पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा मा-दिनकरी यसमन्विता। नेकानयोऽभ्युपयते ।प्रथममपेक्षाबुद्धिस्ततो द्वित्वोत्पत्ति; ततो विशेषणज्ञानं द्वित्वत्वनिर्विकल्पा- प्रभा. न्यूनवृत्त्येकत्वस्यापि द्वित्वाधारतावच्छेदकत्वसंभवात् । नहि कारणतावच्छेदकत्वादाविचाधिकरणतावच्छेद- करवेऽपि अन्यूनानतिरिक्तवृत्तित्वं नियामक तथा सति पृथिवी दव्यश्ववती पृथिवी नीलरूपवतात्याद्यभ्रान्त- प्रतीत्यनापत्तेः पृथिवीत्वस्य द्रव्यस्त्राधिकरणतान्यूनवृत्तित्वात् नीलानीलाधिकरणतातिरिक्तवृत्तित्वाच । तस्मा- द्विषयतावच्छेदकत्व इवाधिकरणतावच्छेदकत्वेऽपि अन्यूनानतिरिक्तवृत्तित्वं न नियामकम् । एवं चातिरिक्त- पर्याप्त्यनङ्गीकारे समवायेन द्वित्तवति द्वित्ववद्धेदाभावेन एकत्वादेः द्वित्ववद्भेदयधिकरणतया तदनवच्छेदक- स्वादित्यनुत्तवा न्यूनवृत्तितया द्वित्ववद्भेदानवच्छेदकत्वादित्य सङ्गततात्पर्यवर्णने बीजं मृग्यामिति ॥ पर्याप्ति- लक्षण इति । पर्याप्तिस्वरूप इत्यर्थः ॥ कश्चनेति ॥ कृप्तसंबन्धातिरिक्त इत्यर्थः ॥ अनेकाश्रय इति ॥ व्यक्तिद्वयादाचेवेत्यर्थः । तथाचैकत्वविशिष्टे पर्याप्तिसेवन्धेन द्वित्वाभावात्तेन संबन्धेन द्वित्वव दस- स्वाचको द्वाविति प्रत्ययाभावः एको न द्वाविति प्रत्ययचोपपद्यत इति भावः । जगदीशतकालङ्कारप्रभृतय- स्तु उभयादेः प्रत्येकानतिरिक्ततया उभयादौ वर्तमानपर्याप्तिरे कैकव्यक्तावपि अवश्यमङ्गीकार्येत्याहुः । तन्मते केवलपर्याप्तः द्वित्वादिसंबन्धत्वस्वीकारेण उक्तदोषवारणासंभवात् उद्देश्यतावच्छेदकव्याप्यत्व विशिष्टपर्याप्तरेख द्वित्वादिसंबन्धत्वं वाच्यम् । एवंच द्वित्वादिपर्याप्तत्विादिरूपतया एकत्वव्याप्यद्वित्वादिपर्याप्तरप्रसिद्ध्या एको द्वाविति प्रत्य याभावः उभयत्वादिव्याप्यद्वित्वादिपर्याप्तः प्रसिद्धतया तादृशपर्याप्त्यव्याप कैकत्वावच्छेदेन ता. दृशपर्याप्तिसंबन्धेन द्वित्ववद्भेदसत्त्वात् एको न द्वाविति प्रत्ययश्रोपपादनीयः । एको द्वित्ववानिति प्रत्ययः एको न द्वित्ववानिति प्रत्ययाभावश्च द्वित्वनिष्टप्रकारतायां तनिष्ठभेदप्रतियोगितावच्छेदकतायां चावच्छेदकसंवन्ध. तथा समवायस्य भानमङ्गीकृत्यैव समर्थनीय इति । अन्ये त्वाकाशाविति वाक्यस्य प्रामाण्यापत्या पर्याप्त्य- ङ्गीकार आवश्यकः नच समवायेनेव पर्याप्तिसंबन्धेन द्वित्वस्याकाशे सत्त्वात् पर्याप्त्यजीकारेऽपि तद्वाक्य- स्यापि प्रामाण्यापत्तिर्दुवारयति वाच्यं उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेरेव द्वित्वसंवन्धत्वोपगमात् आकाशवव्याप्य द्वित्वपर्याप्तेरप्रसिद्धत्वात् द्वित्वपर्याप्तत्विस्वरूपतया तस्य घटादावपि सत्वात् नचोद्देश्य- तावच्छेदकव्याप्यत्वविशिष्टसमवायस्य द्वित्व संसर्गता स्वीकृत्य आकाशाविति प्रयोगवारणसंभवादलं पर्या- प्त्येति वाच्यं तथा सति घदाचिति प्रयोगस्य प्रामाण्यानुपपत्तेः समवायस्य एकत्वेन घटत्वव्याप्यसमवाय- स्याप्रसिद्धारेत्यन्यत्र विस्तर इत्याहुः । तन आकाशे समवायसंबन्धेन द्वित्वरूपपर्याप्तिसंबन्धेन वा द्वित्व सत्वेऽपि सुपामुद्देश्यतावच्छेदकव्याप्यसङ्ख्या बोधकत्व नियमेन आकाशत्वव्याप्यद्वित्वसङ्ख्याया अप्रसिद्धत्वादेव आकाशा- विति वाक्यस्य प्रामाण्यापत्तिबारणे विशिष्टपर्याप्तिस्वीकारस्यानावश्यकतया उक्तरीत्यातिरिक्तपर्याप्तिसाधना. संभवात्। यच्चोक्तं समवायेनेव द्वित्वात्मकस्वरूपसंवन्धेनापि द्वित्वस्याकाशे सत्त्वात् पर्याप्तिस्वीकारेऽपि ताद- शवाक्यस्य प्रामाण्यापत्ति वारयितुं उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तरेव द्विस्वसंबन्धत्वात आकाशत्व- व्याप्यद्वित्वपर्याप्तेर प्रसिद्धत्वात् इति । तदप्ययुक्तम् । तथा सति आकाशो द्वित्ववानिति प्रत्ययस्यानापत्तेः तादृशवाक्यस्य प्रामाण्यानुपपत्तेश्च तादृशपर्याप्तेर प्रसिद्धत्वाद पर्याप्तेरेवेत्येवकारेणान्यस्य द्वित्वसंबन्धत्वनि- राकरणात् । मन्मते तु सुपामुद्देश्यतावच्छेदकव्याप्यसङ्खयाबोधकत्वनियमेनाकाशावित्यादिवाक्यस्यैवाप्रामा. व्यं द्वाविति प्रत्ययमात्रस्योद्देश्यतावच्छेदकव्याप्यपर्याप्तिसंवन्धेन द्वित्वप्रकारकत्वात् आकाशो द्वाविति दिनकरीयम्. देन द्वित्ववद्भेदाभावादेकत्वादेन्यूँनवृत्तितया द्वित्वबढ़ेदानवच्छेदकत्वादिति भावः ॥ अनेकाश्रय इति ॥ उभयाद्याश्रय इत्यर्थः । तथा च तादृशप्रतीतेन द्विववद्भेदाधारतावच्छेदकत्वमेकत्वे विषयः किं तु पर्याप्ति- सम्बन्धेन द्वित्वं तद्वद्भेदो वा एकत्वावच्छिन्ने प्रकार: इत्थं च पर्याप्तिसम्बन्धेन द्वित्वस्य प्रत्येकमभावादेको दावि त्यप्रत्ययस्यैको न द्वाविति प्रत्ययस्य चोपपत्तिरिति भावः । अत्र बहवः उभयादेः प्रत्येकानतिरिक्ततया प्रत्येक मपि पर्याप्तिसम्बन्धेन द्वित्वमस्त्येवेति पर्याप्त्यङ्गीकारेऽप्येको द्वावित्यप्रत्ययस्यैको न द्वाविति प्रत्ययस्य च कथमु. पपत्तिः यदि चैको न द्वाविति प्रतीतिबलात् द्वित्ववढे दावच्छेदकत्वं स्वरूपसम्बन्धविशेषरूपमेकत्वे स्वीकियते 88