पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७४ कारिकावली [गुणखण्डः 11 सहकारीति ॥ रासनज्ञाने रसः कारणमित्यर्थः ॥ पूर्ववदिति ॥ जलपरमाणौ रसो नि- त्यः अन्य: सर्वोऽपि रसोऽनित्य इत्यर्थः । गन्धं निरूपयति ।। प्राणग्राह्य इति ॥ उपका- रक इति ।। ब्राणजन्यज्ञाने सहकारी स इत्यर्थः । सर्वोऽपि गन्धोऽनित्य एव ! स्पर्श निरू- पयति ॥ स्पर्श इति ॥ उपकारक इति ।। स्पार्शनप्रत्यक्षे स्पर्शः कारणामित्यर्थः ॥ अनु. हणाशीत इति ।। पृथिव्यां वायौ च स्पर्शोऽनुष्णाशीत; जले शीतः तेजस्युष्णः। कठिनसु. कुमारस्पशौं पृथिव्यामेवेत्यर्थः । कठिनत्वादिकं तु न संयोगगतो जातिविशेषः चक्षुर्मास्यत्वा- प्रभा. पत् इत्यनुमानात् परमाणावपि पाकसिद्धिरिति भावः॥ रूपभिन्नमिति ॥ ताशरूपभिन्नरूपमनित्यमित्यर्थः । मूले रसं लक्षयति ॥ रसस्त्विति ॥ रसनाग्राह्य इति ॥ रसनेन्द्रियकरणकज्ञाननिरूपितलौकिकनिषय. तावानित्यर्थः । यद्यपीदं परमाण्वादिरसेऽव्याप्तमतिव्याप्तं च रसदादौ तथापि रासननिरूपितलौकिक- विषयताश्चयरूपासमवेतजातिमत्त्वस्य विवक्षितत्वानोक्तदोषावकाशः ॥ मधुरादिरनेकवेति ॥ प्राचीन मते चित्ररसमादाय सप्तधा नवीनमते षड्डिध इत्यर्थः । उतार्थ एव विश्वनाथपञ्चाननस्य निर्भरः अ- न्यथा एकमतमात्रतात्पर्यवीकारे मधुरादिश्च सप्तधेति मधुरादिश्च षडिय इति वा कारिकापत्तेः । सहकारी रसज्ञा. था इति यथाश्रुतकारिकया रसनेन्द्रिय जन्यमाने रसः कारणमिति लभ्यते तच्चानुपनं स्वसमवेतरूपादिजनने रसस्यासहकारित्वात् अतो भावार्थमाह । मुक्तावळ्यां रासनज्ञान इति ॥ रासनस्तजात्यवच्छिन्न इत्यर्थः । एवमग्रेऽपि ॥ मूले घ्राणग्नाह इति ॥ घ्राणेन्द्रियकरणकज्ञाननिरूपितलौकिक विषयताश्रय इत्यर्थः । यद्यपीद परमाण्वादिगन्धे अव्याप्तं गन्धत्वादावरि च्याप्त च तथापि घ्राण जनिरूपितलौकिकविषयताश्रयरसासमवेतजा. तिमत्त्वस्य विवक्षितत्वारोक्त दोषावकाशः । सौरभश्वासौरभश्चेत्यादिना गन्धस्य द्वैविध्यप्रतिपादनं नवी नमः तानुसारेण । प्राचीनमते चित्रगन्धमादाय त्रविध्यं बोयम् । परमाणुगन्धस्यापि पाकजत्वेनानियतया नि. त्यवादिना विभागो नेत्याह ॥ सर्वो गन्ध इति । यद्यपि स्पर्शस्त्वगिन्द्रियग्राह्य इति सावधारणमूलात् विभिन्नकरणकज्ञाननिरूपितलौकिकविषयताशून्यत्त्वे सति लौकिकविषयतावत्वं लक्षणमिति लभ्यते तच्चानु. पपन्न परमाणवादिस्पर्शेऽव्याप्तेः स्पर्शत्वादावतिव्याप्तेश्च तथापि तादृशलौकिकविषयताशून्यत्वलौकिकविषय स्वोभयसमानाधिकरणगुणविभाजकधर्मवत्त्वविवक्षणान्नोक्तदोषः । तत्र स्वग्भिनकरणकज्ञाननिरूपितत्वेन न लौकिकविषयताप्रवेशः गौरवात् किन्तु पार्शनत्वावच्छिन्नानिरूपितलौकिकविषयताशून्यत्वलौकिकविषयता- वत्त्वोभयविशिष्टजातिमत्त्व लक्षणमिति फलितम् । यदि वायो: स्पार्शनाङ्गीकर्तृनवीनमते तादृशवायुत्वजा. तिमादाय वासावतिव्याप्तिरिति विभाव्यते तदा गुणवृत्तित्वमपि जाती निवेश्योक्तदोषो धारणीय इति । अस्मद्गुरुचरणास्तु चाक्षुषत्वावच्छिन्ननिरूपितलौकिकविषयताव्यवच्छेदकावधारणघटितस्पर्शस्त्वगिन्द्रियग्रा- ह्य इति मूलात् चाक्षुषत्वावच्छिन्ननिरूपितलौकिकविषयताशून्यत्वस्पार्शननिरूपितलौकिकविषयत्वोभयविशिष्ट- गुणवृतिजातिमत्त्वमेव पदलब्धं लक्षणामिति व्याचक्रुः । त्वक्समवेतैकत्वादौ स्पर्शस्य कारणत्वाभावात् कथमुपकारकत्वमत आह ॥ मुक्तावळ्यां स्पार्शनप्रत्यक्ष इति ॥ स्पार्शनत्वावच्छिन्न इत्य- थः । मूलेऽनुष्णाशीतशीतोष्णभेदादित्यनेन वैविध्यं स्पर्शस्य प्रतिपादितं त्रिविधस्पर्शाश्रयं क्रमेणोपपादयति ॥ मुक्तावळ्यां पृथिव्या इति ॥ जलस्य स्पर्शः शीतः तेजसः स्पर्श उष्ण इति सर्वत्र स्पर्शपदार्थान्चयाय वायोश्चानुष्णाशीत इत्यनुक्तवा वायोः स्पर्शः अनुष्णाशीत इत्युक्तम् । इदमुपलक्षणं पृथिव्या अनुष्णाशीतः त्रि. विधः सुकुमारकटिनचित्रभेदात् तत्र नवनीतादिस्पर्शः सुकुमारः पाषाणादिस्पर्शः कठिनः नानास्पर्शवदव- यवारब्धपृथिवीस्पर्श: चित्रस्पर्श इत्यपि बोध्यम् । गुणवचनब्राह्मणादिभ्यः कर्तरि चेति सूत्रे चकारेण गुणवाच- कपदोत्तरं स्वार्थे घ्यविधानात काठिन्यादि क्षितावेवेत्यन कठिनपदोत्तरश्रूयमाणध्यञ्प्रत्ययोऽपि स्वार्थक एवेत्यभिप्रायेण प्रतीकमधृत्वा काठिन्यपदार्थमादिपदार्थ चाह ॥ कठिनसुकुमारस्पर्शादीति ॥ कठिनः 1 ।