पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । भाव: 1 सापेक्षा विभागं जनयेत निरपेक्षस्य तत्त्वे कर्मत्वं स्यात् संयोगविभागयोरनपंक्षं कारणं प्रभा. करणक्षणप्रभृत्युत्पत्स्य मानद्वथणुकादिसमवेतरूपायुत्पत्त्यधिकरणक्षणनिरूप णमित्यर्थः । क्रियत इति शेषः ॥ तत्रेति ॥ विभागजविभागानङ्गीकारतदगीकारपक्षद्वय इत्यर्थः । घटकत्वं सप्तम्यर्थः । तस्याङ्गीकारेऽनङ्गीकारे चा- वयः। विभागजविभागानङ्गीकार इति ॥ कारणमात्रविभागजन्य कारणाकारणविभागानङ्गीकारपक्ष इत्यर्थः । तथाच कारणाकारणविभागोत्तरकालीन कार्याका यविभागस्थले शरीरक्रियाया यावदवगवकियाज- न्यत्वेन शरीरावयवेषु यावत्सु क्रियाशून्यकाले शरीरे क्रियाया असंगवेन हस्तक्रियाजन्यहस्तपुस्तकविभागो. तरकालीन शरीरपुस्तकविभागस्य शरीरक्रियाजन्यत्वासंभवात् ब्यधिकरणत्वेन हस्तक्रियाजन्यत्वासंभवाच्च कार्याकार्यविभागात्मकशरीरपुस्तकविभागस्य कारणाकारणविभागात्मकहस्तपुस्तकविभागजन्यत्वस्वीकारेऽपि परमाणुक्रियायाः परमाणुद्वयविभाग परमाण्वाकाशविभागे च वैयधिकरण्याभावेन हेतुत्व संभवात्परमाणुद्वय - विभागात्मककारणमात्रविभागम्य परमावाकाशविभागात्मक कारणाकारणविभागहेतुत्वे मानाभाव इति नच परमाणुद्रयविभागजनकपरमाणुक्रियायाः परमावाकाश विभागजनकत्वस्वीकारोऽयुक्तः विभामग्रन्थे वक्ष्य माणविकसकनलकुमळभङ्गप्रसङ्गभियाजीकृता द्रव्यारम्भकसंयोगप्रतिद्वन्द्विविभागज नका. यायास्तदनारम्भक संयोगप्रतिद्वन्द्विविभागजनकत्वाभावनियमविरुद्धत्वादिति वाच्यं पद्मारम्भ कसंयोगप्रतिद्व- न्द्विविभागजनककर्मविशेषस्य कुङ्मळारम्भकसंयोगप्रतिद्वन्द्विविभागविशेषा जनकत्वेऽपि दळाकाशसंयोगनाश. कदलाकाश विभागजनकत्वे बाधकामावेन विकसत्कमलकुङ्मळभङ्गप्रसङ्गापावात् तादृशावभागजनकत्वस्य तादृशविभागाजनकत्वव्याप्यत्वपर्यवमितोक्तनियमस्यानावश्यकत्वात्तादृशान यमस्य तदारम्भक संयोगप्रतिद- द्विविभागजन ककर्मणः तदनारम्भकयत्किबिद्दव्यारम्भकसंयोगप्रतिद्वन्द्विविभाग जनकत्वार्थकत्वस्वीकाराद्वा विकसत्कमलकुड्मळमङ्गप्रसङ्गाभावात् । अत एव कर्मणो वैलक्षण्येन दळकर्मणोऽतथात्वेऽपि कपाल कर्मण: तथात्चे बाध काभावात् कारणमात्रविभागजविभागास्वीकार इति तरङ्गिण्या मुकुन्दभट्टोक्तिरपि सक्छते । एवंच परमाणुद्वयविभाग जनकपरमाणु कियायाः परमावाकाशविभागजनकत्वे बाधकामा वात् कारणमात्रविभागजकारणाकारण विभागो निष्प्रामाणिकः अन्यथा कारणमात्रसंयोगजकारणाकार- णसंयोगस्यापि स्वीकारापत्तरित्याशयः । अत्र विकसकमलकुड्मलभङ्गप्रसङ्गभियाजीकृतोक्त नियमध्य य- थाश्रुतार्थकत्ववादिनवीनैकदेशिमते परमाणुद्वयविभागजनकक्रियायाः परमायाकाशविभागजनकत्वासंभ. वात् परमाणुद्वयविभागस्यैव तजनकरचं वाच्यमित्याशयेनाह ॥ तदङ्गीकारे त्विति ॥ तुशंब्दः निरुक्तविभागजविभागाङ्गीकारस्य स्वासम्मतत्वद्योतकः । केचित्तु तदङ्गीकारे स्विति अनयोः पक्षयोः प्रथम. पक्ष एवं सम्यक् यदवच्छेदेन कमलारम्भ कसंयोगः तदवच्छेदेन क्रियानुत्पत्त्या च न विकसत्कमलकुड्मळभ. प्रसङ्ग इति बोध्यमित्याहुः तदसत दळानामगावच्छेदेन क्रियया अग्रावच्छेदेन विभागः ततः कुड्मलार. म्भकमयोगनाशः ततः दळानां मूलावच्छेदेन पद्मारम्भकावजातीयसंयोगो जायते । एवं दळानां मूलावच्छे. देन जायमानविजातीयक्रियया दळानां मूलावच्छेदेन विभागः ततः पद्मारम्भकसंयोगनाशः ततः द- ळानां अग्रावच्छेदेन कुडमळारम्भ कविजातीयसंयोगो जायते इति तदवच्छेदेन जायमानक्रियाया एव तदव. च्छेद्यसंयोगनाशकत्वमिति नियमे मानाभावात् कियाया दैशिकव्याप्यवृत्तितया कमलारम्भकसंयोगावच्छे. दकावयबविशेषावच्छेवत्वे मानाभावाच्च । तम्मात्कमलारम्भकसंयोगावच्छेदकावच्छेदेन क्रियानुत्पत्तेः विक. सत्कमलकुड्मलभग प्रसानिराकरणद्वारा प्रथमपक्षस्य निर्दुष्टत्वव्यवस्थापकत्वं न संभवति ॥विभाग इति॥ कारणमात्रविभाग इत्यर्थः ॥ किंचित्सापेक्ष एवेति ॥ स्वोत्तरोत्पन्न किंचिद्वस्तुसहकृत एवेत्यर्थः ॥ वि- भागं जनयेदिति ॥ कारणाकारणविभागजननसमर्थो भवेदित्यर्थः । निरपेक्षस्येति ॥ कारणमात्रवि- दिनकरीयम्. दङ्गीकारे त्विति ॥ अनयोः पक्षयोः प्रथमपक्ष एव सम्यक् यदवच्छेदेन कमलारम्भकसंयोगस्तदवच्छे . देन कियानुत्पत्त्या च न विकसत्कमलभङ्गप्रसङ्ग इति ध्येयम् ॥ तत्त्वे विभागजनकत्वे ॥ कर्मत्वं कर्मलक्षण, ।