पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नुक्तावलो-प्रभा-दिनकरीयसमन्विता । नैयायिकानां तु नये यणुकादावपीष्यते । नैयायिकानामिति ॥नैयायिकानां मते द्वषणुकाद्यवयविन्यपि पाको भवति । तेषामयमाशयः। अवयविनां सच्छिद्रत्वाद्वः सूक्ष्मावयवैः संयुक्तेषु सत्स्वन्त:प्रविष्टैरवयवेववष्टब्धेष्वपि पाको न विरुध्यते अनन्तावयवितन्नाशकल्पने गौरवम् । इत्थंच सोऽयं घट इत्यादिप्रत्यभिज्ञा स- प्रभा. द्वयणुकनाशश्व ततः द्वश्णुकान्तरोत्पत्तिः ततः रक्काद्युत्पत्तिरिति । एवमग्निसंयोगात् परमाणौ द्वयणुकनाशक कर्म तदैव परमाण्वन्तरे द्वषणुकान्तरारम्भानुगुणक्रियाजनकादृष्टविशेषसहकृतारन्यन्तरसंयोगश्च ततः परमा- गुद्वयविभागः परमाण्वन्तरे द्वथणुकान्तरारम्भानुगुणक्रिया च ततः परमाणुद्वयसंयोगनाशः परमाण्वन्तरस्य पूर्वदेशविभागश्च ततो द्वषणुकनाशः परामाण्वन्तरैतत्परमाण्वोः आरम्भकसंयोगनाशश्च तत उत्तरसंयोगः ततः द्वयणुकान्तरोत्पत्तिः ततः रक्ताद्युत्पत्तिरिति च रीया द्वित्रिचतुर्ष क्षणेषु द्वथणुकान्तरस्य रूपादिमत्वं सुकरमेवेल्याहुः । तन्न । द्वयणुकना शक्षणे द्वयणुकान्तरोत्पत्तिर्न संभवति पूर्वक्षणे परमाणौ प्रतिबन्धकीभूत- द्वयणुकसत्त्वेन तदभावरूपकारणाभावात् द्रव्यवति द्रव्यान्तरानुत्पत्त्या समवायेन द्रव्यं प्रति समवायसंबन्धा. वच्छिन्न प्रतियोगिताकद्रव्याचभावस्य हेतुतायाः सकलतन्त्रसिद्धत्वात् द्वयणुकनाशात्पूर्व आग्नयन्त्रनिक्षिप्त. घटारम्भकपरमाणूनां सर्वेषामपि श्यामत्वेनारक्ततया तेषां श्यामनाशक्षणे रफसमवायिद्वषणु- कान्तरोत्पादकत्वासंभवात उदासीनर कपरमाण्वन्तरेण एतत्परमाणोत्संयोगात् रक्तद्वयणुकोत्पत्तेर्निरस्तत्वाञ्च द्वितीयक्षणे रूपादिमत्वासंभवात् श्यामादिनाशक्षणे द्वयणुकान्तरोत्पत्तिस्वीकारे व घणुकनाशक्षणे द्वषणुकान्त- रोत्पत्तिस्वीकारपक्षे उक्तदूषणत्रयमध्ये प्रथमदोषासंभवेऽपि दोषद्वयस्थाविशिष्टत्वात् तृतीयक्षणे रूपादिमचा- संभवात् रक्ताद्युत्पत्तिक्षणे द्वयणुकान्तरोत्पत्तिर्न संभवति पूर्वक्षणे परमाणोः अरकत्वात् नीरूपत्वाच चतुर्थ- क्षणेऽपि रूपादिमत्त्वासंभवादिति दिक् ॥ १५ ॥ घणुकाद्यवयविन्यपीति ॥ द्वयणुकादिचरमावयविपर्यन्तावयविसमुदायेऽपीत्यर्थः। अपिशब्दात् परमाणु- परिप्रहः ॥ पाको भवतीति ॥ विजातीयतेजस्संयोगाधीनपूर्वरूपादिनाशपूर्वकपूर्वरूपादिविजातीयरूपाात्प. त्तिर्भवतीत्यर्थः । तदुत्पत्तिप्रकारभेवाह ॥ तेषामिति ॥ नैयायिकानामित्यर्थः । अयमाशय इति॥आशयोऽ. यमिति योजना । अभिप्रायो वक्ष्यमाण इत्यर्थः । ग्राह्य इति शेषः । आशयमेवोपपादयति ॥ अवयविना- मिति ॥ घटादीनामित्यर्थः ॥ सच्छिद्रत्वादिति ॥ वह्नेः सूक्ष्मावयवानां प्रवेशमात्रयोग्यच्छिद्रवत्त्वात्य स्वभावसिद्धत्वादित्यर्थः ॥ वह्नस्सूक्ष्मावयवैरिति ॥ वह्नयुपादानद्वयणुकत्र्यणुकरूपावयवैरित्यर्थः ॥ संयुः तेषु सत्स्विति ॥ घटादिरूपावयविधिवत्यादिः ॥ अन्तःप्रविष्टैरिति ॥ अवयव्यन्तःप्रविष्टैः वहेस्सू. क्ष्मावयवैरित्यर्थः । तृतीयार्थः प्रतियोगित्वं तस्य पाकपदार्थविजातीयतेजस्संयोगेऽन्वयः ॥ अवयवेवय. न्धेवपीति ॥ अवयविना सहेत्यादिः । अव यविनावष्टब्धेष्व वयवेष्वपीत्यर्थः । अपिना अवयव्यनवष्ट- धावयवपरिग्रहः ॥ पाक इति ॥ पूर्वरूपादिनाशपूर्वकपूर्वरूपादिविजातीयरूपायुत्पत्तिफलकविजातीयतेज- संयोग इत्यर्थः । न विरुध्यत इति । अवयविना न बाध्यत इत्यर्थः । घटादेः सच्छिद्रत्वात् तस्य ध- टोपादानयावदवयवेषु वयवयवप्रतियोगिकविजातीयतेजस्संयोगविघटकत्वासंभवादिति भावः । अवयधि- नाशानङ्गीकारे बाधकाभावमुक्ता तदङ्गीकारे बाधकमप्याह ॥ अनन्तावयवीति । इत्थंचेति ॥ अवय- दिनकरीयम्. अवयविन्यपीत्यपिना परमाणुपरिग्रहः ॥ तेषाम् नैयायिकानाम् ॥ अयं वक्ष्यमाणः॥ अपएब्धे. ज्वपीति ॥ अवयविनावष्टब्धेष्वपीत्यर्थः ॥ पाकः रूपादिपरावृत्तिः ॥ न विरुध्यत इति ॥ साक्षात्पर- म्परासाधारणसकलावयवावच्छेदेन तेजःसंयोगस्य रूपादिनाश हेतुत्वे मानाभावेनारम्भकसंयोगावच्छेदेन विजातीयतेजःसंयोगादेव रूपादिनाशसम्भवेऽप्यारम्भ कसंयोगावच्छेदेन तेजःसंयोगस्याभिघातादेस्तदानीं तत सद्भावे मानाभावेन पूर्वांकरीत्या अवयविनाशस्याप्रसकः सर्वावयवावच्छेदेन तेज संयोगस्य रूपादिनाशक