पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ६७३ । जलादिपरमाणौ तु नित्यमन्यत् सहेतुकम् । रसस्तु रसनाग्राह्यो मधुरादिरनेकधा ॥ १०१ ॥ सहकारी रसज्ञाया नित्यतादि च पूर्ववत् । घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारकः ॥ १०२ ॥ सौरभश्चासौरभश्च स द्वेधा परिकीर्तितः । स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः ।। १०३ ।। अनुष्णाशीतशीतोष्णभेदात् स त्रिविधो मतः । काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत् ॥ १०४ ॥ जलादीति ॥ जलपरमाणौ तेजःपरमाणौ च रूपं नित्यं पृथिवीपरमाणुरूपं तु न नित्यं तत्र पाकेन रूपान्तरोत्पत्ते । नहि घटस्य पाकानन्तरं तदवयवोऽपक्क उपलभ्यते । नहि रक्तकपालस्य कापालिका नीलावयवा भवन्ति । एवं क्रमेण परमाणावपि पाकसिद्धेः ।। अन्यत् जलतेजःपरमाणुरूपभिन्न रूपम् ।। सहेतुकं जन्यम् । रसं निरूपयति ॥ रसस्त्विति ।। प्रभा. जलादिपरमाणौ तु नित्यमन्यत्सहेतुकमिति मूलं तत्र पृथिवीपरमाणुरूपस्य पाकजत्वेनानियतया असाङ्गत्याप- तेः अतः पृथिवीं व्यावर्तयति । जलादीनि । आदिना तेजःपरमाणुपरिप्रहः । सप्तम्यन्तपरमाणुपदोत्तरश्रूय. माणावधारणार्थकतुशब्दव्यवच्छेद्यं खयमेवाह ॥ अन्यदिति ॥ जलतेजःपरमाणुसमवेतरूपभिन्नरूपमात्र- मित्यर्थः ॥ सहेतुकमिति ॥ जन्यमित्यर्थः । यद्यपि अन्यदनि प्रकमित्येव वक्तुमुचितं रूपस्य नित्यानित्यभे- देन द्वैविध्यनिरूपणस्यैव प्रकृतत्वात् तथापि रूपस्य जन्यत्वप्रतिपादनेन रूपस्य भावत्वात् जन्यभावत्वस्य नाशप्रतियोगित्वरूपानित्यत्वव्याप्यत्वाच तेनानित्यत्वस्यापि उपस्थितिसंभवेन ध्वंसप्रागभावावृत्तिभ्यां प्राग. भावाप्रतियोगित्वध्वंसाप्रतियोगित्वरूपनित्यत्वप्रागभावप्रतियोगित्वध्वंसप्रतियोगित्वरूपानित्यत्वाभ्यां रूपस्य द्वैविध्य प्रतिपादनाय नित्यमन्यदनित्य कमित्यनुक्ता नित्यमन्यत्सहेतुकमित्युक्तं तदेव प्रकाशयति ॥ मुक्ता वळ्यां जलपरमाणाविति ॥ पृथिवीपरमाणुरूपस्यानित्यत्वे हेतुमाह । तनेति ॥ पृथिवीपरमाणावित्य. धः ॥ पाकेनति ॥ विजातीयाग्निसंयोगेनेत्यर्थः ।। रूपान्तरोत्पत्तरिति ॥ रूपनाशरूपान्तरोत्प- तेः प्रामाणिकत्वादित्यर्थः । प्रमाणमेव दर्शयति ॥ नहीति ॥ घटस्येति ॥ अत्र घटशब्दो- ऽवयविमानोपलक्षकः ॥ पाकानन्तरमिति ॥ विजातीयाग्निसंयोगाद्रूपनाशोत्तरकालीनरूपान्तरो. स्पत्त्यनन्तरामित्यर्थः तवयव इति ॥ तत्तदवयविनः अवयव इत्यर्थः ॥ अपक्क उ. पलभ्यत इति ॥ पाकाधीनरूपशून्यत्वविशिष्टस्सन् प्रत्यक्षविषय इत्यर्थः । नहोत्यात्यानुषङ्गेण पाकाधीन. रूपशून्यतया न प्रत्यक्षविषय इत्यर्थः फलितः । तथाच प्रत्यक्षप्रमाणेन चरमावयविनोऽव यथेषु कपालादिषु चि- जातीयतेजस्संयोगसिद्धिरिति भावः ॥ नहि रक्तकपालस्य कापालिका इति ॥ अत्र कपालशब्दः चरमावयविनोऽवयवमात्रोपलक्षकः । कापालिकाशब्दः तदवयवावयवमात्रोपलक्षकः ॥ नीलावयवा भव. न्तीति ॥ पाकाधीनतत्तदवयविसमवेतरूपविजातीयरूपचन्तो भवन्तीति फलितोऽर्थः । त्रसरेणुपर्यन्तावयवेषु पाकाधीनावयविसमवेतरूपविजातीयरूपादर्शनात् अवयविनीव नसरेणुपर्यन्तावयवेध्वपि प्रत्यक्षप्रमाणेन पाकोऽवश्यमङ्गीकार्य इति भाव: । एवमिति ॥ त्रसरेणुपर्यन्तावयवेष्वपि पाकसाधकप्रमा- मतुल्य प्रमाणेनेत्यर्थः ॥ क्रमेणेति ॥ द्वयणुके पाकानुमितिद्वारेत्यर्थः ॥ पाकसिद्धेरिति ॥ त्रसरेणुदृष्टान्ते- नेत्यादिः । पाकानुमितिसंभवादित्यर्थः । तथाच द्वयणुकं पाकजन्यरूपवत् पाकजन्यरूपाश्रयसमवायित्वात् अ- सरेणुवदित्यनुमानेन द्वयणुके पाकसिद्धौ पार्थिवपरमाणु; पाकजन्यरूपवान् तादृशद्वयणुकसमवायित्वात्त्रसरेणु- 85 %3D तथाच