पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७२३ एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपरः॥ ११९ ॥ विभागजस्तृतीयः स्यात् तृतीयोऽपि द्विधा भवेत् । हेतुमात्रविभागोत्यो हेत्वहेतुविभागजः ॥ १२० ॥ एककर्मेति ॥ तदुदाहरणं तु श्येनशैलविभागादिकं पूर्ववद्बोध्यम् ॥ तृतीयोऽपि विभाग- जविभागः कारणमात्रविभागजन्यः कारणाकारणविभागजन्यश्चेति द्विविधः । आद्यस्तावद्यत्रै- ककपाले कर्म कपालद्वयविभागः ततो घटारम्भकसंयोगनाशस्ततो घट- नाशस्ततस्तेनैव कपालविभागेन सकर्मणः कपालस्थाकाशविभागो जन्यते तत आकाशसं- ततः प्रभा. मंभिर्वा नैको विभाग इति बोधतात्पर्यकं कर्मजी विभागजश्चेति विभागसामान्यद्वैविध्यपरं चेति प्रतिभाति । कारणमात्र विभागजकारणाकारणविभागस्याप्रामाणिकत्वं तस्यैकदेश्यनुमतत्वं च पाकप्रक्रियायां विभाग- जविभागानङ्गीकारे नवक्षणा तदङ्गीकारे स्वित्यादिमुक्तावलीव्याख्यानावसरे सप्रमाणं स्फुटतरं प्रपञ्चितम् । इदानी नवीनैकदेशिमतानुसारेण वैशवाय विभागजविभागस्य वैविध्यमाह ॥ मूले तृतीयोऽपि द्विधा भवेदिति ॥ हेतुमात्रविमामोत्थ इति ॥ कारणमात्रविभागासमवायिकारणककारणाकारणवि- भाग इत्यर्थः ॥ हेत्वहेतुविभागज इति ॥ कारणाकारणविभागासमवायिकारण कार्याकार्यविभाग इत्य- र्थः । तत्रैकदेश्यनुमतमायमुपपादयति ॥ मुक्तावळ्यामाद्यस्तावदिति ॥ यत्रेति ॥ यदेत्यर्थः ॥ एकक- पाले कर्मेति ॥ अन्न कपालपदमवयवमात्रोपलक्षकम् । एवमुत्तरत्रापि इदमुपलक्षणम् यदा द्वयोरवयवयोः कर्मेत्यपि बोध्यम् । तत इति । एतस्यावृत्त्या तस्मात् तदनन्तरमित्वर्थः एवमुत्तरत्रापि ॥ घटारम्भ- कसंयोगनाश इति ॥ अन्न घटपदमवयविमानोपलक्षक एवमुत्तरत्रापि ॥ तत इति ॥ अवयविनाशानन्तर- कालीनत्वमात्रार्थकस्य तत इत्यस्य जन्यत इत्यनेनान्वयः ॥ तेनैवेति॥ निरुक्तावयविद्वयविभागेनैवेत्यर्थः॥स. कर्मण इति । कर्मनाशकोत्तरसंयोगाभावादिति भावः ॥ आकाशविभाग इति । विभुसामान्यविभा- ग इत्यर्थः । आकाशलक्षणस्य विभुसामान्यलाक्षणिकत्वादिति भावः ॥ जन्यत इति । तथाच अवयवविभ्वोः विभागानङ्गीकारेऽनित्यावयवरूपाश्रयनाशात् अनित्यावयव विभुसंयोगस्य नाश संभवेऽपि नित्यावयव विभुसं- योगम्य नाशकाभावेन नित्यत्वापत्त्या तादृशविभागाशीकार आवश्यक इति भावः । केचित्तु एवं कपालाकाश- संयोगस्य प्रतिबन्धकस्य सत्त्वेनोत्तरदेशसंयोगानुत्पत्त्या कर्मणोऽपि नित्यत्वापत्तिः उत्तर संयोगस्यैव स्वजनक- कर्मनिवर्तकत्वादिति भाव इत्याहुः । तदसत् कपालद्वयविभागेन कपालाकाशविभागानङ्गीकारे कपालाकाश. संयोगनाशासंभवात् प्रतिबन्धकसत्त्वेन पुनः कपालाकाशसंयोगासंभवेऽपि कपालद्वयविभागजन्य कपालद्वय- संयोगनाशात् कपालस्य भूम्यादिदेशेन सहोत्तरसंयोगोत्पत्तौ बाधकामावेन तेन कपालकर्मणोऽपि नाशसंभवे. न नित्यत्वापत्तेरभावात् । नहि यावत्पूर्वदेशसंयोगनाशे सत्येवोत्तरदेशसंयोग इति नियमः तथा सति हस्त- संयुक्तदण्डक्रियया भेरीदण्डसंयोगानुपपत्तेः हस्तदण्डसंयोगरूपप्रतिवन्धकसत्त्वात् । तस्मात् ययोः संयोगस्य नाश: तयोः पुनः संयोगो न जायत इत्येव नियमो वाच्यः एवंच कपालाकाशसंयोगनाशाभावेऽपि कपाल- द्वयसंयोगनाशेन देशान्तरेण कपालस्योत्तरसंयोगसंभवात् तेन कपालकर्मणो नाशसंभवाच न कर्मणो नित्य- स्वप्रसक्किारेति कपालाकाशविभागानङ्गीकारेऽस्मदुक्तदूषणमेव समायातीति । अत्र सिद्धान्तमतानुयायी श- दिनकरीयम् . कमोभयत्वेनेति चित्रसंयोगो विजातीय एवेति न सायमित्यपरे इत्यन्यन्न विस्तरः ॥ पूर्ववदिति ॥ संयो- गवदित्यर्थः ॥ तेनैव कपालविभागनेति ॥ तेन कपालविभागेनैवेत्यर्थः । एवकारेण कर्मणो व्युदा- सः॥ कपालस्याकाशविभागो जन्यत इति ॥ अन्यथा कपालाकाशसंयोगस्य नाशकाभावेन नित्य- स्वापत्तिरेव कपालाकाशसंयोगस्य प्रतिवन्धकस्य सत्त्वनोत्तरसंयोगानुत्पत्त्या कर्मणोऽपि नित्यत्वापत्तिः उत्त-