पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता। परिमाणाधिक्यं न स्यादिति वाच्यं तत्रापि वेमाद्यभिघातेनासमवायिकारणतन्तुसंयोगनाशा- त् पटनाशस्यावश्यकत्वात्। किंच तन्त्वन्तरस्य तत्पटावयवत्वे पूर्व तत्पट एव न स्यात तन्त्वन्तररूपकारणाभावात् । तन्त्वन्तरस्यावयवत्वाभावे च न तेन परिमाणाधिक्यं संयुकद्रव्यान्तरवत् तस्मात्तव तन्त्वन्तरसंयोगे सति पूर्व पटनाशस्तत: पटान्तरोत्पत्तिरि- त्यवश्यं स्वीकार्यम् । अवयविनः प्रत्यभिज्ञानं तु साजात्येन दीपकलिकादिवत् । नच पूर्वतन्तब एव तन्त्वन्तरसहकारात्पूर्वपटे सत्येव पटान्तरमारमन्तामिति वाच्यं मूर्तयोः समानदेशताविरोधात् तत्र पदद्वयासम्भवात् एकदा नानाद्रव्यस्य तत्रोपलम्भस्य बाधि- तत्वाच्च । तस्मात्पूर्वस्य द्रव्यस्य प्रतिबन्धकस्य विनाशे द्रव्यान्तरोत्पत्तिरित्यस्यावश्यम- भ्युपेयत्वात् ॥ ११२ ॥ सङ्घच्यावत्नु पृथक्त्वं स्यात् पृथक्प्रत्ययकारणम् ।। ११३ ॥ अन्योन्याभावतो नास्य चरितार्थत्वमिष्यते । अस्मात् पृथगिदं नेति प्रतीतिर्हि विलक्षणा ॥ ११४ ॥ पृथक्त्वं निरूपयति ॥ सङ्ख्यावदिति 11 पृथक्प्रत्ययासाधारणकारणं पृथक्त्वम् । तन्नित्यतादिकं सक्ष थावत् । तथा हि नित्येष्वेकत्वं नित्यमनित्ये- ध्वनित्यम् । अनित्यमेकत्वं तु आश्रयद्वितीयक्षणे चात्पद्यते आश्रयनाशानश्यति तथैकपृ-- प्रमा अनाश्यत्वाभावात् तन्मतनिराकरणायैव मूलस्य तादृशार्थकत्वाङ्गीकार इति तदप्यसङ्गतं मूलस्य तादृशार्थ- कत्वेऽपि परिशेषाप्रसिद्धर्दर्शितत्वेनोक्तरीत्या मीमांसकमतनिराकरणासंभवात् । वस्तुतो मीमांसकमते यत्कि- श्चिदवयवनाशानन्तरं महावयविनाशं विना तत्परिमाणनाशाङ्गीकारो निष्प्रामाणिकः तुल्ययुक्त्या अवयवोप- चयापचय स्थलेऽपि पूर्वशरीरनाशं विना पूर्वपरिमाणनाशपूर्वकपरिमाणान्तरोत्पत्तेवक्तुं शक्यतया चैत्रादिशरी- राणां एकैकव्यक्तित्वेन एकव्यकितया चैत्रत्वादीनां जातिस्थानुपपत्तेः उत्पत्तिक्षण इवैकावयवनाशद्वितीयक्ष- णेऽपि अवयविनो निष्परिमाणत्वात्साक्षात्कारानुपपत्तेः यादृशावयचिनोऽवयवानां क्रमेण नाशस्तादृशावयवि- नो यावदवयवनाशपर्यन्तं नाशाभावेन तादृशावयाविन्ये कैकावयवनाशप्रयुक्तपूर्वपरिमाणनाशपूर्वकपरिमाणा-- न्तरोत्पत्तेरावश्यकतया एकत्रानेकपरिमाणनाशकल्पनेनानेकपरिमाणकल्पनेनैकस्यावयवपरिमाणस्थानन्तपरि- माणासमवायिकारणत्वकल्पनेन चा प्रामाणिकातिगौरवप्रसङ्गाच । तस्मादवयाविनाशं विना परिमाणनाशोऽसिद्ध इति तन्मतनिराकरणायार्थादिति मुक्तावळीग्रन्थस्यासंभवद्युतिकपरिशेषार्थकत्वधनमयुक्तमिति प्रतिभाति ।। इति परिमाणग्रन्थः ॥ ११२ ।। पृथक्प्रत्ययासाधारणकारणमिति ॥ एतस्य गणनाव्यवहारासाधारणकारणामिति वयाग्रन्थरीत्यार्थोऽवसेयः । एकत्वादीनां विशेषलक्षणरीत्यैव एकपृथक्त्वादीनां विशेषलक्षणान्य - दिनकरीयम् . नच परिशेषोऽसिद्धः रूपादेरप्याश्रय नाश नाश्यत्वादिति वाच्यं आश्रयनाश इति मूलस्यानयनाशमात्रादित्य- र्धकतया रूपादेराश्रयनाशमात्रनाश्यत्वाभावेन परिशेषसम्भवात् । नच मूलस्य तादृशार्थकत्वे प्रयोजनाभाव इति वाच्य क्रियाविभागादिक्रमेण पत्किञ्चिदवयवनाशेऽपि शरीरादिनाशस्य मीमांसकैरनभ्युपगमात् तत्र परिमाण- नाशस्यानुभविकत्वाच्चाधय मात्रनाशनाश्यत्वस्य च परिमाणे तैरनङ्गीकारात् तन्मतनिरा करणाय मूलस्य तार- शार्थकत्वादिति ध्येयम् । द्वितीयक्षणे चोत्पद्यत इत्यनन्तरं स्वाश्यावयवगतैकत्वासमचायिकारणाकं चेति पूरणीयम्