पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता। प्रभा. रमाणु पविभागेऽतिव्याप्य नस केः निरपेक्षस्य तत्त्वे कर्मत्वं स्यादिति कर्मलक्षणस्य परमाणुद्वयविभागेऽतिव्या. प्तिप्रतिपादकमुक्तावळी प्रन्यस्त्वलग्न एवेत्याहुः । केचित्तु तत्त्वे विभागजनकत्वे कर्मत्वं कर्मलक्षणस्यातिव्याप्तिः संयोग विभागयोरनपेक्षं कारणं कर्मेति सूबे संयोगस्य विभागस्य वानपेक्षं कारणं कर्मेति लक्षणद्व ये ता- स्पर्यामिमानेन द्वितीयलक्षणस्य तत्रातिव्याप्त्यभिधानमिदं । वस्तुतस्तु संयोगविभागयोर नपेक्षं कारणं कर्मेति सूत्रं तत्र संयोगस्यानपेक्षं कारणमित्युक्तौ कारणाकारणसंयोगेऽतिव्याप्तिः तस्य कार्याकार्यसंयोगे किंचिदन- पेक्ष्य कारणत्वात् । एवं विभागस्यानपेक्षं वारणमित्युक्तौ कारणाकारणविभागेऽतिव्याप्तिः अत उकं संयो- गविभागयोरिति । अनपेक्षत्वं च स्वोत्तरोत्पन्नभावानपेक्षत्वं अन्यथा कर्मणोऽपि संयोगजनने द्रव्यस्य पूर्व- संयोगनाशस्य चापेक्षणातू असंभवापत्तेः । विभागासमवायिकारणत्वे सति संयोगहेतुत्वं वा तत् । पूर्वदेशवि- भागस्तु नोत्तरदेशसंगोगे कारणं व्यवहारामावेनान्यथासिद्धेः संयोगस्य विभागं प्रति कारणत्वाभावादेव नासमनायिकारणत्वमिति न तत्रातिव्याप्तिः । इत्थंच कारणमात्रविभागस्य पूर्वदेशसंयोगनाशं द्रव्यनाशं वा अनपेक्ष्य कारणाकारणविभागजनकत्वेऽपि न तत्रातिव्याप्तिः तस्य विभागज न कत्वेऽपि संयोगविभागोभयज- नकत्वाभावादिति ध्येयमित्याहुः । तदसत् घरमाशुद्धयविभागस्य परमाण्वाकाशविभागनिरूपितनिरपेक्षका- रणत्वपक्षे परमाणुद्वयविभागे द्वितीय कर्मलक्षणस्य विश्नाथपञ्चाननकर्तृकातिव्याप्तिप्रतिपादनस्य संयोगवि - भागयोरित्यादिसूत्रस्य लक्षणद्वयतात्पर्यावषयकभ्रममूलकत्वे कार्याकार्यविभागनिरूपितनिरपेक्षकारणतया स. र्वमतसिद्ध कारणाकारणविभागेऽतिव्याप्तिमनुपन्यस्य परमात्राकाशविभागासमयायिकारणतया एकदेश्य नुम- तपरमाणुद्वयविभागेऽतिव्याप्तिप्रतिपादनस्य निजित्वापत्ते; परमाणुद्वयविभागस्य परमाण्वाकाशविभागं प्रति निरपेक्षकारणत्वानीकर्तृमतेऽपि कारणाकारणविभागेऽतिव्याप्ल्यापत्तेर्दुवारत्वात् । तस्मानिरपेक्षस्य तत्व इत्या- दिग्रन्थस्यास्मदुत्कार्थ एव विश्वनाथपञ्चानन तात्पर्यय अवश्यमङ्गीकरणीयत्तया तादृशग्रन्थस्य तदीयाभिमानमू- लकत्ववर्णन स्वीयाभिमानमूलकमेव । एवं वस्तुतस्त्वित्यादिना कार्याकार्ययोसंयोगविभागजनककार- णाकारणसंयोगादावतिव्याप्तिवारणाय सूत्रस्य संयोगजनकत्वविभागजनकत्वोभयवत्व रूपैकलक्षणपरत्व. स्वीकारोऽप्ययुक्तः सूत्रस्थसंयोगादिपदयोः संयोगादिविशेषपरत्वस्वीकारेणैव कारणाकारणसंयोगादाव- तिव्याप्तिवारणे संयोगादियघटितस्य तजनकत्वद्रयघटितस्य व एकलक्षणस्य गौरवेण सूत्रस्य तत्परत्वाभावात् । यञ्चोकं तादृशजनकताद्वयघटितैकलक्षगस्य समवायिकारणेऽतिव्याप्तिवारणाय सूत्रो- पासानपेक्षश्वस्य द्रव्यादिसहकृतकर्मसाधारण्यायानपेक्षत्वं स्वोत्तरोत्पन्नभावानपेक्षत्वरूप मिति तदप्युक्तम्। समवायसंबन्धावच्छिन्नत्वरूपनिरपेक्षत्वस्य कारणताविशेषणत्वस्वीकारेणैव उक्तातिव्याप्तिवारणे गुरुभू- तस्वोत्तरोत्पन्नभावानपेक्षत्ररूपनिरपेक्षत्वम्य उकल क्षणघटकतायां मानाभावात् स्वत्वस्याननुगततया ख- पदार्थभूतैकैककर्मव्यक्तयुत्तरोत्पन्नभावानपेक्षत्वविशिष्टनिरुक्तजनकत्ताद्वयवत्व रूपलक्षणस्यान्यक्रियायामसत्त्वे.- नाव्याप्त्यापत्तेः । स्वोत्तरोत्पन्नभावानपेक्षं यद्यत्स्वं तत्तद्वयक्तित्वावच्छिन्न प्रतियोगिताकभेदकूट विशिष्टनि- रुक्तजनकताद्वयवत्त्वस्यातिगुरुत्वा यत्वाच लक्षणत्वासंभवाच । यच्च विभागासमवाथिकारणत्वे ति संयोगहेतुत्वं वा तदित्यादिनातिव्याप्त्यादिदोषरहितताशजनकताद्वयघटितलघुभूतै कलक्षणकरणं त. दपि न सम्यक् तथा सति सूत्रोपात्तनिरपेक्षत्वरूपविशेषणवैययेन सूत्रविरोधापत्तेः । नच वि- भागासमवायिकारणत्वम्य समवायसंबन्धावच्छिन्नकारणताघटिततया तत्र समवायसंबन्धावच्छिन्नत्वरू. पनिरपेक्षत्वस्यापि घटकतया न तद्विरोध इति वाच्यम्। तथापि ताशनिरपेक्षत्वस्य संयोगहेतुतायां प्र. योजनाभावात् विशेषणत्वासंभवेन उभयत्र सिरपेक्षत्वप्रतिपादकसूत्रावरोधापत्तीरत्वात् । नच विभागा- समवायि कारणविभागस्यापि कालविश्वया संयोगहतुत्वादति व्याप्ति वारणाय संयोगहेतुतायामपि समवाय- संबन्धावाच्छन्नत्वरूपनिरपेक्षत्वानवेशस्यावश्यकतया न सूचविरोधप्रसक्तिारात वाच्यं तथाप्य कलक्षणस्य तादृशज्ञन कताद्वयधांटतत्वेन गौरवस्य दुरित्वात् । तस्मात्सूत्रस्थसंयोगादिपदस्य संयोगादिविशेषपरत्व - स्वीकारेणैव एकैकतादृशजन करवस्य निर्दुष्टत्वेन लघुत्वेन च क्षणत्वसंभवात् सूत्रस्य लक्षणद्वयपर- 86