पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१८ कारिकावली गुणखण्डः प्रभा. स्वसमानाधिकरणाभाव प्रतियोगितावच्छेदका यावन्तो धर्माः तत्तयक्तिभेदकूटविशिष्टं कारणतावच्छेदकसं - बन्धावच्छिन्न यद्यद्धर्मावच्छिन्न प्रतियोगिताकाभावत्वं तत्तद्धर्मभेद कूटविशिष्टधर्मवत्त्वात्य कारणताघटकत्वस्वी- कारानोक्तानुपपत्तिः आकाशत्वावच्छिन्नप्रतियोगिताकभेदत्वस्यापि शब्दाश्रयत्वसमानाधिकरणाभावप्रतियोगि- तावच्छेदकतथा तत्तयक्तिभेदकूट बत्त्वाभावनाकाशवस्यापि तादृशभदकूटविशिष्टतत्तद्भेदत्वाश्रयनिरूपितप्रति-- योगितावच्छेदकतत्तद्धर्मव्यतित्वावच्छिन्न प्रतियोगिताकमदकूटवत्त्वादिति वाच्यम् कारणत्वघटकतादृशधर्म- वत्त्वशशरे कार्यतावच्छेदकाश्रयस्य यत्किञ्चिद्वयक्तित्वेन निवेश भेदकूटद्वयनिवेशे व्यापकत्वघटितव्यापकत्व- निवेशे च प्रयोजनविरहेण व्यथतया तादृशधर्मवत्त्वघटित कारणत्वस्याप्रामाणिकत्वात् सकलतान्त्रिकसिद्धा- न्तविरुद्धत्वाच । नच पर्वतेयुसंयोगादी इभ्वादिक्रियाकारणत्वान्यथानुपपत्तिरेव ईदृशकारणत्व स्वीकारे मान- मिति वाच्यम् तत्सामानाधिकरण्यावच्छेदकान्यथासिद्धयनिरूपकधर्मवत्त्वरूपतन्निरूपितकारणत्वस्य पर्वतेष्वा- दिसंयोगासमवाथिकारणेवादि क्रियायां सत्त्वेनान्यथानुपपत्त्यभावादिति । अस्मद्गुरुचरणास्तु प्रति. योगितासंबन्धेन संयोगाजन्यसंयोगं प्रति समवायेन क्रियाहेतुत्वस्वीकारान्नोक्तानुपपत्तिः । पर्वतेघु- संयोगादेरिध्वादिक्रियाजन्यत्वेनेवादिप्रतियोमिकत्वादिष्वादेरेव कार्यतावच्छेदकीभूतप्रतियोगितासंबन्धेन पर्वतेष्वादिसंयोगाधिकरणत्वेन तत्र क्रियाया अपि सत्त्वात् । नचव सत्यसमचायिकारणस्थले समवायस्य का- यतावच्छेदकसंबन्ध त्वनियममङ्गप्रसङ्ग इति वाच्यं तादृशनियमे मानाभावात् समवाय कारणस्थल एव तथा नियमात् । परन्तु समवायसंबन्धेन कार्याधिक रणे कारणतावच्छेदकसंबन्धेन समवायेनैकार्थसमवायेन वा कारणत्वस्यवासमचाथिकारणतायां नियामकत्वस्वीकारानः पृथि परमाणुवृत्तिरूपध्वंसादौ तेजस्संयोगस्यास- मनायिकारणत्वात्तिरित व्याचकः । वस्तुतस्तु कारणतावच्छेदकसंवन्धेन खावच्छिन्नोत्तरक्षणावच्छेदेन खा- बच्छिन्नसमानाधिकरणाभावीयकार्यतावच्छेदकप्तचन्धावच्छिन्नप्रतियोगितानवच्छेदककार्यतावच्छेदकधर्मक-- मुक्कान्यथासिद्धयनिरूपकं च यत्स्वं तादृशधर्मवत्वमेव कारणत्वं नचेदृशधर्मवत्त्वस्य कारणतारूपत्वे माना- भाव इति वाच्यं अनन्यासिद्धनियतपश्चाद्भावित्वं कार्यत्वमिति प्राचीन सिद्धान्तस्यैव मानत्वात् । एवंच स्वात्मककमांसहकृतकर्मत्वावच्छिन्नोत्तर क्षणावच्छेद्यः कारणतावच्छेदकसमवायसंबन्धावच्छिन्नतादृशकर्म स्वावच्छिन्नाधिकरणनिष्ठाभावः न संयोगाजन्य संयोगवृत्तिवैजालावच्छिन्नाभाव इति तस्यानवच्छेदकतया तादृशधर्मकान्यथासिद्धयनिरूपकं स्वं तादृशकमस्वमिति नोक्तानुपपत्तिः । अथवानियतरासभादेः अनन्यथा- सिद्धत्व विशेषणेनेव वारणसंभवात् कारणताशरीरे व्यापकत्वविशेषणं व्यर्थमेव । इत्थंच कार्याव्यवहितपूर्व- कालावच्छेद्या या कार्यतावच्छेदकसंबन्धेन कार्यधिकरणनिरूपित कारणतावच्छेदकसंबन्धावच्छिन्नवृत्तिता तदवच्छेदकान्यथासिद्धानरूपकधर्मवत्त्वमेव कारणत्वम् । एवंच संयोगाजन्य संयोगरूपपर्वतेष्वादिसंयोग. त्तिव जात्यरूपकार्यतावच्छेदकावच्छिन्नसमवायसवन्धावच्छिन्नाधिकरणात्मके निरूपितसमवायसंघन्धावच्छि. नवृत्तितायास्तादृशकार्याव्यवहितपूर्वकालावच्छिन्नायाः इवादिक्रियायां सत्त्वेन तादृशवृत्तितावच्छेदकान्यथासि- द्धयनिरूपकधर्मः कर्मासहकृतकर्मस्वमिति इध्वादिक्रियायामपि तादृशधर्मवत्वरूप कारणत्वसत्त्वानोकानुपपत्तिप्र- सक्तिनवा दोषान्तरप्रसक्किरिति प्रतिभाति । अत्रेदं बोध्यं संयोगविभाजकक्रियाजन्यतावच्छेदकवैजात्यव्याप्यवै. जात्यावच्छिन्नं प्रति क्रियान्तरासहकृतक्रियायाः क्रियान्तरसहकृतक्रियायाश्च न तेन रूपेण हेतुत्वं विशेषण विशेष्यभावे विनिगमनाचिरहेण गुरुरूपेण तादृशवैजात्यध्याप्य कैकधर्मावच्छिन्नं प्रति कार्यकारणभावद्वया- पत्तेः किन्तु क्रियान्तरासहकृतक्रियावृत्तिवैजात्येन क्रियान्तरसहकृतक्रियावृत्तिवैजात्येन च हेतुत्वं वाच्यम् । तत्र यादृशकर्मभ्यां मेषयोत्संयोगः तयोः प्रत्येककर्मणा मेषाकाशादिसंयोगस्यापि जायमानतया तयोः कर्मणोः क्रियान्तरासहकृतक्रियावृत्तिवैजात्यस्याप्यावश्यकत्वात् । क्रियावृत्तितादृशवैजात्ययोः व्याप्यध्यापक. भाव एवाङ्गीकरणीय इति न कोऽपि दोषः । परन्तु क्रियान्तरासहकृतक्रियया जायमानेष्वादिपर्वतसंयोग- स्याभिघातरूपतया तादृशक्रियया जायमानतृलादिपर्वतसंयोगस्य नोदनादिरूपतया तादृशक्रियाजन्यताव- च्छेदकवैजास्यस्य नोदनत्वादिना सार्यवारणाय तादृशाकियाजन्यतावच्छेदक नोदनवाभिधातत्वव्याप्य- -