पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः प्रभा. भागस्येत्यादिः । स्वोत्तरोत्पन्न किञ्चिदसहकृतस्येत्यर्थः ॥ तत्त्व इति ॥ विभागजनकत्व इत्यर्थः ॥ कर्मत्वं स्यादिति ॥ कर्मलक्षणस्यातिव्याप्तिस्स्यादित्यर्थः । अत्र संयोगविभागयोः अनपेक्षं कारणं कर्मेति सूत्रस्य संयोगे विभागे वानपेक्षं कारणं कर्मेति लक्षणद्वये तात्पर्यम् । तत्र संयोगविभागपदयोर्यधाश्रुतार्थकत्वे कार- णाकारणसंयोगविभागयोः अतिव्याप्तिः तयोः कार्याकार्य संयोगविभागनिरूपितनिरपेक्षकारणत्वात् अतः स्व. प्रयोज्यत्वस्वसामानाधिकरण्योभय संबन्धेन कर्मविशिष्टसंयोगविभागार्थकत्वं वाच्यम् । अत्र प्रयोज्यत्वं कार्या. कार्योभयसाधारणं बोध्यम् । एवञ्च संयोगजसंयोगस्य विभागजविभागस्य वा निरुतोभयसंबन्धेन कर्मविशि- टत्वाभावात् सूत्रस्थसंयोगादिशब्देन तयोरुपादानासंभवेन कारणाकारणसंयोगादौ नातिव्याप्तिप्रसक्तिः। तथाच तादृशसंयोगकारणत्वं तादृशविभागकारणत्वं वा कर्मलक्षणमिति प्राप्तम् । तत्र प्रथमलक्षणे संयोगसमवायिकारणे पूर्वसंयोगविनाशे चातिव्याप्तिवारणाय सूत्रकृता निरपेक्षत्वं कारणतायां निवेशितम् । तत्त्वंच समवाय संबन्धाद. च्छिन्नत्वमेव संयोगसमचायिकारणनिष्टकारणतायाः पूर्वसंयोगनाशनिष्ठकारणतायाश्च समवाय संबन्धावच्छिन्न- स्वाभावेनैव तत्रातिव्याप्त्यप्रसक्तः । नचात्तरसंयोग प्रति विभागस्यापि तादृशकारणत्वात् तत्रातिव्याप्तिरिति वाच्यं विभागं प्रति असमचायिकारणत्वेन कृप्तफिययैवोत्तरसंयोगसंभवे विभागस्य तत्रान्यथासिद्धत्वादतिव्या- प्स्यप्रसक्तेः । एवं द्वितीयलक्षणऽपि विभागसमवाविकारणेऽतिव्याप्तिवारणाय सूत्रकृतोक्तं निरपेक्षत्वं न समवायसंबन्धावच्छिन्नत्व मात्र तथा सति विभागसभवायिकारणऽतिव्याप्त्यमावेऽपि नवीनैकदेशिमते पर- माणुद्वयविभागेऽतिव्याप्त्यापत्तेः तस्य परमाण्वाकाशविभागनिरूपितसमवायसंपन्धावच्छिन्न कारणतावत्त्वात् किन्तु विभागाव्यवहितपूर्वक्षणोत्पत्तिकत्वविशिष्टसमवायसंबान्धावच्छिन्नत्वम् । तथाच विभागाव्यवहितपूर्व- क्षणोत्पत्तिकत्वतादृशविभागनिरूपितसमवायसंबन्धावच्छिन्न कारणत्वैतदुभयवत्वरूपं द्वितीयलक्षणं पर्यवस- नम् । नित्यानी विभागसमवाय कारणानां उत्पत्त्यभावात् अनित्यध्यणुकादः विभागाव्यवहितपूर्वोत्पत्त्यभा- वाञ्च विभागसमवायिकारण नातिव्याप्तिः परमाणुद्वयविभागस्य तु पूर्व संयोगनाशाहिद्वारककारणतावत्वेन विभागाच्यवहितपूर्वायत्त्यभावात् न तत्राप्यतिव्याप्तिः । कारणतायां समवायसंबन्धावच्छिन्नत्वनिवेशात् प रमाण्वाकाश विभाग जनकवरणुकनाशे नातिव्याप्तिः इत्थंच परमाणुद्वयविभागाव्यवहितोत्तरक्षण एव परमा- वाकाशविभागस्वीकारे विभागघटितकर्मलक्षणात्य परमाणुद्वयविभागेऽतिव्याप्त्यापत्त्या परमाणुद्वयसंयोगादि. नाशानन्तरमेव परमायाकाशविभागो वाच्य इति निरपेक्षस्य तत्त्वे कर्मत्वं स्वादिति ग्रन्थस्य विश्वनाथप- चानननिगूढतात्पर्यविपया इति प्रतिभाति । स्वतन्त्रास्तु संयोगविभागयोः अनपेक्षं कारणं कर्मेति लक्षणद्व- यप्रतिपादक सूत्रस्थसंयोगपदं संयोगाजन्य संयोगपरं सूत्रस्थविभागपदं च विभागाजन्यविभागपरं नातः सं- योगाद्यसमायि कारणसंयोगादावतिव्याप्तिः । तादृशसंयोगादिसमवाथिकारणे तादृशसंयोगकारणपूर्व संयो- गनाशे चातिव्याप्तिवारणाय सूत्रेऽनपेक्षपदम् । तदर्थश्च समवाय संबन्धावच्छिन्नत्वं कारणताविशेषणम् । ए- वंच संयोगादिसमवायिकारण निष्ठकारणताया: पूर्वसंयोगनाशनिष्ठसंयोगकारणतायाश्च समवायसंबन्धावच्छि. नत्वाभावान्न तत्रातिव्याप्तिः । इत्थंच परमाणुद्वयविभागोत्पत्त्यव्यवहितोत्तरक्षणे परमावाकाशविभागोत्पत्ता वपि न परमाणुद्वयविभागेऽतिव्याप्तिः परमाण्वाकाश विभागस्य विभागाजन्यविभागरूपत्वाभावेन क्रियाज- न्यतावच्छेदकवैजात्यशून्यत्वात् । तस्मात् तादृशवैजात्याश्रयनिरूपित्तासमवायिकारणत्वलक्षणस्य प. दिनकरीयम्. स्यातिव्याप्तिः । संयोगविभागयोरनपेक्षं कारणं कर्मेति सूत्रस्य संयोगस्य विभागस्य वानपेक्षं कारणं कर्मेति लक्षणद्वये तात्पमित्यभिप्रायेण द्वितीयलक्षणस्य तत्रातिव्याप्त्यभिधानमिदम् । वस्तुतस्तु संयोगविभागयो. रनपेक्षं कारणं कर्मेति सूत्रं तत्र संयोगस्यानपेक्षं कारणामित्युक्तो कारणाकारणसंयोगेऽतिव्याप्तिस्तस्य का. र्याकार्यसंयोगे किञ्चिदनपेक्ष्य कारणत्वात् एवं विभागस्यानपेक्षमित्युक्तौ कारणाकारणविभागेऽतिव्याप्तिरत उक्त संयोगविभागयोरिति । अनपेक्षत्वं व खोत्तरोत्पन्नभावानपेक्षन्वम् । अन्यथा कर्मणोऽपि संयो. गजनने द्रव्यस्य पूर्वसंयोगनाशस्थ चापेक्षणादसम्भवापत्तेः । विभागासमवायिकारणत्वे सति संयोगहेतुत्वं वा -