकजात्याभावविशिष्टभावनाव्यक्त्यवृत्तिजातिमत्व. स्य विवक्षितत्वात् उक्तस्थले नित्यरूपादेः ताशरूपत्वादिजातिमत्त्वात् कर्मजवेगस्य तादृशवेगवजातिमत्त्वाच्च अव्याप्तेरभावात् । पाकजरूपादावतिव्याप्तिवारणाय जाती पाकजन्यतावच्छेदकवैजात्याभावविशिष्टत्वविशेषण- म् । वैशिष्टयं च दैशिकविशेषगतासमवायोभयघटितसामानाधिकरण्यरूपं बोध्यम् । तेन केवलदेशिकविशेषणतया तादृश वैजात्याभावविशिष्टरूपत्वादिजातेः पाकजरूपादौ सत्त्वेन नोक्तातिव्याप्तिप्रसङ्गः । इत्थंच रूपत्वादिजा- तेः अपाकजरूपाद्यन्तर्भावेनैव तादृशसामानाधिकरण्यसंबन्धेन तादशबैजात्यामावविशिष्टत्वात् पाकजरूपादेः विशिष्टरूपत्वादिजातिमत्त्वाभावेन न तेष्वतिव्याप्तिप्रसक्तिः । सहकारत्वजातिमा दाय भावनाया अतिव्याप्ति- वारणाय जातौ भावनाव्यक्त्यवृत्तित्वविशेषणम् । एवंच न कोऽपि दोष इति प्रतिभाति ॥ अस्मद्गुरुचरणास्तु अपाकजजन्यरूपादिक्रियाजन्यभिन्नवेगेतदुभयघटितान्यतमत्वावच्छिन्नस्यैव लक्ष्यत्वेन मूलकारस्य तात्पर्यविष- यतया तत्र तादृशकार्यस्वरूपलक्षणमेव निदुष्टमिति व्याचक्रुः । केचिनु यद्यपि कारणगुणोत्पन्नत्वं च न पूर्वोक्तं स्वाश्रयसमवायिसमवेतगुणजन्यत्वं हस्तपुस्तकसंयोगांवभागादिजन्यकायपुस्तकसंयोगविभागादावतिव्याप्तेः नच स्वाश्रयसमवायिमात्रसमवेत गुणजन्यत्वं तत् हस्तपुस्तक संयोगविभागादिश्च न स्वाश्रयसमवायिमानसमा वेत इति वाच्यम् तथाप्यवयवाक्यविनो: एकत्वाभ्यां जनिते अवयवावयविद्वित्वादावतिव्याप्तेः तथापि स्वा- श्रयसमवाधिमात्रसमवेतस्वसजातीयगुणजन्यत्वं तत् अवयवैकत्वादेरवयवावयविद्वित्वसजातीयत्वाभावात् त. जातिव्याप्तरभावात् । नच संख्यात्वेन तयोः सजात्यमस्तीति तद्दोषताददस्थ्यं गुणत्वव्याप्यच्याप्यजा. त्या साजात्यस्य विवक्षितत्वात् अवयवावयविरूपादीनां नीलवादिना साजात्यस्य सत्त्वानासंभवः । ननु तथापि नित्यरूपे सङ्खयाप्रचयजन्यपरिमाणे कर्मजवेगे चाव्याप्तिरिति चेन्न स्वाश्रयस मवायिमानसमवेतस्व. सजातीय गुणजन्यवृत्तिजातिमत्त्वस्य विवक्षितत्वान्नित्यरूपादौ तादृशरूपत्वादिकमादाय लक्षणसमन्वयात् । अल सङ्ख्यात्वपृथक्त्वत्वातिरिकत्वेन भावनावृत्यन्यत्वेन च तादृशजातिविशेषीया । तेन तादृशससया. त्वं पृथक्त्वत्वं चादाय द्वित्वद्विपृथक्त्वादी नातिव्याप्तिः । नवावयवचे गजन्यावयविवेगवृतिसत्तागुणत्वसं. स्कारत्यादिकमादाय अतिव्याप्तिर्भावनायां । नचैवं जातिघटित लक्षणकरणे तादृशरूगत्वादिजातिमादाय पाकजा रूपादावतिव्याप्तिरिति वाच्यं तादृशजातिमत्त्वे सति अपाकजत्वस्य विवक्षितत्वादिति सर्व चतुरश्रमित्या- दिनकरीयम्. णजन्यत्वं तत् अवयवैकत्वादेरवयवावयविद्वित्वस जातीयत्वाभावेन तत्रातिव्याप्त्यभावात् । नच सङ्खचात्वेन तयोः साजात्यमस्तीति तद्दोषतादवस्थ्यं गुणत्वव्याप्यव्याप्यजात्या साजात्यस्य विवक्षितत्वात् । अवयघावय- विरूपादीनां नीलवादिना साजात्यसरवानासम्भवः । ननु तथापि नित्यरूपे सलयाप्रचरजन्यपरिमाणे कर्म- जवेगे चाव्याप्तिरिति चेन्न स्वाश्रयप्तमवायिमात्रसमवेतखसजातीय गुणजन्य वृत्तिजातिमत्वस्य विवक्षितत्वात् नित्यरूपादौ ताशरूपत्वादिकमादाय लक्षणसमन्वयात् । अत्र व सङ्ख्यात्वपृथक्त्वत्वातिरिक्तत्वेन भावना- त्यन्यत्वेन तादृशजातिविशेषणीया तेन तादृशसङ्ख्यात्वं पृथक्त्वत्वं चादाय द्वित्वद्विपृथक्त्वादी नातिव्याप्तिः नवावयवेवेगजन्यावयविवेगवृत्तिसत्ताणत्यसंस्कारत्वान्यादाय भावनायामतिव्याप्तिः । नचैवं जातिघटितलक्ष- घेणे तादशरूपत्वादिजातिमादाय पाकजरूपादावीतव्याप्तिरिति वाच्यं तादृशजातिमत्त्वे सत्यपाकजत्वस्य वि. वक्षितत्वादिति सर्व चतुरश्रम् । लक्ष्यतावच्छेदकेऽपाकजत्वविशेषणस्य प्रयोजनमाह ॥ मुक्तावल्या पाकजरूपादीनामिति ॥ कारणागुणपूर्वकत्वाभावात् कारणगुणपूर्वकत्वव्यवहाराभावात् ।