पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२२ कारिकावली [गुणखण्डः प्रभा. इत्यर्थः । नोदनस्वरूपमाह ॥ शब्दाहेतुरिति ॥ निरुक्तकारणताशून्य इत्यर्थः । द्वितीय इति ॥ नोदन इत्य. र्थः । लक्षणन्तु निरुक्ककारणतावच्छेदकतया अभिघातपदशक्यतावच्छेदकतया वा सिद्धाभिघातत्वाध्यजातिवि. शेषवत्त्वम् । एवं नोदनपदशक्यतावच्छेदकतया सिद्धनोदनत्वाख्यजातिविशेषवत्त्वं नोदनलक्षणमिति बोध्यम् ॥ इति संयोगनिरूपणम् ॥ ननु विभागसामान्यलक्षणमप्रतिपाद्य विभागोऽपि त्रिधा भवेदिति मूलेन विभागस्य जैविध्यमुक्तं तदयुक्तमाजिज्ञासितत्वात् । नच मूलस्थविभागशब्देन विभागावरूपजातिविशेषात्य लक्षणत्वला. मालक्षणस्यापि प्रतिपादितत्वेनाजिबासितत्वाभावात विध्यस्य नायुक्तत्वमिति वाच्यम् । तस्य जातित्वे मा. नामावादित्याशङ्का प्रमाणप्रतिपादनेन परिहरति ॥ मुक्तावळ्यां विभक्तप्रत्ययासाधारणकारणमि. ति ॥ यद्यपि विभारपदशक्यतावच्छेदकतयापि विभागत्वजातिसिद्धिर्भवति तथापि विभागो वि. भक्तप्रत्ययनिमित्तमिति भाष्यकारोक्त कारणतावच्छेदकतया विभागत्व जातिसाधनायैतदाभिहितं प्रति- पाद्यतासंबन्धावच्छिन्नविभक्तप्रत्ययनिष्ठकार्यतानिरूपितसमवायसंवन्धावच्छिन्न कारणतावदिति समुदितवा. क्यार्थः । नचैतस्य विभागलक्षणत्वे यादृशविभागाश्रये विभक्तप्रत्ययः कस्यापि न जातः तत्राव्या- प्तिरिति वाच्यम् । तादृशकारणत्वसमानाधिकरणरूयावृत्तिजातिमत्त्वस्य तादृशकारणतावच्छेदकतया सि- द्धजातिविशेषवत्त्वस्य वा विवक्षितस्वानोक्तदोष इति भावः । विभागोऽपि विधा भवेदिति मूलप्स्य प्राधान्येन त्रैविध्येन विभागे न तात्पर्यम् । कर्मजो विभागजश्चेति भाष्यविरोधापत्तेः तस्तादृशमूलस्य विभागस्त्रिधा भवेदिति योजनया प्राधान्येन द्वैविध्यवति पर्यवसाने त्रैविध्यमपि विभागस्य संभवतीति तात्पार्थो वाच्यः । एवंच विभागो द्विविधः कर्मजो विभागजश्च कर्मजोऽपि द्विविधः एकक्रि- याजन्यः उभयक्रियाजन्यश्चेति विभागे मुख्यतात्पर्यात् न भाष्यविरोधः नवा त्रैविध्यप्रतिपादकमूल विरोध इति भावः । अत्र कर्मजविभागवत्त्वं कियात्वावच्छिन्नासमवाये कारणतानिरूपितविभागनिष्ठकार्यतावच्छेद- कतया सिद्धजातिविशेषः एवं विभागज विभागत्वं विभागत्वावच्छिन्नासमवायिकारणतानिरूपितविभागनिष्टका- यतावच्छेदकत या सिद्धो जातिविशेषः ताभ्यामेव विभागसामान्यस्य द्वैविध्य एवं एककियाजन्यविभागत्व कर्मासहकृतकर्मनिष्टासमयायिकारणतानिरूपितविभागनिष्ठकार्यतावच्छेदकत या सिद्धविभागसामान्यविभाज- ककर्मजन्यतावच्छेद कबैजात्यच्याप्यजातिविशेषः । एवं उभयक्रियाजन्यविभागत्वं कर्मसहकृतकर्मनिष्ठासम- वायिकारणतानिरूपितविभागनिष्ठकार्यतावच्छेदकतया सिद्धतादृशावैजात्यव्याप्यजातिविशेषः ताभ्यामेव क. मजविभागस्यापि द्वैविध्यमिति बोध्यम् । वस्तुतस्तु यद्यपि क्रियान्तरासहकृतक्रियायाः न क्रियान्तरासहकृत- क्रियात्वेन हेतुत्वं एकबैजात्यावच्छिन्नं प्रति विशेषणविशेष्यभावेऽपि विनिममनाविरहप्रयुक्त कार्यकारणभाव- द्वयापत्तेः एकक्रियाजन्यविभागे वैजात्ययस्वीकारो न संभवति तुल्यव्यक्तिकत्वरूपदोषप्रस्तत्वात् । किंतु कर्मासहकृतकर्ममात्रवृत्तिजात्येन हेतुत्वं तादृशधर्मस्य कर्ममात्रवृत्त्युत्क्षेपणत्वादिधर्मचतुष्टयच्यापकतया सा. र्याप्रसक्तेः । तथापि कर्मसहकृतकर्मणः तादृशवैजात्यवृत्तिपुरस्कारेण हेतुत्वं तादृशकर्मण उत्क्षेपणादिरूप. तयोत्क्षेपणत्वादिना साकयेण तादृशकर्ममात्रवृत्तिधर्मस्य जातिरूपत्वासंभवात् उत्क्षेपणत्वादिव्याप्यनानाजा- तिस्वीकारे तादृश विभागवृत्त्येकैकवैजात्यावच्छिन्नं प्रति उत्क्षेपणत्वादिव्याप्यैकैकवैजात्यावच्छिन्न व्यभिचारेण कारणतानुपपत्तेः तत्तद्वैजात्यपुरस्कारेण क्रियान्तुरासहकृतकर्मणां कारणत्वनिर्वाहाय उत्क्षेपणादिरूपैककिया. जन्यविभागेषु वैजात्यचतुष्टयं खीकृत्य कार्यकारणभावचतुष्टयस्वीकारे कर्मसहकृतकर्मणामपि तुल्ययुक्त्योत्क्षेप- णत्वादिव्याप्यवैजात्यचतुष्टयस्वीकारस्य जन्यविभागानामपि वैजात्यचतुष्टयस्वीकारस्य तादृशवैजात्यपुरस्कारेण कार्यकारणभावचतुष्टयस्वीकारस्य चापत्तेः नचेष्टापत्तिः । कर्मजन्यतावच्छेदकवैजात्यव्याप्यवैजात्यानामष्ट- सङ्ख्यात्वेन ताभ्यां वैजात्याभ्यां कर्मजविभागम्य द्वैविध्य मिलन विनिगमनाविरहात् अष्टधाविभा. मस्याप्रामाणिकत्वाच्च । तस्मात् कर्मजविभागस्य द्वैविध्ये प्रमाणाभावात् भाष्यकाराद्यननुमतत्वाच । वि- भागोऽपि त्रिधा भवेदिति मूलमेककर्मोद्भवस्त्वाद्य इलादिमूलं च कर्मजविभागस्य न वैविध्यपरं किन्त्वेकक्रियया यथा विभागः यथा वा कर्मद्वयेन विभागः तथा त्रिभिः कर्मभिश्चतुर्भिः क-