पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७८ कारिकावली [गुणखण्डः स्वातन्त्रेषु परमाणुष्वेव पाक: पुनश्च पक्कपरमाणुसंयोगाद्यणुकादिक्रमेण पुनर्महावयविपर्यन्तो- त्पत्तिः तेजसामातिशयितवेगवशात् पूर्वव्यूहनाशो झटिति व्यूहान्तरोत्पत्तिश्चेति । अत्र द्वयणुका. दि स्वविनाशमारभ्य कतिभिः क्षणैः पुनरुत्पत्त्या रूपादिमद्भवतीति जिज्ञासायां शिष्यबुद्धिवैश- द्याय क्षणप्रक्रिया। तत्र विभागजविभागानङ्गीकारे नवक्षणा । तदङ्गीकारे तु विभागः किञ्चि- प्रमा. कादिमहावयविपर्यन्तनाशानन्तरामिति यावत् ।। स्वतन्त्रेविति ॥ आरम्भकस योगरहितवित्य. थः ॥ परमाणुष्वेवेति ॥ एवकारेणारम्भ कसंयोगविशिष्टपरमाणुपु पाकव्यवच्छेदः क इति ॥ विजातीयाग्निसंयोगाधीनपूर्वरूपादिनाशपूर्वकपूर्वरूपादिविजातीयरूपाद्युत्पत्तिरित्यर्थः ॥ पुनश्चेति ॥ अनन्तरमित्यर्थः । पक्कपरमाणुसंयोगादिति ॥ पूर्वरूपादिविजातीय रूपादिमत्प - रमाणुद्रय संयोगादित्यर्थः । अग्निसंयोगाधीनपरमाणुसमवेतद्रव्यारम्भानुगुणाक्रियाजन्यतादृशपरमाणुद्वय संयो- गादिति यावत् ॥ द्वयणुकादिक्रमेणेनि ॥ परमाणुद्वयसंयोगात् दूधणुकोत्पत्तिः अणुकत्रयसंयोगात व्यणुको - त्पत्तिः त्रयशुकचतुष्टय संयोगाचतुरणुकोत्पतिः इत्यादिक्रमेणेयर्थः । पुनर्महावयविपर्यन्तोत्पत्तिरिति । पु. नश्शब्दो वाक्यालङ्कारे घटगृपिण्डप्रतिमादिरूपमहाब यविपर्यन्तव्यहान्तरोत्पत्तिरित्यर्थः। ननु तर्हि पूर्वव्यूहना- शो व्यूहान्तरोत्पत्तिः उत्पन्नव्यूहे पूर्वव्यूहभेदन कुतो नोपलभ्यत इत्यत आह ॥ तेजसामिति ॥ वह्रिसूक्ष्मान - यवानामित्यर्थः ॥ अतिशयितवेगवशादिति ॥ विजातीयवेगाधीनकियावशादित्यर्थः । तादृशकियाज- न्यवहयवय वपरमाणुसंयोगाधीनपरमाणुक्रियाजन्यविभागजन्यारम्भकसंयोगनाशात् वयवयवपरमाणुसंयोग- रूपोत्तर संयोगजन्यवयवयवसमवेतपूर्वक्रियानाशाव्यवहितोत्तरक्षणोत्पन्नवयव यवसमवेतक्रियान्तराधीनव- हृयवयवपरमाणुसंयोगान्तरजन्यपरमाणुसमवेतकियाजन्यारम्भकसंयोगाचति यावत् ॥ पूर्वव्यूहनाश ह. त्यादि ॥ अव्यवधानेन म्यणुकप्रभृतिवरमावयविपर्यन्तनाशः घणुकप्रभृतिचरमावयविपर्यन्तोत्पत्तिश्चेत्यर्थः । तथाच क्षणभेदाज्ञानान पूर्वव्यूहनाशायुपलाब्धिः पूर्वव्यूह साजात्यदोषात्पूर्वव्यूहभेदानुपलब्धिश्चेति भावः ॥ यणुकादीति ॥ इदंच रूपादिमत् भवतीत्यनेनान्वेति । आदिना व्यणुकादिपरिग्रहः ॥ स्वविनाशमा. रभ्येति ॥ द्यणुकादिप्रतियोगिकनाशोत्पत्त्यधिकरणक्षणप्रभृतीत्यर्थः ॥ कतिभिः क्षणैरिति ॥ कति- क्षणान्तरितक्षणरित्यर्थः ॥ पुनरुत्पत्त्येति ॥ स्वसजातीयद्यणुकाद्युत्पत्त्य नन्तरमित्यर्थः । द्वयणुकादिनाशा-- नन्तरकालीनपूर्वद्वयणुकादिसजातीयद्वयणुकाद्यत्पत्त्यनन्तरमुत्पन्नद्वयणुकादिकं पूर्व द्वयणुकादिनाशोत्पत्त्यधिकर- णक्षणप्रभृति कियत्क्षणान्तरितक्ष रूपादिमद्भवतीति फलितार्थः ॥ इति जिज्ञासायामिति ॥ इत्याकारक शिष्यसमवेतज्ञानगोचरेच्छायामित्यर्थः ॥ शिष्यबुद्धिवेशद्यायेति ॥ शिष्यस्य सादृशजिज्ञासनिवर्तका. नाहार्याप्रामाण्यज्ञानानास्कन्दितानिश्वयात्मकविषय निष्पत्तय इत्यर्थः ॥ प्रक्रियेति ॥ घणुकादिनाशोत्पत्त्यधि दिनकरीयम् . हुपर्यन्तेष्वग्निसंयोगेन पूर्वोकरीसाा घटादिद्वयणुकपर्यन्तेषु नाशसम्भवादिति भावः ॥ स्वतन्त्रेषु कार्यद्र- व्यध्वंसविशिष्टेषु । ननु तत्र संस्थानभेदादिः कथं न प्रतीयत इत्यत आह ॥ तेजसामिति ॥ व्यूहः संस्थानम् ॥ वैशा उत्पत्तिः । प्रक्रिया घणुकनाशादिरूपाद्युत्पत्तिक्षणनिरूपणम्। क्रियत इति शेषः ॥ विभागजविभागानङ्गीकार इति ॥ कारणाकारणविभागात् कार्याकार्यविभागवत्कारणमात्रविभागात् कारणाकारणविभागानङ्गीकार इत्यर्थः । द्रव्यारम्भकसंयोगप्रतिद्वन्द्विविभागजनकक्रियायास्तदनारम्भकसंयो- गप्रतिद्वन्द्विविभागाजनकत्वनियमे मानाभावादिति भावः । अत्र च विभागग्रन्थे वक्ष्यमाणविकसत्कमलभ- प्रसङ्गभि या उक्तनियमानीकार आवश्यका एवं च येणुकारम्भकपरमाणुक्रियया यत्र घणुकारम्भकसंयोगप्रति. वन्द्विविभागो जनितस्तत तया तत्परमाणुक्रियया तत्परमाण्वाकाशादिसंयोगप्रतिद्वन्द्विविभागोत्पत्तिर्न सम्भवति मच मास्तु तत्र परमाण्वाकाशविभागः का क्षतिरिति वाच्यं परमाणावुत्तरदेशसंयोगानुत्पत्त्या परमाणुगतक्रि. यानाशानुपपत्तेश्च अतस्तादशपरमाण्वाकाशविभागजनकः परमाण्वोर्विभागो वाच्य इत्यभिप्रायवानाह ॥ त. %3D