पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । स्यात् न तु द्वित्वप्रत्यक्षं तदानीं विषयाभावात् । विद्यमानस्यैव चक्षुरादिना ज्ञानजननोपग- मात् । तस्मादित्वप्रत्यक्षादिकमपेक्षाबुद्धेर्नाशकं कल्ल्यते । नचापेक्षाबुद्धिनाशात कथं द्विवनाश प्रभा. अपेक्षाबुद्धे शादिति ॥ अव्यवहिनपूर्वक्षणे कारणतावच्छेदक संबन्धेन गुणत्वावच्छिन्नरूप कारणसत्वा- दिति भावः ॥ द्वित्वस्यैव नाश इति ॥ द्वित्वस्य नाश एवेत्यर्थः ॥ नतु द्वित्वप्रत्यक्षमिति ॥ द्वि- स्वत्वावच्छिन्नद्वित्वनिष्टलौकिकविषयताशालिप्रत्यक्षं वापि गोत्यत्तुमर्हतीत्यर्थः । तदानीं विषयाभावा- दिति ॥ द्वित्व प्रत्यक्षोत्पत्तिक्षणे विषय रूप कारणाभावादित्यर्थः । ननु त दानी विषयाभावेऽयव्यवहितपूर्व- क्षणे द्विःवरूपकारण सत्त्वात् न तत्प्रत्यक्षानुपपत्तिः अत आह ॥ विद्यमानस्यैवेति ॥ उत्पत्स्यमान प्रत्यक्ष- समानकालीनस्यैवेत्यर्थः ॥ चक्षुरादिनेति ॥ ज्ञाने चक्षुरादिकरणकत्वनिवेशनं लेकिकविषयताशालिप्र- त्यक्षलाभाय इन्द्रियकरणकायैव लौकिक विषयतामालित्वात् स्वासमानकालीनपदार्थनिष्टलौकिक विषयताशा- लिस्वात्मकप्रत्यक्षस्यालीकत्वादिति यावत् । तथाच प्रत्यक्ष विषयस्य कार्याव्यवहितपूर्वकालवृत्तिय कार्यकाल- वृत्तित्वाभ्यामेव हेतुत्ववीकारात् विवादिनिर्विकल्पककाले अपेक्षायुद्धे नाशस्वीकारे ताशनिर्विकल्पोत्पत्ति- द्वितीयक्षणे दित्वादिरूरविषयस्यापि नाशात् तदा ताशिबिषयरूप कारणाभावेन विवादिनिटलौकिकविषय- ताशालिस विकल्पात्मकप्रत्यक्षोत्पत्तिर्न स्यात् । न चेष्टा पत्तिः तदुत्तरं दिवं साक्षात्करोमि इत्यायनुव्यवसायो न स्थादिति भावः ॥ तस्मादिति ॥ दिश्वत्वावच्छिनदित्वनिष्टलौकिकविषयताशालिप्रत्यक्षानुपपत्तिरूपबा- धकवशादित्यर्थः ॥ द्वित्व प्रत्यक्षादिकमिति ॥ द्विवत्पादत्वनिष्ठलौकिकविषयताशालिनिर्विकल्पकादिक- मेवेत्यर्थः । आदिना लित्वत्वत्रित्वनिटलौकिकविषयताशालिनिर्विकल्पकादेः परिग्रहः ॥ अपेक्षाबुद्धर्ना- शकमिति ॥ अपेक्षाबुद्धेनाशजनकमित्यर्थः ।। कल्प्यत इति ॥ स्वीक्रियत इत्यर्थः । तथाच प्रतियोगि- तासंबधेनापेक्षाबुद्धिनाशं प्रति स्वप्रागभावाधिकरणक्षणवृत्तित्वस्व समानकालीनत्वोभयसंबन्धेन गुणत्येच हे. तुत्वस्य पूर्वोक्तस्य आवश्यकतया तादृशकारणबलात् द्वित्वसविकल्पकक्षण एचापेक्षा बुद्धेना शसंभवेन तादृश- सविकल्पकोत्पत्तिद्वितीयक्षण एवं द्विवादिनाशान्न तादृशसविकल्पकानुपपत्तिरिति भावः । यत्तु दिनादिनि- विकल्पकक्षणेऽपेक्षाबुद्धिनाशस्वीकारे द्वित्वादिनिष्टलौकिकविषयताशालिसरिकल्प कासंभवेऽपि तनिष्ठालौकिक- विषयताशालिप्रत्यक्षे बाधकाभावात् अपेक्षाबुद्धेः क्षणत्रयावस्थायित्वकल्पनमफलम् । नचैवं सति द्वित्वत्वादि- निर्विकल्पकोत्तरं द्वित्वत्वादिप्रकारकदित्वादिविशेष्यकप्रत्यक्षानुपपत्तिः उपनीत विशेषणतयैव भासत इति नियमानिर्विकल्पकस्य विशेषणतावच्छेदकप्रकारकज्ञान मकत या दिवत्वविशिष्ट प्रकारकज्ञानस्याम्यसंभवा.. दिति वाच्यम् तदानी च संयोगघटितद्रव्य ग्राहकसामयाः आवश्यकत्वेन दिवविशेष्यकप्रत्यक्षासंभवेऽपि घटपटौ द्वाविति विशेष्ये विशेषणमिति रीत्या घटायो लौकिकस्य दिवांशेऽलौकिकस्य प्रत्यक्षस्योत्पत्तौ बाधकाभावादिति । तन । प्रचीनमते निर्विकल्पकस्याप्रत्यासतित्वेन विशेष्ये विशेषणमिति रीत्यापि ताह- शाज्ञानासंभवात् तादृशज्ञानानन्तरं द्वित्वं साक्षात्करोमीप नुव्यवसायानुपपत्तेव लौकिकविषयताया एवं साक्षात्कारत्वव्यजकत्वात् । तस्मादपेक्षाबुद्धेः विक्षणावस्थायित्वं अनायत्याही कार्यामिति प्राचीननवी- नमतासिद्धान्तः । नबीनमतानुयायिनस्तु अपेक्षावुद्धे स्त्रक्षणावस्थायित्वे मानाभावः । नच तादृशानुव्यवसा- यानुपपत्तिः द्वित्वोत्पत्तिकालोपत्तिकपूर्वानुभवजनितसंस्कारजन्यदित्वत्व प्रकारकम्मरणात दित्वोत्पत्तिद्वितीय- यक्षणे लौकिकवित्वत्वविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षोत्पत्तिसंगवेन ताशप्रत्यक्षमादायोक्तानुव्यसायोपपत्तेः । दिनकरीयम्. प्रत्यक्षानुपपत्तिरत आह ॥ विद्यमानस्यैवेति ।। सम्बद्धं वर्तमा व गृह्यते चक्षुरादिनेत्यनुलोधाल्लौकि- कप्रत्यक्ष प्रति द्वित्वादेविधयस्य कार्यसमावेन हेतुत्वादिति भावः । ननु योग्यविमुचिशेषगुणनाशं प्रांत स्वोत्तरवर्तिविशेषगुणत्वेन हेतुतयापेक्षाबुद्धयुत्तरक्षणोत्पन्न मृत्या संस्कारेण वापेक्षा बुद्धिनाशः कन चारणीय इत्याशङ्कामुपसंहारव्याजेन परिहरति । तस्मादिति ॥ द्वित्वप्रत्यक्षादिकमिति ॥ द्विवद्विन्वा निर्वि कल्पकमित्यर्थः । आदिना त्रिलदिपूधस्त्वादिप्रत्यक्षपारग्रहः । योग्यविभुति सेषगुणत्वस्वा स्वत्वस्य चानुगतः