पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । प्रभा. हेतुत्वस्यापि संभवादिति तन हस्तक्रियाया उक्तसंबन्धेम शरीरतरुविभागहेतुत्वस्वीकारे हस्तादिरूपयावद-- धयवाकयोत्तरकालीनशरीरक्रियायाः शरीरनाशपर्यन्तस्थायित्वापत्तिः हस्तक्रियाया हस्तताविभागकाले उक्त रीत्या शरीरतरुविभागस्यापि जायमानत्वेन तस्कालोत्पत्तिकशरीरक्रियायाः शरीरतरुविभागादिपूर्वकोत्तरसंयो. गोत्पादकत्वाभावेन स्वजन्योत्तरसंयोगरूपनाशकाभावादिति । केचित्त ननु हस्ततरुसंयोगनाश एवं शरीरतरुसंयोगनाशकोऽस्तु तरौ तदुभयसामानाधिकरण्यसत्त्वात् किंच हस्तक्रियैव स्वसमवायिसमवेतत्वसं- बन्धेन शरीरनिष्टशरीरतासंयोगनाशहेतुरस्तु वैयधिकरण्याभावादिति चेन्न । आश्रय नाशाजन्यगुणनाशस्य विरोधिगुणजन्यत्वनियमेन शरीरकर्मजन्यशरीरतासंयोग प्रति हस्ततरुसंयोगस्याकारणत्वेन च शरीरतरुसं- योगनाशे हस्ततरुसंयोगनाशस्याकारणत्वात् । यच्चोतं हस्तक्रियैव स्वसमवायिसमवेतत्व संबन्धेन नत्र का- रणमिति तदपि न साक्षात्सम्बन्धेन जनकत्वनियमस्यासति बाधके सङ्कोचकल्पनानुपपत्तेः । वस्तुतस्तु संयोगा. भावो विभागः विभागाभावो वा संयोग इत्यत्र विनिगमनाविरहेणोभयोतिरिकत्वं अत एव घटापटो वि. भक इति प्रत्यय उपपद्यते संयोगनाशात्मकत्वे नाशस्य सावधिकरवाभावेन तथा प्रत्ययानुपपत्तेरित्याक्षेप परिहारं चाहुः । तदसत् आश्रय नाशाजन्यगुणनाशस्येत्यारभ्याकारणत्वादित्यन्तग्रन्थेन प्रथमदोषनिराकरण- मथुक्कं अपेक्षावुद्धिनाशजन्ये द्वित्वादिनाशे द्विपृथक्त्वादिनाशे परत्वादिनाशे च विरोधिगुणजन्य- स्वाभावेन व्यभिचारात् । आश्रयनाशाजन्येत्यत आश्रयपदस्य कारणमात्रपरत्वमांकृत्योकव्याभि- चारवारणे कर्मनाशाजलस्पर्शादित्यादिवचनप्रतिपाद्यकरतोयात्मकनदीलङ्घनक्रियाजन्यधर्मनाशे व्यभिचारेण ताशनियमस्य पलायितत्वात् कर्मजन्यशरीरतरुसंयोग प्रति हस्ततसंयोगस्य कार्यतावच्छेदकं न शरीरत- रुसंयोगत्वं व्यभिचारात् किन्तु कर्माजन्यसंयोगमात्रवृत्तिवैजात्य मेव । एवंच तादृशवैजात्यावच्छिन्नं प्रति शरीरतासंयोगस्य हेतुत्वे बाधकाभावेन तन्नाशे तन्नाशस्यापि कारणत्वसंभवाच्च । नच शरीरक्रियाजन्यशरीर- तरुसंयोगस्य यस्य हस्ततरुसंयोगनाशोत्तर नाशः तत्संयोगे हस्ततसंयोगस्याकारणत्वेन तन्नाशस्य कारणना- शानात्मकतया कथं तत्र तस्य हेतुत्वमिति वाच्यं तथाप्यन्यथानुपपत्त्यान्वयव्यतिरेकाभ्यां तत्र तस्य हे- तुत्वाङ्गीकारस्यावश्यकत्वात् । यच्च तदपि नेत्यारभ्य सलोचकल्पनानुपपत्तरित्यन्तनन्थेन द्वितीयदोषनिराक- रणं तदपि नावयविक्रियां प्रति अवयवक्रियायाः समवायघटितसामानाधिकरण्येनैव हेतुतया तस्याः साक्षा- संबन्धेन जनकत्वे मानाभावात् बाधकवशात् कार्यतावच्छेदककोटौ क्रियान्यत्वनिवेश्य क्रियान्य- कार्यत्वावच्छिन्नं प्रति तादृशनियमस्वीकारे बाधकस्य तुल्यत्वात् कार्यतावच्छेदककोटावभावान्यत्त्वमपि नि- वेश्य क्रियान्यभावकार्यत्वावच्छिन्नं प्रत्येव ताहशनियमस्वीकारौचित्यात् । यच वस्तुतस्त्विस्याधुभयोरतिरिक्त- त्वमित्यन्तमन्थेन संयोगविभागयोः विनिगमनाविरहप्रयुक्तगुणत्वव्यवस्थापनं तदपि न सम्यक् द्रव्यासमवा- यिकारणविलयापत्त्या गुणरूपसंयोगस्य सर्वैरप्यङ्गीकरणीयत्वेन द्रव्यासमवायिकारणान्यथानुपपत्तेरेव विनिग-. मकत्वात् । नपवयव विभागासमवायिकारणान्यथानुपपत्तिः गुणरूपविभागाङ्गीकारे विनिगमिका विभागस्य गुणत्वासद्धेः प्राक् उक्तानुपपत्तेः विनिगमकत्वासंभवात् । यच्चात एवेत्यारभ्य तथाप्रत्ययानुपपत्तरित्यन्तप्र. दिनकरीयम्. तरुसंयोगनाशेनैव तदुपपत्तेः किं च हस्तक्रियैव स्वसमवायिसमवेतत्वसम्बन्धेन शरीरनिष्ठा शरीर तहसंयोग. नाशे हेतुस्तु वैयधिकरण्याभावादिति चेन्न आश्रयनाशाजन्य गुणनाशस्य विरोधिगुणजन्यत्वनियमेन शरीरक मजन्यशरीरतरुसंयोगं प्रति हस्ततरुसंयोगस्याकारणत्वेन च शरीरतरुसंयोगनाशे हस्तत:संयोगनाशस्थाजन. कत्वात् यच्चोक्तं हस्तक्रियेव स्वसमवायिसमवेतत्वसम्बन्धेन तत्र कारणमिति तदपि न साक्षात्सम्बन्धेन ज. नकत्वनियमस्यासति बाधके सङ्कोच कल्पनानुपपत्तेः । वस्तुतस्तु संयोगाभावो विभागो विभागाभावो वा संयोग इत्यत्र विनिगमनाविरहेणोभयोरप्यतिरिक्तत्वम् । अत एव घटातू पटो विभक्त इति प्रत्यय उपपद्यते सं- योगनाशात्मकत्वे नाशस्य सावधिकत्वाभावेन तथाप्रत्ययानुपपत्तेरिति तदिदमभिप्रेत्योचाम् ॥ अतः संयो. गेत्यादि ॥ ११५ ॥ ११६ ॥ ११७ ॥ ११८ ॥ ११९ ॥ १२० ॥