पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७२९ दैशिकपरत्वं बहुतरमूर्तसंयोगान्तरितत्वज्ञानादुत्पद्यते एवं तदल्पीयस्त्वज्ञानादपरत्वमुत्पद्यते अत्रावधित्वार्थ पञ्चम्यपेक्षा यथा पाटलिपुत्रात् काशीमपेक्ष्य प्रयागः परः पाटलिपुत्रात् कु- रुक्षेत्रमपेक्ष्य प्रयागोऽपर इति ।। १२१ ॥ १२२ ॥ प्रभा. तित्वबुद्धेनिमित्तकारणस्य दिक्सयोगस्यासमवायिकारणस्य चाभावादिति भाव इत्याहुः । तदसत् विभौ ता- दृशपरत्वाद्यनुत्पत्तौ द्वितीयहेतुसंभवेऽपि प्रथमहेतोरलग्नकत्वात् तथाहि विप्रकृष्टदेशमात्रवृत्तित्वादिज्ञानस्य न तन हेतुत्वं परमाणोरवृत्तितया तादृशवृत्तित्वज्ञानासंभवेन तन परत्वाद्यनुत्पादापत्तेः । नच विप्रकृष्टदे- शादिवृत्तित्वं तादृशदेशादि संयुक्तत्वरूपमेव तस्य परमाणावपि सत्त्वानोकदोष इति वाच्यम् । तथापि विप्र. कृष्टत्वादेर्बहुतरमूर्तसंयोगान्तरितत्वापेक्षया अन्यस्य दुर्बचतया मूलकारोक्ततज्ज्ञानत एव सामञ्जस्ये बहुतर- मूर्त संयोगान्तरित वादिरूपविप्रकृष्टत्वादिविशिष्टदेश मात्रवृत्तित्वज्ञानस्य पृथग्धेतुतायां मानाभाव एवेति दैशि- कपरत्वेऽपरत्वे च निमित्तकारणमाह ॥ परत्वमिति ॥ देशिकपरत्वमित्यर्थः । अप्रेतनापरत्वशब्दस्यापि दै- शिकापरत्वमित्यर्थः मूर्त एव तु दैशिकमिति प्रन्थेन तस्यैवोपस्थितत्वात् । ननु सूर्यसंयोगभूयस्त्वज्ञानस्य दै. शिकपरत्वनिमित्तत्वं सूर्यसंमोगाल्पत्वज्ञानस्य दैशिकापरत्वनिमित्तत्थं च मूलोक्तमयुक्तं तस्य विशेष्यतासंबन्धे- न परत्वाद्याश्रयावृत्तित्वेन परत्वादिव्याधिकरणत्वात् समूहालम्ब नात्मकतादृशज्ञानमादाय सामानाधिकरण्योप- पादने समीपस्थेऽपि तादृशज्ञानबलात्ताशपरत्वोत्पत्त्यापत्तेरित्याशङ्का तादृशमूलस्य तात्पर्यार्थप्रदर्शनेन परि- हरति ॥ मुक्तावळ्यां बहुतरेति ॥ अपरत्वाश्रयनिष्टतदवधिकमूर्त संयुक्तसंयोगपरम्पराघटकसंयोगसमु. दायपर्याप्त सङ्खयाधिकसलयापर्याप्त्यधिकरणस्वनिष्टतयाधिकमूर्तसंयुक्तमयोगपरम्पराघटकसंयोगसमुदाय- कत्वज्ञानादित्यर्थः । सूर्यशब्दस्य मूर्तपरत्वात् ॥ अल्पीयस्त्वज्ञानादिति ॥ अल्पतरमूर्तसंयोगान्त- स्तित्वज्ञानादित्यर्थः । परत्वाश्रय निष्टतदवधिकमूर्तसंयुक्तसंयोगपरम्पराघटकसंयोगसमुदायपर्याप्तसङ्ख्यान्यून- सङ्ख्यापर्याप्यधिकरणम्वनिष्ठतदवधिकमूर्तसंयुक्तसंयोगपरम्परा घटकसंयोगसमुदायकत्वज्ञानादिति यावत् । यद्यपि परत्वादी निरुक्तान्तरितत्वज्ञानस्य हेतुत्वापेक्षया द्रव्योत्पत्तिद्वितीयक्षण एव परत्वाद्युत्पत्तिमङ्गीकृत्य स- र्वदा सर्वेषां तत्प्रत्यक्षवार गाय ततात्यक्ष एव तादृशज्ञानस्य हेतुत्वमुचितं अपेक्षाबुद्धिव्यक्तिभेदेनानन्तपरत्वाद्यु- स्पत्तिस्वीकारापेक्षया लाघवात् तथापि सङ्ख्या निरूपणे द्रव्योत्पत्तिद्वितीयक्षणे द्वित्वाद्युत्पत्तिस्वीकारपक्षोकगौरव- रीत्या अत्राप्ये कैकस्मिन्नप्रामाणिककोटिकोटिपरत्वादिस्वीकार प्रयुक्तमहागौरवस्य प्रसततया परत्वादावेव ताह- शत्रु हेतुत्व मझीकृत्यापेक्षाबुद्धिव्यक्तिभेदेन परत्वादिस्वीकारस्यैवोचितत्वादेतदभिप्रायेणैव तत्रासमवायि कारण. प्रदर्शनातू प्रागेव एतादृशबुद्धिरूपनिरुक्तकारणं मूलकृता प्रदर्शितम् । ननु परत्वादौ किं मानं न तावत्प्रत्यक्षं तादृशशब्दोल्लखिप्रत्यक्षाभावादिल्याशङ्कापरिहाराय तादृशशब्दमुदाहर्तुं आदौ तादृशप्रयोगघटकावधिवाचक. पदस्य पञ्चम्यन्तत्वं साधयति ॥ अत्रेति ॥ परत्वादिविषयकशाब्दबोधोपयोगिवाक्य इत्यर्थः ॥ अवधि- त्वार्थमिति ॥ अवधित्वविषयकशाब्दबोधार्थमित्यर्थः ॥ पञ्चम्यपेक्षेति ॥ पञ्चमीविभक्तिमत्त्वेनावधि- वापकपदप्रयोग आवश्यक इत्यर्थः । तादृशप्रयोगमुदाहरति । यथेति ॥ पाटलिपुत्रादिति ॥ अवधि- तानिरूपकत्वं पञ्चम्यर्थः तस्य परपदार्थंकदेशपरत्वेऽन्वयः ।। काशीमपेक्ष्येति ॥ काशीनिरूपितेत्यर्थः । काश्यपेक्षयेति पाठे अपेक्षितकाश्येत्यर्थः कृदभिहितो भाव इति न्यायात निरूपकत्वमपेक्षितार्थः तृतीयार्थों निरूपितत्वं तस्यापि परत्वेऽन्वयः एवंच पाटलिपुत्रनिष्ठावधितानिरूपककाशीनिरूपितपरत्वाश्रयः प्रयाग इति शाब्दबोधः । एवं पाटलिपुत्रात्कुरुक्षेत्रमपेक्ष्य कुरुक्षेत्रापेक्षयेति पाठे वा प्रयागोऽपर इति वाक्यस्थलेऽप्युचरी- दिनकरीयम् . बहुतरेति ॥ बहुतरसंयोगान्तरितत्वं तदेव विप्रकृष्टत्वं तद्विषयिण्यपेक्षाबुद्धिदैशिकपरत्वं प्रति निमित्तका- रगामित्यर्थः ॥ तदल्पीयस्वेति ॥ अल्पसंयोगान्तरितस्वरूप सन्निकृष्टत्वाविषयिष्यपेक्षावृद्धिदैशिकापरत्वं प्रति निमित्तकारणमित्यर्थः ॥ १२१ ॥ १२२ ॥ 92