पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता। ६७१ बन्धकत्वकल्पनादवयविनि न पीतायुत्पत्तिः । एतेन स्पर्शोऽपि व्याख्यातः ॥ रसादिकमपि प्रभा. रूपादेः प्रतिबन्धकत्वं कल्पनीयमिति गौरवमत आह ॥ इत्थंचेति ॥ निरुक्तलाघवात विजातीयरूपसिद्धौ चेत्यर्थः । पीताद्यारम्भ इति ॥पीतत्वाद्यचच्छिन्न इत्यर्थः ॥ प्रतिबन्धकत्वकल्पनादिति ।। उत्तरी- त्या प्रतिबन्धकत्वस्वीकारादित्यर्थः ॥ अश्यविनीति ॥ नानारूपवदवयवार धाव अविनीत्यर्थः । न पी- ताद्युत्पत्तिरिति । न पीताद्युत्पत्त्यापत्तिरित्यर्थः । तथाच विजातीयरूपानीकर्तृमतेऽपि नानारूपवदवय. वारब्धावयविनि नीलावयवावच्छेदेन नीलोत्पत्तेरिच पीतावयवावच्छेदेनापि नालोत्पत्तिवारणाय रामवा- येन तदवयवावच्छेद्यनीलं प्रति तदवयवघटितसमवायघटितसामानाधिकरण्यसंबन्धन नीलाम्गरूप- त्वेन प्रतिवन्धकत्वावश्यकत्वेन साम्यं चित्रमिति प्रतीतिविषयताया अनेकेषु कल्पनागौरवं परमतिरिच्यत इति भावः । नव्यास्तु पाताव यवावच्छेदेन नीलोत्पत्तिवारणाय नोक्त प्रतिबध्यप्रतिबन्धकभावः कल्प्यते येन साम्यं स्यात् किन्तु समवायेन तदवयवावच्छेदेन नीलं प्रति तदवयवधरितसमवायटिलसामानाधिकरण्य- संबन्धेन नीलस्य हेतुत्वं अनयैव रीया पीतादीनामपि कारणत्वं स्वीक्रियते तावतैव न पीतावयवावन्छेदे- न नीलोत्पत्त्यापत्तिः पीतावयवघटितसमवाय घाटित सामानाधिकरण्यसंबन्धन नीलरूपाभावात् चित्रमिति प्रतीतिविषयतायाः अनेयोपु कल्पनागौरवमपि न दोषावहं अतिरिक्तधर्गिकल्पनापेक्षया कुप्तेषु विषयत्वरू. पधर्मकल्पना गौरवस्य न्याय्यत्वात् । एवंच प्राचां मते अनेकप्रतिवध्यप्रतिबन्धकभावकल्पनभप्रामाणिकाति- रिक्तधर्मि कल्पनं च परमतिरिच्यत इति ! यदि चित्रमिति प्रतीतिविषयताया अनेकेष्वकल्पनालाघवप्रमाण- मात्रेण चिनरूपस्यातिरिक्तत्वं स्वीक्रियते तदा वनमिति प्रतीतिविषयताया अनेक वृक्षेषु अकल्पनालाघवप्र. माणेन वनस्याप्यतिरिकत्वापत्तेः । यच्चोतं व्याप्यवृत्तिजातीयानामव्याप्यवृत्तित्वे विरोधादिति तदपि न परमाणुद्वय संयोगस्यावच्छेदकाभावेन व्याप्यवृत्तितया संयोगमात्रस्य व्याप्यवृत्तित्वापत्या तयोपिरीधे मानाभावात् । तस्मात् एतादृश लाघवस्याकिंचित्करतयांतिरिक्तचित्रं नाङ्गीकर्तव्यमिति प्राहुः । एतेनेति । रूपस्थलोक्त युक्तिसजातीययुक्तयेत्यर्थः ॥ स्पर्शोऽपीति ॥ अपिना रूपसमुञ्चयः । यथा रूपं व्या- ख्यातं तथा स्पोऽपि व्याख्यातप्राय इत्यर्थः । तथाच प्राचीनानां मते रूपस्येव स्पर्शस्यापि व्याप्यवृत्तित या नानास्पर्शवदवयचारब्धद्रव्ये परस्परविरोधेन मृदुम्पर्शायुत्पत्त्यसंभवात् तव्यस्य स्पा- र्शनानुपपत्त्या चित्ररूपवत् चित्रस्पर्शोऽप्यङ्गीका यः । नवीनमते नानास्पर्शवदवयवारब्धद्रव्ये नाना. स्पर्शोत्पत्ती रूपस्थलोतरीत्या बायकाभावेन स्मृदुम्पशादिसमुदायस्यैवोक्तरीत्या चित्र इति प्रतीति- दिनकरीयम्. श्रयसमवेतत्वसम्बन्धेन कपालनीलादीनां कारणानां सत्त्वात् कथं तत्र न नीलायुत्पत्तिरित्यत आह ।। इत्थं चति ॥ उक्तलाघवेन चित्ररूपसिद्धौ वेत्यर्थः ॥ प्रतिवन्धकत्वकल्पनादिति ॥ समवायेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलातिरिकरूपत्वेन पीतरूपं प्रति पीतातिरिक्तरूपत्वेन प्रतिबन्धकत्वमिति रीत्या प्रतिबध्यप्रतिबन्धकभावकल्पनादन्यथा नानाजातीयरूपवत्कपालारब्धे धटे नीलकपालाद्यवच्छेदेन पीतोत्पादापत्तेर्दुरित्वादिति भावः । अत्र नव्याः नानाजातीयरूपवत्कपालारब्धे घटे पीतकपालावच्छेदेन नीलापत्तिवारथाय न पूर्वोक्तः प्रतिवध्यप्रतिबन्ध कभावः कल्प्यते किं त्ववच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलादेः कारणत्वं करप्यते चित्ररूपाङ्गीकारे तु समवायेन नौलादिकं प्रति स्वाश्रय समवेतत्वसम्ब. धेन नीलत्वादिना हेतुत्वस्य पूर्वोक्तप्रतिवध्यप्रतिबन्धकभावस्य च कल्पनागौरवमित्याहुस्तन्न अवच्छेदकता. सम्बन्धघटितोक्ककार्यकारणभावाङ्गोकारेश्यवच्छेदकतासम्बन्धेन कमलादो जायमानस्य नीलादेः समवाये. न घटादाविव गगनादावप्युत्पत्तिवारणाय समवायेन नीलादिकं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नोलादेः हेतुत्वस्य तवाग्यावश्यकत्वात् । किंच चित्रमिति प्रतीतिविषयताया अनेकत्र कल्पने गौरवमेकल कल्पने लाघवमिति लाघवानुरोधेनातिरिक्तचित्ररूपसिद्धौ पूर्वोक्तप्रतिवध्यप्रतिवन्धकमायकल्पनागौरवस्य न दो- पत्वं फलमुखत्वादिस्यन्यत्र विस्तरः ॥ स्पशाऽपि व्याख्यात इति ॥ कोमलकटिनस्पर्शचदधयवाभ्या-