पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । शक इति कल्पनात् । अत एव तत्पुरुषीयापेक्षाबुद्धिजन्यद्वित्वादिकं तेनैव गृह्यत इति कल्य. ते । नचापेक्षाबुद्धेर्द्वित्वप्रत्यक्षे कारणत्वमस्त्विति वाच्यं लाघवेन द्वित्वं प्रत्येव कारणत्वस्यैवोचि- प्रभा. एवेत्यर्थः ॥ तन्नाशक हति ॥ द्वित्वादिनाशाजनक इत्यर्थः ॥ इति कल्पनातू इत्याकारककल्पनायाः आ- वश्यकत्वादित्यर्थः । तथाच द्रव्यनाशं प्रत्यसमवायिकारणनाशहेतुतायाः कृततया प्रकृते द्वित्वादनाशं प्रत्य- पि द्वित्वायसाधारणकारणापेक्षाबुद्धिनाशस्यैव कारणत्वं स्वीक्रियत कारणनाशस्य कार्यनाशहेतुतायाः कृप्तत्वात् नान्यस्य अकृप्तत्वादिति भावः । नन्वपेक्षाबुद्धेर्दित्वादिहेतुत्वे चैत्रीयापेक्षाबुद्धिजन्यदित्वस्य चैत्रस्येथापे- क्षाबुद्धिशून्यमैत्रत्यापि प्रत्यक्षापत्तिः सन्निकर्षादिघटितसामय्यास्सत्त्वात् अत आह ॥ अत एवेति ॥ अ- पेक्षाबुद्धेः द्वित्वादिहेतुत्वस्य आवश्यकत्वादेवेत्यर्थः ॥ तेनैव गृह्यत इति ॥ तद्भिन्नपुरुषेण न गृह्यत इत्य- र्थः ॥ इति कल्प्यत इति ॥ इत्यहीक्रियत इत्यर्थः । तथाच दित्वादिनिष्ठलौकिकविषयतासंबन्धेन तत्पु- रुषर्षीय प्रत्यक्षव्याक्तिं प्रति तत्पुरुषीयापेक्षाबुद्धिजन्यदित्वादेः तादात्म्य संबन्धेन तत्तव्यक्तित्वेन हेतुत्वस्वीकारात् नोक्कापत्तिरिति भावः । केचित्तु नन्वपेक्षायुद्धीदत्वोत्पादकत्वे चैत्रीयापेक्षाबुद्धिजन्यद्वित्वस्यापेक्षाबुद्धिशू- न्येन मैत्रेण प्रहणापत्तिः सन्निकर्ष दिघटितसामथ्यासत्वात् तदारणाय विषयतासंबन्धेन तत्पुरुषीयदित्वन - त्यक्षे तद्भिन्न पुरुषीयापेक्षाबुद्धिजन्यदित्वादेः तादात्म्यसंवन्धेन प्रतिबन्धकताकल्पने गौरवमत आह ॥ अत एवेति ॥ पूर्वोक्तयुक्त्यापेक्षाबुद्धेर्दिवोत्पादकत्वस्यावश्यकत्वादेव ॥ तनैव गृह्यत इति कल्प्यत इति ॥ तद्भिनेन न गृह्यत इति कल्प्यत इत्यर्थः । तथाच अन्यथानुपपत्त्या पूर्वोक्त प्रतिवध्य- प्रतिबन्धकभाचकल्पनं न दोषायेति भाव इत्याहुः । तदसत् लौकिकप्रत्यक्षे विषयहेतुतायाः कृतत्वात् मदु- करीत्यै वोक्तापत्तिबारणे पुरुषभेदेन प्रतिवध्यप्रतिबन्धकभावकल्पनाया गौरवप्रस्तत्वात् विषयतासंबन्धेन तत्पुरुषीयप्रत्यक्षे तदन्यपुरुषायापेक्षाबुद्धिजन्यदित्वस्य तादात्म्येन प्रतिबन्धकत्वे तादृशसकलद्वित्वेषु तद- न्यपुरुषीयापेक्षावुद्धिजन्यदित्वत्वस्य जन्यत्वघटितत्वेनाननुगततया अनुगतरूपाभावेन तत्तयक्तित्वावच्छि- नप्रतियोगिताकभेदकूटस्य हेतुत्वावश्यकतया बहनों हेतुत्वकल्पनेन विषयनिष्टकृप्तहेतुत्वस्याप्यङ्गीकारेण अ. तिगौरवाच्च । तस्मादत एवेत्यादिमुक्तावळीग्रन्थस्योक्तरीत्या तात्पर्यवर्णनं मूलकारानभिप्रेतमेवेति प्रतिभा ति । स्वतन्त्रास्तु कुनैकत्वयादिविषयकत्वेनैव द्वावित्यादिप्रत्ययोपपत्तेः अतिरिक्तद्वित्वादिसङ्खथायां प्रमाणा. भावः नचैकवद्यस्य क्वाप्यवर्तमानतया कुत्रापि दावित्यादिप्रत्ययानुपपत्तिरिति वाच्यम् द्वित्वत्वादेरेतन्मते एकत्वयान्यतरत्वादिरूपतया अयमे कोऽयमेक इत्याकारकबुद्धिविषयत्वरूपतया वा तादृशद्वित्वत्वाद्यवच्छि. नस्य पर्याप्तिसंबन्धेनैकलावर्तमानतयोभयत्र वर्तमानतया च एको दावित्यादिप्रत्ययत्यैको न दाविति प्रत्य. यस्य चोपपत्तेः । अपेक्षाबुद्धेः तादृशदित्वादिप्रत्यक्षहेतुत्वस्वीकारात् न सर्वदा द्वित्वादिप्रत्यक्षापत्तिः एवं चा- पेक्षाधुद्धिव्यक्तिभेदेन द्वित्वाद्यकल्पनेन तन्नाशाकल्पनेन तत्सामय्यकल्पनेन चातिलाघवमपीत्याहुः । इदं च मतं सर्वसिद्धान्तविरुद्धत्वात् श्रुत्यादिविरुद्धत्वाच्चानुपादेयमेवेति । नन्वपेक्षावुद्धेः द्वित्वादिहेतुत्वे मानाभावः । न दिनकरीयम्. शिष्टवैशिष्टयावगाहिलौकिकप्रत्यक्षसम्भवादलमपेक्षाबुद्धेस्म्रिक्षणावस्थायित्वेन अन्यथा सुखाद्युत्पादाद्वितीयक्षणे सुखत्वनिर्विकल्पकमनन्तरक्षणे च सुखनाशादहं सुखीति लौकिकप्रत्यक्षं न सम्भवतीति सुखशब्दादेरपि त्रिक्ष. णावस्थानप्रणादिति प्राहुः। नन्वपेक्षाबुद्धेर्दित्वोत्पादकत्वे चैत्रायापेक्षाबुद्धिजन्यदित्वस्यापेक्षाबुद्धिशून्येन मैत्रण ग्रहणापत्तिः सन्निकर्षादिघटितसामग्रवाः सत्त्वात्तदारणाय विषयतासम्बन्धेन तत्पुरुषायप्रत्यक्षे तद्भिन्नपुरुषीया. पेक्षावुद्धिजन्यदित्वादेस्तादात्म्येन प्रतिवन्धकत्वकल्पने च गौरवमत आह॥अत एवेति ॥पूर्वोक्तयुक्त्यापेक्षा- बुद्धेर्दित्वोत्पादकत्वस्यावश्यकत्वादेव ॥ तेनैव गृह्यत इति ॥ कल्प्यत इति ॥ तद्भिनेन ने गृह्यत इति करुप्य- त इत्यर्थः । तथा चान्यथानुपपत्या पूर्वोक्तप्रतिवध्यप्रतिबन्धकभावकल्पनागौरवं न दोषायति भावः । ननु कालान्तरे द्वित्वप्रत्यक्षवारणाय दित्वप्रत्यक्षं प्रत्येवापेक्षाबुद्धेहेतुत्वमस्तु न तु द्वित्वं प्रतीत्याशते । नचेति ॥ लाघवेनेति ॥ दित्वप्रत्यक्षत्वापेक्षया दिस्वत्वस्य कार्यतावच्छेदकस्य लघुत्वादिति भावः - !