पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः । कीर्तितस्विविधस्त्वेष आद्योऽन्यतरकर्मजः ॥ ११५ ॥ संयोग निरूपयति || अमाप्योरिति ॥ तं विभजते ।। कीर्तित इति ॥ एष सं- गस्यात्रापि सत्त्वादिति वाच्यम् । घटस्यान्योन्याभाव इत्यादौ पञ्चम्यापत्तिवारणाय सूत्रस्थान्यपदस्य प्रतिया- गिनिष्ठप्रकारतानिरूपित प्रतियोगितात्वावच्छिन्न प्रकारतानिरूपितान्योन्याभावनिछविषयताशालिबाधौपायका- न्योन्याभावार्थकशब्दपरत्वावद्यकतया घटो नेत्यन प्रतियोगितासंसर्गकबोधस्यैव जायमानतया नप दस्य घटनिष्ठप्रकारतानिरूपितप्रतियोगितात्वावच्छिन्नसांसर्गिकविषयतानिरूपितान्योन्याभावनिष्ठविषयताशालिवो. धौपयिकत्वेऽपि ताशप्रतियोगितात्वावच्छिन्न प्रकार तानिरूपितान्योन्यामावनिष्ठविषयताशालिबोधीपयिक- स्वाभावेन तन्न पञ्चम्यापत्तेरभावात् । एतेन घटो नेत्यत्र पञ्चम्यापत्तिवारणाय केषांचित्सूत्रस्थान्यपदस्या- न्योन्याभावार्थकनिपातातिरिक्तपदपरत्ववर्णनं प्रत्युक्तम् । पृथक्शब्दस्यापि निपातत्वेन घटात्पृथगित्यत्रापि पञ्चम्यनुपपत्तेः घटस्यान्योन्याभाव इत्यत्रान्योन्याभावपदस्य निपातातिरिक्ततया तत्र पञ्चम्यापत्तेश्च । न चैवं सत्ति अन्यारादितरतेत्यादिसूत्रेणैव पृथक् शब्दप्रयोगेऽपि पञ्चम्युपपत्तौ पृथग्विनेत्यादिसूत्रे पुनः पृथक्पदन. हणमनर्थकामति वाच्यम्। पूर्वसूत्रेण पृथक्शब्दयोगे पञ्चम्याः प्राप्तत्वेऽपि तृतीयाद्वितीयापञ्चमीविभक्तीनां विकल्पेन प्राप्तिलाभाय पृथम्धिनेत्यादिसूत्रे पुनः पृथक्पदग्रहणमावश्यकमिति रीत्या पृथक्त्वस्य गुणान्तरत्व प्रमाणाभावात् अन्योन्याभावरूपत्वमेवेत्याहुः। तन्न तद्धटस्त दटैतद्धटोभयस्मादन्यः इत्यादिप्रतीतिव्यवहार - वत्प्रामाणिकानां एतद्धरः तद्धटैतहटोभयस्मात्पृथगिति प्रतीतिव्यवहाराभावात् काणादशास्त्रप्रवर्तकंगझेशो. पाध्यायाननुमतत्वाच्च अन्योन्याभावातिरिक्तमेव पृथक्त्वं गुणान्तरमवश्यमङ्गीकार्यमिति दिक् ॥ ११३ ।। ११४ ॥ इति पृथक्वप्रन्थः ॥ मूलेऽप्राप्तयोस्तु या प्राप्तिरित्यादिना संयोगस्वरूपमुक्तम् । तत्र प्राप्तिस्संवन्धः सच समवायोऽ- पीत्यत: अप्राप्तयोरित्युकम् । असंबद्धत्वेन वर्तमानयोरित्यर्थः । संबन्धानधिकरणसंवन्धान्त राधिकरणकाल. वर्तिनोरिति यावत् । तथाच तादृशयोस्संबन्धो न समवाय इति ताशसंयोगस्य स्वरूपत्वे न किमपि बाध कमिति भावः । लक्षणन्तु संयोगस्संयुक्तप्रत्ययनिमित्तमिति भाष्यस्थसंयुक्त प्रत्ययशब्दस्य संयुक्ताविति प्र- स्ययो यस्मादिति व्युत्पत्त्या संयुक्ताविति व्यवहारो लभ्यते तन निमित्तं प्रतिपाद्यतासंबन्धानच्छिन्नतादृश- व्यवहारनिष्ठकार्यतानिरूपितसमवायसंबन्धावच्छिन्नकारणतावदित्यर्थलामात् तादृश कारणत्वं संयोगस्य लक्षण. मिति लभ्यते । यादृशसंयोगाश्रये तेन संबन्धेन तादृशव्यवहारो न जातः तादृशसंयोगे निरुक्तकारणत्वरूप. लक्षणाभावादव्याप्तिवारणाय तादृशकारणत्वसमानाधिकरणरूपावृत्तिजातिमत्त्वं तादृशकारणतावच्छेदकतया सिद्धसंयोगत्वजातिमत्वं वा लक्षणं वाच्यमिति न कोऽपि दोषः । संयोग विभजते ॥ कीर्तितस्त्रि. दिनकरीयम्. स्वादिति भावः । अत्र नव्याः अन्योन्याभाव एव पृथक्त्वं न तु गुणान्तरं । नच घटो नेत्यत्र पञ्चम्यापत्तिरन्यो न्याभाषविशिष्टार्थकपदयोग एवान्यारादितरतं इत्यादिसूत्रेण पञ्चमीविधानात् नबस्तु नान्योन्याभावविशिष्टा. धकत्वं परं त्वन्योन्याभावार्थकत्वमित्यस्यान्यत्र सिद्धान्तितत्वात् । यदि च घटाढ़ेद इत्यादौ पञ्चम्यनुपप-- स्या भेदार्थकपदयोगः पञ्चमीप्रयोजकतयान्यारादिति सूत्रेण बोध्यत इति घटो न पट इत्यत्र पञ्चम्यापत्ति- दुवरिति विभाव्यते तथापि निपातातिरिक्तान्योन्याभावार्थकपदयोगस्यैव पञ्चमीप्रयोजकत्वं कल्प्यते अनुशा- सनस्य प्रयोगानुरोधित्वादित्याहुः ॥ ११३ ॥ ११४ ॥ मूले प्राप्तयोरित्यादिना संयोगस्वरूपमुक्त तत्र प्राप्तिः सम्बन्धः स च समवायोऽपीत्यत उक्तम् ॥ अप्राप्तयोरिति ॥ लक्षणं तु संयोगत्वं जातिरिति ॥ मूले आद्योऽन्यतरकर्मज इति ॥ ननु संयोगत्वं मान्यतरकर्मणः कार्यतावच्छेदकमुभयकर्मजसंयोगे संयोगजसंयोगे च व्यभिचारादिति चेन्न विजातीयक.