पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । स्पर्शान्तपरिमाणकपृथक्त्वस्नेहशब्दके । भवेदसमवायित्वमथ वैशेषिके गुणे ॥ ९७ ॥ आत्मनः स्यानिमित्तत्वमुष्णस्पर्शगुरुत्वयोः । वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा ॥ ९८ ।। द्विधैव कारणत्वं स्यादथ प्रादेशिको भवेत् । वैशेषिको विभुगुणः संयोगादिद्वयं तथा ॥ ९९ ॥ पृथक्लेत्यत्र स्वप्रत्ययस्य प्रत्येकमन्वयादेकत्वं पृथक्त्वं च ग्राह्यं पृथक्त्वपदेन चैकपृथ- क्त्वम् ॥ भवेदसमवायित्वमिति ।। घटादिरूपरसगन्धस्पर्शाः कपालादिरूपरसगन्धस्पर्शेभ्यो भवन्ति एवं कपालादिपरिमाणादीनां घटादिपरिमाणाद्यसमवायिकारणत्वं शब्दस्यापि द्वि- तीयशब्द प्रति एवं स्थितस्थापकैकपृथक्त्वयोरपि ज्ञेयम् ॥ निमित्तत्वमिति ॥ बुद्धयादी- प्रभा. वनाव्यात्यवृत्तिजातिमत्त्वं लक्षणमिति फालतम् । अतो न काप्यनुपपत्तिरिति ॥एवमिति ॥ कर्मजत्वलक्षण. मिवेत्यर्थः ॥ अन्यत्रापीति ॥ उत्तर लक्षणेष्वपीत्यर्थः ।। क्वचिदिति ।। जातिघटितलक्षणाकरणे यादृशया. दृशलक्षणानां दोषप्रसाक्तेः तत्तलक्षण मेवेत्यर्थः । ऊहामिति ।। नातिघटित कार्यमित्यर्थः ॥ ९५ ॥ ९६ ॥ स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके भवेदसमवायित्वमिति मूले स्पर्शपदं उष्णत्वजातिशून्यस्पर्शपरं तस्यो- भय कारणत्वलक्षणलक्ष्यस्वात् । एवं भवेदसमवायित्वमिति मूलं सावधारणम् । एवंच उक्तगुणान्यतमत्वाव- च्छिन्नस्यासमवायिकारणत्वमेव लक्षणमिति लभ्यते । तालक्ष्ये उपपादयति ॥ मुक्तावळ्यां घटादीत्या दिना । द्वितीयशब्दं प्रतीति ॥ असमवायिकारणत्वमिति पूर्वणान्वयः । मूलस्य न्यूनतां परिहरति ।। एवमिति ॥ शेयमिति ॥ उक्तलक्षणलक्ष्यत्वं शच्यामेत्यर्थः । तथाच उक्तगुणान्यतमत्वावच्छिन्नस्य निमित्त कारणत्वशून्यत्वे सति समवायसंबन्धावच्छिन्न कार्यतानिरूपितसमवाय संबन्धावच्छिन्नकारणत्वसमवाय संबन्धा. वच्छिन्न कार्यतानिरूपितसमवायघटितसामानाधिकरण्य संबन्धावच्छिन्न कारणत्वान्यतरवत्त्वं लक्षणमिति भावः । अन शब्दसाधारण्याय प्राथमिककारणत्वस्य रूपादिसाधारण्याय द्वितीयकारणत्वस्य चान्यतरत्वेन लक्षणत्वम - गीकृतम् । नचैवमपि प्राचां मते पाकजरूपादौ उभयमतेऽपि चरमावयाविरूपादौ अन्त्यशब्दे चाव्याप्तिरति- व्याप्तिश्चात्मविशेषगुणेविति वाच्यम् । तादृशकारणत्वान्यतरसमानाधिकरणा स्व समवायि संयुक्तसमवेतत्वसमा- नाधिकरणकालिकसंबन्धानवच्छिन्न प्रत्यक्षत्वासमानाधिकरणकार्यतानिरूपितकारगताश्रर्याभूतं यद्यत् स्वं ताव. दन्यतमासमवेतद्वित्वद्विपृथक्त्वान्यतरासमवेतात्मविशेषगुणान्यतमासमवेता व या जातिस्तादृशजातिमत्त्वस्य सत्यन्तघाटेतलक्षणवाक्येन विवक्षितत्वात् । अत्र जातिघटितलक्षणकरणातू रूपत्वरसत्वगन्धत्वानुष्णाशीतत्व. परिमाणत्वैकत्वत्वैकपृथक्त्वत्वस्नेह्त्वशब्दत्वस्थित्तस्थापकन्वरूपतादृशजातीरादाय सर्वत्र लक्षणसमन्वयः । जाती प्राथमिकायतमासमवेतत्वविशेषणात् उभय कारणत्वलक्षणलक्ष्योष्णस्पर्शादौ नातिव्याप्तिः । रूपादी- नामपि कालोपाधिविधया कार्यमानहेतुत्वात् तेषामपि तावदन्यतमत्वाश्रयत्वेन रूपत्यादीनां तावदन्यतमा- समवेतत्वाभावात् असंभववारणायान्यतमकोटिप्रविष्टकार्यतायां कालिकसंबन्धानवच्छिन्नत्वनिवेशः। विषयवि. धया स्वप्रत्यक्षकारणस्य द्रव्यादिचाक्षुषकारणस्य च रूपादेः तादृशान्यतमत्वाश्रयत्वात् असंभवतादव- स्थ्यचारणायान्यतमकोटिप्रविष्टकार्यतायां प्रत्यक्षत्वासमानाधिकरणत्वनिवेशः । संख्यात्वपृथक्त्वत्वादि. रूपतादृशजातिमादाय द्वित्वद्विपृथक्त्वादौ अतिव्याप्तिवारणाय जातौ द्वित्वद्विपृथक्त्वान्यतरासमवेतत्व- निवेशः । आत्मविशेषगुणेषु अतिव्याप्तिवारणाय जातो द्वितीयान्यतमासमवेतत्वनिवेश इति ध्येयम् । अथ वैशेषिके गुणे आत्मनस्स्यानिमित्तत्वं इति मूलेन निमित्तत्वशब्दम्य सावधारणत्वस्वीकारात् निमित्तत्वशब्दस्य निमित्तकारणत्वतकार्यत्वोभयपरत्वस्वीकाराच्चात्मविशेषगुणान्यतमत्वावच्छिन्नस्य ज्ञानादिनिष्ठसमवायसंव-